र्जायन्ते प्रा॒णा वा ए॒ते यद्धिष्णि॑या॒ यद॑द्ध्व॒र्युः प्र॒त्यङ् धिष्णि॑या-नति॒सर्पे᳚त् प्रा॒णान्थ् संक॑र्.षेत् प्र॒मायु॑कः स्या॒न्नाभि॒र्वा ए॒षा य॒ज्ञ्स्य॒ यद्धोतो॒र्द्ध्वः खलु॒ वै नाभ्यै᳚ प्रा॒णोऽवा॑ङपा॒नो यद॑ध्व॒र्युः प्र॒त्यङ् होता॑रमति॒सर्पे॑दपा॒ने प्रा॒णं द॑ध्यात् प्र॒मायु॑कः स्या॒न्नाद्ध्व॒र्युरुप॑ गाये॒द् वाग्वी᳚र्यो॒ वा अ॑द्ध्व॒र्यु-र्यद॑द्ध्व॒र्युरु॑प॒-गाये॑दुद्-गा॒त्रे- [ ]
पदपाठः (Word-by-word)
जा॒य॒न्ते॒ । प्रा॒णा इति॑ प्र-अ॒नाः । वै । ए॒ते । यत् । धिष्णि॑याः । यत् । अ॒द्ध्व॒र्युः । प्र॒त्यङ् । धिष्णि॑यान् । अ॒ति॒सर्पे॒दित्य॑ति - सर्पे᳚त् । प्रा॒णानिति॑ प्र - अ॒नान् । समिति॑ । क॒र्॒.षे॒त् । प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः । स्या॒त् । नाभिः॑ । वै । ए॒षा । य॒ज्ञ्स्य॑ । यत् । होता᳚ । ऊ॒द्र्ध्वः । खलु॑ । वै । नाभ्यै᳚ । प्रा॒ण इति॑ प्र - अ॒नः । अवाङ्॑ । अ॒पा॒न इत्य॑प - अ॒नः । यत् । अ॒द्ध्व॒र्युः । प्र॒त्यङ् । होता॑रम् । अ॒ति॒सर्पे॒दित्य॑ति - सर्पे᳚त् । अ॒पा॒न इत्य॑प - अ॒ने । प्रा॒णमिति॑ प्र - अ॒नम् । द॒द्ध्या॒त् । प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः । स्या॒त् । न । अ॒द्ध्व॒र्युः । उपेति॑ । गा॒ये॒त् । वाग्वी᳚र्य॒ इति॒ वाक् - वी॒र्यः॒ । वै । अ॒द्ध्व॒र्युः । यत् । अ॒द्ध्व॒र्युः । उ॒प॒गाये॒दित्यु॑प - गाये᳚त् । उ॒द्गा॒त्र इत्यु॑त् - गा॒त्रे ।