वै दे॒वत॑या प॒शवो॒ यत् पृ॑षदा॒ज्यस्यो॑-प॒हत्याऽऽ*ह॒ वन॒स्पत॒येऽनु॑ ब्रूहि॒ वन॒स्पत॑ये॒ प्रेष्येति॑ प्राणापा॒नावे॒व प॒शुषु॑ दधात्य॒न्यस्या᳚न्यस्य समव॒त्तꣳ स॒मव॑द्यति॒ तस्मा॒न्नाना॑रूपाः प॒शवो॑ यू॒ष्णोप॑ सिञ्चति॒ रसो॒ वा ए॒ष प॑शू॒नां ॅयद्यू रस॑मे॒व प॒शुषु॑ दधा॒तीडा॒मुप॑ ह्वयते प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते च॒तुरुप॑ ह्वयते॒- [ ]
पदपाठः (Word-by-word)
वै । दे॒वत॑या । प॒शवः॑ । यत् । पृ॒ष॒दा॒ज्यस्येति॑ पृषत् - आ॒ज्यस्य॑ । उ॒प॒हत्येत्यु॑प - हत्य॑ । आह॑ । वन॒स्पत॑ये । अन्विति॑ । ब्रू॒हि॒ । वन॒स्पत॑ये । प्रेति॑ । इ॒ष्य॒ । इति॑ । प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ । अ॒न्यस्या᳚न्य॒स्येत्य॒न्यस्य॑ - अ॒न्य॒स्य॒ । स॒म॒व॒त्तमिति॑ सं - अ॒व॒त्तम् । स॒मव॑द्य॒तीति॑ सं-अव॑द्यति । तस्मा᳚त् । नाना॑रूपा॒ इति॒ नाना᳚-रू॒पाः । प॒शवः॑ । यू॒ष्णा । उपेति॑ । सि॒ञ्च॒ति॒ । रसः॑ । वै । ए॒षः । प॒शू॒नाम् । यत् । यूः । रस᳚म् । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ । इडा᳚म् । उपेति॑ । ह्व॒य॒ते॒ । प॒शवः॑ । वै । इडा᳚ । प॒शून् । ए॒व । उपेति॑ । ह्व॒य॒ते॒ । च॒तुः । उपेति॑ । ह्व॒य॒ते॒ ।