प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 4.6.8.3 TS 4.6.8.3
तेषा॑-म॒भिगू᳚र्तिर्न इन्वतु ॥ उप॒ प्रागा᳚थ् सु॒मन्मे॑ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ उप॑ वी॒तपृ॑ष्ठः । अन्वे॑नं॒ ॅविप्रा॒ ऋष॑यो मदन्ति दे॒वानां᳚ पु॒ष्टे च॑कृमा सु॒बन्धुं᳚ ॥ यद्-वा॒जिनो॒ दाम॑ स॒दांन॒मर्व॑तो॒ या शी॑र्.ष॒ण्या॑ रश॒ना रज्जु॑रस्य । यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॑ तृणꣳ॒॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥ यदश्व॑स्य क्र॒विषो॒ - [ ]
पदपाठः (Word-by-word)
तेषा᳚म् । अ॒भिगू᳚र्ति॒रित्य॒भि - गू॒र्तिः॒ । नः॒ । इ॒न्व॒तु॒ ॥ उप॑ । प्रेति॑ । अ॒गा॒त् । सु॒मदिति॑ सु - मत् । मे॒ । अ॒धा॒यि॒ । मन्म॑ । दे॒वाना᳚म् । आशाः᳚ । उपेति॑ । वी॒तपृ॑ष्ठ॒ इति॑ वी॒त - पृ॒ष्ठः॒ ॥ अन्विति॑ । ए॒न॒म् । विप्राः᳚ । ऋष॑यः । म॒द॒न्ति॒ । दे॒वाना᳚म् । पु॒ष्टे । च॒कृ॒म॒ । सु॒बन्धु॒मिति॑ सु - बन्धु᳚म् ॥ यत् । वा॒जिनः॑ । दाम॑ । स॒दांन॒मिति॑ सं - दान᳚म् । अर्व॑तः । या । शी॒र्॒.ष॒ण्या᳚ । र॒श॒ना । रज्जुः॑ । अ॒स्य॒ ॥ यत् । वा॒ । घ॒ । अ॒स्य॒ । प्रभृ॑त॒मिति॒ प्र - भृ॒त॒म् । आ॒स्ये᳚ । तृण᳚म् । सर्वा᳚ । ता । ते॒ । अपीति॑ । दे॒वेषु॑ । अ॒स्तु॒ ॥ यत् । अश्व॑स्य । क्र॒विषः॑ ।
पदसंख्या: 50