प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.3.2.1 TS 6.3.2.1
सु॒व॒र्गाय॒ वा ए॒तानि॑ लो॒काय॑ हूयन्ते॒ यद् वै॑सर्ज॒नानि॒ द्वाभ्यां॒ गार्.ह॑पत्ये जुहोति द्वि॒पाद् यज॑मानः॒ प्रति॑ष्ठित्या॒ आग्नी᳚द्ध्रे जुहोत्य॒न्तरि॑क्ष ए॒वाऽऽ*क्र॑मत आहव॒नीये॑ जुहोति सुव॒र्गमे॒वैनं॑ ॅलो॒कं ग॑मयति दे॒वान्. वै सु॑व॒र्गं ॅलो॒कं ॅय॒तो रक्षाꣳ॑स्य जिघाꣳस॒न्ते सोमे॑न॒ राज्ञा॒ रक्षाꣳ॑-स्यप॒हत्या॒प्तु-मा॒त्मानं॑ कृ॒त्वा सु॑व॒र्गं ॅलो॒कमा॑य॒न् रक्ष॑सा॒-मनु॑पलाभा॒या ऽऽ*त्तः॒ सोमो॑ भव॒त्यथ॑- [ ]
पदपाठः (Word-by-word)
सु॒व॒र्गायेति॑ सुवः - गाय॑ । वै । ए॒तानि॑ । लो॒काय॑ । हू॒य॒न्ते॒ । यत् । वै॒स॒र्ज॒नानि॑ । द्वाभ्या᳚म् । गार्.ह॑पत्य॒ इति॒ गार्.ह॑ - प॒त्ये॒ । जु॒हो॒ति॒ । द्वि॒पादिति॑ द्वि - पात् । यज॑मानः । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । आग्नी᳚द्ध्र॒ इत्याग्नि॑-इ॒द्ध्रे॒ । जु॒हो॒ति॒ । अ॒न्तरि॑क्षे । ए॒व । एति॑ । क्र॒म॒ते॒ । आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीये᳚ । जु॒हो॒ति॒ । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । ए॒न॒म् । लो॒कम् । ग॒म॒य॒ति॒ । दे॒वान् । वै । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒तः । रक्षाꣳ॑सि । अ॒जि॒घाꣳ॒॒स॒न्न् । ते । सोमे॑न । राज्ञा᳚ । रक्षाꣳ॑सि । अ॒प॒हत्येत्य॑प - हत्य॑ । अ॒प्तुम् । आ॒त्मान᳚म् । कृ॒त्वा । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । आ॒य॒न्न् । रक्ष॑साम् । अनु॑पलाभा॒येत्यनु॑प - ला॒भा॒य॒ । आत्तः॑ । सोमः॑ । भ॒व॒ति॒ । अथ॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

मन्त्रान्व्याचिख्यासुरादौ होमं विधत्ते —

“सुवर्गाय वा एतानि लोकाय हुयन्ते यद्वैसर्जनानि” (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।

अवान्तरदीक्षाविसर्जनार्थत्वादेतानि होमकर्माणि वैसर्जनानि।

विशेषान्क्रमेण विधत्ते —

“द्वाभ्यां गार्हपत्ये जुहोति द्विपाद्यजमानः प्रतिष्ठित्या आग्नीध्रे जुहोत्यन्तरिक्ष एवाऽऽक्रमत आहवनीये जुहोति सुवर्गमेवैनं लोकं गमयति” (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।

द्वाभ्यां त्व सोम जुषाण इत्येताभ्याम्। आग्नीध्रे होमस्य मन्त्रो विधास्यते। आहवनीय उरु विष्णो, इति मन्त्रः।

होमात्पूर्वमेव ब्रह्मणा सोम आदातव्य इति विधत्ते –

“देवान्वै सुवर्गं लोकं यतो रक्षांस्यजिघांसन्ते सोमेन राज्ञा रक्षांस्यपहत्याप्तुमात्मानं कृत्वा सुवर्गं लोकमायन्रक्षसामनुपलाभायाऽऽत्तः सोमो भवत्यथ वैसर्जनानि जुहोति रक्षसामपहत्यै” (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।

यतो गच्छतः। अप्तुं रक्षोभिरुपलब्धुमशक्यमल्पदेहम्। आत्तो भवति स्वीकृतो भवेत्। तत ऊर्ध्वं कृतो होमो रक्षांस्यपहन्ति।

प्रथममन्त्रस्य पूर्वभागोऽभिप्रेतं सोमस्य सामर्थ्यमुपपादयति —

“त्वं सोम तनूकृद्भ्य इत्याह तनूकृद्ध्येषः” (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।

तनुच्छिदां रक्षसामपि तनूं कृणत्ति च्छिनत्तीत्येष सोमोऽत्यन्तं तनुकृत्तस्माद्रक्षोभ्योऽस्मान्पालयितुं समर्थः।

