प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 4.6.8.2 TS 4.6.8.2
-दे॑नꣳ सौश्रव॒साय॑ जिन्वति ॥ यद्ध॒विष्य॑मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षाः॒ पर्यश्वं॒ नय॑न्ति । अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञ्ं दे॒वेभ्यः॑ प्रतिवे॒दय॑न्न॒जः ॥ होता᳚ऽद्ध्व॒र्युराव॑या अग्निमि॒न्धो ग्रा॑वग्रा॒भ उ॒त शꣳस्ता॒ सुवि॑प्रः । तेन॑ य॒ज्ञेन॒ स्व॑रंकृतेन॒ स्वि॑ष्टेन व॒क्षणा॒ आ पृ॑णद्ध्वं ॥ यू॒प॒व्र॒स्का उ॒त ये यू॑पवा॒हाश्च॒षालं॒ ॅये अ॑श्वयू॒पाय॒ तक्ष॑ति । ये चार्व॑ते॒ पच॑नꣳ स॒भंर॑न्त्यु॒तो - [ ]
पदपाठः (Word-by-word)
ए॒न॒म् । सौ॒श्र॒व॒साय॑ । जि॒न्व॒ति॒ ॥ यत् । ह॒विष्य᳚म् । ऋ॒तु॒श इत्यृ॑तु - शः । दे॒व॒यान॒मिति॑ देव - यान᳚म् । त्रिः । मानु॑षाः । परीति॑ । अश्व᳚म् । नय॑न्ति ॥ अत्र॑ । पू॒ष्णः । प्र॒थ॒मः । भा॒गः । ए॒ति॒ । य॒ज्ञ्म् । दे॒वेभ्यः॑ । प्र॒ति॒वे॒दय॒न्निति॑ प्रति - वे॒दयन्न्॑ । अ॒जः ॥ होता᳚ । अ॒द्ध्व॒र्युः । आव॑या॒ इत्या - व॒याः॒ । अ॒ग्नि॒मि॒न्ध इत्य॑ग्निं - इ॒न्धः । ग्रा॒व॒ग्रा॒भ इति॑ ग्राव - ग्रा॒भः । उ॒त । शꣳस्ता᳚ । सुवि॑प्र॒ इति॒ सु - वि॒प्रः॒ ॥ तेन॑ । य॒ज्ञेन॑ । स्व॑रंकृते॒नेति॒ सु - अ॒र॒कृं॒ते॒न॒ । स्वि॑ष्टे॒नेति॒ सु - इ॒ष्टे॒न॒ । व॒क्षणाः᳚ । एति॑ । पृ॒ण॒द्ध्व॒म् ॥ यू॒प॒व्र॒स्का इति॑ यूप - व्र॒स्काः । उ॒त । ये । यू॒प॒वा॒हा इति॑ यूप - वा॒हाः । च॒षाल᳚म् । ये । अ॒श्व॒यू॒पायेत्य॑श्व-यू॒पाय॑ । तक्ष॑ति ॥ ये । च॒ । अर्व॑ते । पच॑नम् । स॒भंर॒न्तीति॑ सं - भर॑न्ति । उ॒तो इति॑ ।
पदसंख्या: 50