प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.3.11.1 TS 6.3.11.1
मेद॑सा॒ स्रुचौ॒ प्रोर्णो॑ति॒ मेदो॑रूपा॒ वै प॒शवो॑ रू॒पमे॒व प॒शुषु॑ दधाति यू॒षन्न॑व॒धाय॒ प्रोर्णो॑ति॒ रसो॒ वा ए॒ष प॑शू॒नां ॅयद्यू रस॑मे॒व प॒शुषु॑ दधाति पा॒र्श्वेन॑ वसाहो॒मं प्रयौ॑ति॒ मद्ध्यं॒ ॅवा ए॒तत् प॑शू॒नां ॅयत् पा॒र्श्वꣳ रस॑ ए॒ष प॑शू॒नां ॅयद्वसा॒ यत् पा॒र्श्वेन॑ वसाहो॒मं प्र॒यौति॑ मद्ध्य॒त ए॒व प॑शू॒नाꣳ रसं॑ दधाति॒ घ्नन्ति॒- [ ]
पदपाठः (Word-by-word)
मेद॑सा । स्रुचौ᳚ । प्रेति॑ । ऊ॒र्णो॒ति॒ । मेदो॑रूपा॒ इति॒ मेदः॑ - रू॒पाः॒ । वै । प॒शवः॑ । रू॒पम् । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ । यू॒षन्न् । अ॒व॒धायेत्य॑व-धाय॑ । प्रेति॑ । ऊ॒र्णो॒ति॒ । रसः॑ । वै । ए॒षः । प॒शू॒नाम् । यत् । यूः । रस᳚म् । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ । पा॒र्श्वेन॑ । व॒सा॒हो॒ममिति॑ वसा - हो॒मम् । प्रेति॑ । यौ॒ति॒ । मद्ध्य᳚म् । वै । ए॒तत् । प॒शू॒नाम् । यत् । पा॒र्श्वम् । रसः॑ । ए॒षः । प॒शू॒नाम् । यत् । वसा᳚ । यत् । पा॒र्श्वेन॑ । व॒सा॒हो॒ममिति॑ वसा - हो॒मम् । प्र॒यौतीति॑ प्र - यौति॑ । म॒द्ध्य॒तः । ए॒व । प॒शू॒नाम् । रस᳚म् । द॒धा॒ति॒ । घ्नन्ति॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

विधत्ते —

‘मेदसा स्रुचौ प्रोर्णोति मेदोरूपा वै पशवा रूपमेव पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।

जीर्णपटसदृशं हृदयवेष्टनं मेदः। स्रुचौ जुहूपभृतौ। उभयं मेदसाऽऽच्छादयेत्। सति मेदोबाहुल्ये पशवो रूपवन्तो भवन्ति।

तत्र कंचिद्विशेषं विधत्ते —

‘यूषन्नवधाय प्रोर्णोति रसो वा एष पशूनां यद्यू रसमेव पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।

यूषशब्देन मांसेन सह पक्वं जलमुच्यते। तस्मिञ्जले मेदः प्रक्षिप्य तेनाऽऽच्छादयेत्।

आलोडनं विधत्ते —

‘पार्श्वेन वसाहोमं प्र यौति मध्यं वा एतत्पशूनां यत्पार्श्व रसं दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।

आलोडनं विधत्ते —

‘पार्श्वेन वसाहोमं प्र यौति मध्यं वा एतत्पशूनां यत्पार्श्व रसं दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।

द्वितीयभागे त्वष्टृश्ब्दाभिप्रायमाह —

‘देव त्वष्टर्भूरि ते स समेत्वित्याह त्वाष्ट्रा हि देवतया पशवः’ (सं. का. ६ प्र. ३ अ. ११) इति।

चतुर्थभागेऽनुमदन्तुशब्दस्याभिप्रायमाह —

‘देवत्रा यन्तमवसे सखायोऽनु त्वा माता पितरो मदन्त्वित्याहानुमतमेवैनं मात्रा पित्रा सुवर्गं लोकं गमयति’ (सं. का. ६ प्र. ३ अ. ११) इति।

श्रीरसि वातस्य त्वेत्येतौ मन्त्रावुपेक्षितौ।

विधत्ते —

‘अर्धर्चे वसाहोमं जुहोत्यसौ वा अर्धर्च इयमर्धर्च इमे एव रसेनानक्ति दिशो जुहोति दिश एव रसेनानक्त्यथो दिग्भ्य एवोर्ज रसमव रुन्धे’ (सं. का. ६ प्र. ३ अ. ११ इति।

याज्यायाः पूर्वोत्तरयोरर्धर्चयोरभिमानिनौ देवौ द्यावापृथिव्याविति मध्ये होमेनोभे अपि रसेनाक्ते भवतः। उद्रेकहोमेन दिग्देवतास्तृप्यन्ति। यजमानस्यापि दिशां सकाशादन्नरसप्राप्तिर्भवति।

अवदानपूर्वकं द्वौ प्रैषमन्त्रौ मैत्रावरुणं प्रत्युत्पादयति —

‘प्राणापानौ वा एतौ पशूनां यत्पृषदार्ज्यं वानस्पत्याः खलु वै देवतया पशवो यत्पृषदाज्यस्पोपहत्याऽऽह वनस्पतयेऽनु ब्रूहि वनस्पतये प्रेष्येति प्राणापानावेवं पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।

पृषदाज्यस्योपहत्य पात्रगतं पृषदाज्यं स्रुवेण जुह्वामवदायेत्यर्थः।

अथेडार्थं तस्य तस्य हृदयाद्यङ्गस्यांशमेकत्र समवद्यतीति विधत्ते —

‘अन्यस्यान्यस्य समवत्त समवद्यति तस्मान्नानारूपाः पशवः’ (सं. का. ६ प्र. ३ अ. ११ इति।