द्वितीयभागे विशेष्यं पूरयति —

“द्वेषोभ्योऽन्यकृतेभ्य इत्याहान्यकृतानि हि रक्षासि” (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।

तृतीयभागस्योरु वरूथमित्यस्य वाक्यस्य शेषं पूरयति —

‘उरु यन्ताऽसि वरुथमित्याहोरु णस्कृधीति वावैतदाह’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।

बहुलमस्मदर्थं कुर्वित्येतदेव स भागो ब्रूते।

द्वितीयमन्त्रेऽप्तुशब्दसूचितमाह —

‘जुषाणो अप्तुराज्यस्य वेत्वित्याहाप्तुमेव यजमानं कृत्वा सुवर्गं लोकं गमयति रक्षसामनुपलाभाय’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।

प्राचीनवंशान्निष्क्रम्याऽऽग्नीध्रे जिगमिषुभिरनुष्ठेयानि सोमस्वीकारादीनि षड् विधत्ते —

‘आ सोमं ददत आ ग्राव्ण आ वायव्यान्या द्रोणकलशमुत्पत्नीमा नयन्त्यन्वना सि प्र वर्तयन्ति यावदेवास्यास्ति तेन सह सुवर्गं लोकमेति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।

सोमं हविर्धाने नेतुमाददीरन्। ग्रावणोऽभिषवार्थाः। वायव्यान्युलूखलसदृशानि ग्रहपात्राणि। द्रोणकलशः प्रौढं काष्ठपात्रम्। एतान्याददीरन्। पत्नीं स्वस्थानादुत्थाप्याऽऽनयेयुः। व्रीह्याद्यौषधद्रव्यार्थं यत्तृतीयं शकटं तदेवासकृदावृत्तत्वादनांसीति बहुवचनेनोच्यते। तदनु पुनः पुनः प्रवर्तयेयुः। एवं सति यजमानस्य स्वं यावदस्ति तेन सर्वेण सह स्वर्गं प्राप्नोति।

विधत्ते — ‘नयवत्यर्चाऽऽग्नीध्रे जुहोति सुवर्गस्य लोकस्याभिनीत्यै’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।

अग्ने नय सुपथेत्यसौ नयवती।

विधत्ते — ‘ग्राव्णो वायव्यानि द्रोणकलशमाग्नीध्र उप वासयति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।

स्थापयेदित्यर्थः।

तद्वत्सोमस्यापि स्थापनप्राप्तौ तद्वारयितुं ग्रहणं विधत्ते —

‘वि ह्येनं तैर्गृह्णते यत्सहोपवासयेदपुवायेत्’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।

एनं सोमं तैर्ग्रावादिभिर्वियुज्य नेतुं गृह्णीरन्। यदि कश्चित्तैः सह स्थापयेत्तदानीमभिषवभीत्या सोमस्योदरं पूति भवेत्। अत्राऽऽज्यशेषस्याऽऽहवनीये होमायोरु विष्णो, इति यो मन्त्रो यश्च ततः पूर्वोऽयं नो अग्निरिति मन्त्रस्तावुपेक्षितौ।

विधत्ते —

‘सौम्यर्चा प्र पादयति स्वयैवैनं देवतया प्र पादयति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।

स्पष्टार्थतां दर्शयति —

‘अदित्याः सदोऽस्यदित्याः सद आ सीदेत्याह यथायजुरेवैतत्’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।

सवितृसंबोधनतात्पर्यमाह —

‘यजमानो वा एतस्य पुरा गोप्ता भवत्येष वो देव सवितः सोम इत्याह सवितृमसूत एवैनं देवताभ्यः सं प्र यच्छति” [सं॰ का॰ ६ प्र॰ ३ अ॰ २] इति।

मन्त्रभागयोर्द्वयोः प्रसिद्धिं तृतीयभागे विपक्षबाधं च दर्शयति —

“एतत्त्व सोम देवो देवानुपागा इत्याह देवो ह्येष सन्देवानुपैतीदमहं मुनुष्यो मनुष्यानित्याह मनुष्यो ह्येष सन्मनुष्यानुपैति यदेतद्यजुर्न ब्रूयादप्रजा अपशुर्यजमानः स्यात्सह प्रजया सह रायस्पोषेणेत्याह प्रजयैव पशुभिः सहेमं लोकमुपावर्तते” (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।

मन्त्रद्वयार्थप्रसिद्धिं दर्शयति —

“नमो देवेभ्य इत्याह नमस्कारो हि देवानां स्वधा पितृभ्य इत्याह स्वधाकारो हि पितृणाम्” (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।

निर्वरुणस्य पाशादित्यत्र निर्मुञ्चामीत्यध्याहर्तव्यम्।

एतमेवाभिप्रायं दर्शयति —

“इदमहं निर्वरुणस्य पाशादित्याह वरुणपाशादेव निर्मुच्यते’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।