समवत्तमवत्तशेषम्। अवदेयानामङ्गानां बहुविधत्वाद्धोमलभ्याः पशवोऽपि बहुविधाः।

सर्वेष्ववदानेषु मांसनिःस्रुतजलेनोपसेचनं विधत्ते —

‘यूष्णोप सिञ्चति रसो वा एष पशूनां यद्यू रसमेव पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११ इति।

हविःशेषस्येडाभागस्य भक्षणायेडोपाह्वानं होतुर्विधत्ते —

‘इडामुप ह्वयते पशवो वा इडा पशूनेवोप ह्वयते चतुरुप ह्वयते चतुष्पादो हि पशवः’ (सं. का. ६ प्र. ३ अ. ११) इति।

इडादेवताया गोरूपत्वात्पशव इडेत्युक्तम्। यद्यप्येतच्चोदकादेव प्रप्तं तथाऽऽप्याघारवदिष्टिविकृतित्वद्योतनाय पुनर्विधानम्।

अत्रेडावदाने मेदसोपस्तरणाभिघारणे विधातुं तद्व्यतिरेकं निन्दति —

‘यं कामयेतापशुः स्यादित्यमेदस्कं तस्मा आ दध्यान्मेदोरूपा वै पशवो रूपेणैवैनं पशुभ्यो निर्भजत्यपशुरेव भवति’ (सं. का. ६ प्र. ३ अ. ११ इति।

स्निग्धद्रवरहितं मांसममेदस्कम्। एनं यजमानं पशूनां (शुभ्यो) निर्भजति निरस्यति। अतो यजमानः पशुरहितो भवति।

विधत्ते —

‘यं कामयेत पशुमान्त्स्यादिति मदस्वत्तस्मा आ दध्यान्मेदोरूपा वै पशवो रूपेणैवास्मै पशूनव रुन्धे पशुमानेव भवति’ (सं. का. ६ प्र. ३ अ. ११ इति।

पृषदाज्येनानूयाजहोमं विधत्ते —

‘प्रजापतिर्यज्ञमसृजत स आज्यं पुरस्तादसृजत पशुं मध्यतः पृषदाज्यं पश्चात्तस्मादाज्येन प्रयाजा इज्यन्ते पशुना मध्यतः पृषदाज्येनानूयाजास्तस्मादेतन्मिश्रमिव पश्चात्सृष्ट हि’ (सं. का. ६ प्र. ३ अ. ११ इति।

यथा प्रथमसृष्टेनाऽऽज्येन प्रथमभाविनः प्रयाजा इज्यन्ते, यथा वा मध्यतः सृष्टेन पशुना मध्यतो यजते, तथा पश्चात्सृष्टेन पृषदाज्येन पश्चाद्भाविनोऽनूयाजा यष्टव्याः। यस्मादेकं द्रव्यं न पर्याप्तमिति बुद्ध्या पश्चाद्द्रव्यान्तेरेण सहैतद्विहितं तस्मादेतत्पृषदाज्यं दधिमिश्रमेव चोदकप्राप्तम्।

त्रित्वसंख्यामपोद्य संख्यान्तरं विधत्ते —

‘एकादशानूयाजान्यजति दश वै पशोः प्राणा आत्मैकादशो यावानेव पशुस्तमनु यजति’ (सं. का. ६ प्र. ३ अ. ११) इति।

पृषदाज्यं प्रशंसति —

‘घ्नन्ति वा एतत्पशुं यत्संज्ञपयन्ति प्राणापानौ खलु वा एतौ पशूनां यत्पृषदाज्यं यत्पृषदाज्येनानूयाजान्यजति प्राणापानावेव पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११ इति।

—--------------------------

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 मेदसेत्यादिवर्गः ।। ऊधसो मांसं मेदः । स्रुचौ जुहूपभृतौ । मेदोरूपाः मेदस्स्वभावाः पशवः । यूषन्निति । रसात्स्रुतं जलम् । पद्दन्नादिना यूषन्भावः, 'सुपां सुलुक्' इति सप्तम्या लुक् । अवधाय प्रक्षिप्य । रसो वा इत्यादि । गतम् ॥
2 पार्श्वेनेति ।। पार्श्वाख्येन पश्वङ्गेन वसाहोमं वसां हेतव्यां प्रयौति आलोळयति । रसात्मको द्रव्य विशेषो वसा । पशुषु अवदानेषु ।।
3 यूष्णेत्यादि ।। गतम् ।।
4 इडामित्यादि ।। गतमेव । 'निसमुपविभ्यो ह्वः' इत्यात्मनेपदम् ।।
5 यमित्यादि ।। अमेदस्कं अल्पमेदस्कं शुष्कं निर्भजति निरस्यति । मेदस्वत् प्रभूतमेदस्कम् ।।
6 प्रजापतिरित्यादि ।। गतम् । पश्चात्सृष्टत्वात् पृषदाज्यमिश्रं भवति । हेतुमाह - पश्चात्सृष्टं हीति । अस्मिन् काले इष्टशिष्टमिवाभवत् भवति । एकेन पर्याप्तसृष्ट्यभावात् सर्वत आहृत्य सृष्टमिव भवतीति नूनमिदं मिश्रमभूदिति मन्यामह इत्यर्थः । पश्चादिति निपात्यते ।।
7 एकादशेति ।। व्याख्यातं प्रयाजेषु । घ्नन्ति वा इत्यादि । व्याख्यातप्रायं समदर्शनेन ।।
इति श्रीभट्टभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये षष्ठकाण्डे तृतीयप्रश्ने एकादशोनुवाकः ॥

समाप्तश्च प्रपाठकः ॥

……………………………………………………………………………………………………………

प्रश्नः-4