अस्य तु मन्त्रस्य प्रतीकग्रहणपूर्वकं तात्पर्यमाह —

“अग्ने व्रतपत आत्मनः पूर्वा तनूरादेयेत्याहुः को हि तद्वेद यद्वसीयान्त्स्वे वशे भूते पुनर्वा ददाति न वेति” [सं॰ का॰ ६ प्र॰ ३ अ॰ २] इति।

अग्ने व्रतपत इत्येतावत्प्रतीकम्। स्वकीया पूर्वा तनूरग्निसकाशात्सहसा स्वीकार्येति बुद्धिमन्त आहुः। कुतः वसीयानत्यन्तधनिकः प्रभुः परकीये वस्तुनि स्ववशीभूते सति पुनर्ददाति वा न वेति यत्तत्को नाम वेद। ततो वशीभावात्प्रागेवाऽऽदेया।

ग्रावादीनामाग्नीध्रे स्थापनं यत्पूर्वमुक्तं तत्प्रशंसति —

“ग्रावाणो वै सोमस्य राज्ञो मलिम्लुसेना य एवं विद्वान्ग्राव्ण आग्नीध्र उपवासयति नैनं मलिम्लुसेना विन्दति” [सं॰ का॰ ६ प्र॰ ३ अ॰ २] इति।

मलिम्लुसेना विरोधितस्करसेना।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 सुवर्गायेत्यादि ।। अवान्तरदीक्षाविसर्जनार्थानि वैसर्जनानि 'त्वं सोम' इत्यादि । द्वाभ्यामित्यादि । गतम् । गार्हपत्याग्नीघ्राहवनीयानां पृथिव्यन्तरिक्षस्वर्गात्मकत्वात् प्रतिष्ठाहेतुत्वम् । यजमानस्याक्रमते अप्रतिबन्धेन गच्छति । वृत्तावात्मनेपदम् ।।
2 देवान्त इत्यादि ।। यतः गच्छतः । 'शतुरनुमः' इति विभक्तेरुदात्तत्वम् । अप्तुं स्वल्पमात्मानं कृत्वा स्वर्गं गताः रक्षसामनुपलाभाय रक्षांसि मोपलाभं जिघांसन् । यस्मादेवं तस्मात्तदर्थं आत्तः गृहीतस्सोमो भवति । अथास्मिन्नवसरे वैसर्जनानि जुहोति रक्षसामपहत्यै यथा भवति तथा गृहीतस्सोमो भवति ।।
3 इदानीं मन्त्रपदानि व्याचष्टे - त्वं सोमेति ।। तनूकृद्ध्येष इति । कृती छेदने । तनूकृतां तनुच्छिदां रक्षःप्रभृतीनामपि तनूकृत् । अन्यकृतानि हीति । अन्यैरमित्रैः कृतानि रक्षःप्रभृतीनि । वरूथमिति । अन्ये उक्तेभ्यो भयेभ्यो रक्षकं वरूथं वरणीयं नमस्कारवत्त्वमसीति उरुधनरूपेण स्तुतः उरुधनमस्मभ्यं देहीत्याहेत्यर्थः । 'नश्च धातुस्थोरुषभ्यः' इति नसो णत्वम् । 'कः करत्' इति विसर्जनीयस्य सत्वम् । करोतेर्लोटि शपो लुक् । 'श्रुशृणुपॄकृवृभ्यः' इति धिभावः । अप्तुमेवेत्यादि । गतम् ।।
4 नयवत्येति ।। आग्नीध्रे अग्निं प्रतिष्ठाप्य' अग्ने नय' इति नयशब्दवत्या जुहोति सुवर्गस्याभिमुख्येन प्राप्त्यैभवति ।।
5 ग्रावादीनि तत्रैवाग्नीध्रे उपवासयति स्थापयति । तैर्ग्रावादिभिर्विभज्य विश्लेष्य एनं सोमं गृह्णते । एवं हि कर्तुं युज्यते हिंसकत्वादस्यैषाम् । 'हि च' इति निघातप्रतिषेधः । अथ यदि तैस्सह एनमुपवासयेत् । पूर्ववद्गतेरनुदात्तत्वम्, समासश्च । तदा अयमपुवायेत पूतीभवेत् । इहत्यं धात्वन्तरमित्येके । एतेरपपूर्वस्येदं वैकृतमित्यन्ये । सर्वथा समानवाक्ये पदात्परत्वाभावः ।।
6 सौम्येति ।। 'सोमो जिगाति' इत्यादिना हविर्धानं प्रतिपादयति सोमम् । स्वया आत्मनैव देवतया प्रपादयति दक्षिणस्य हविर्धानस्य नीडे कृष्णाजिनास्तरणम् ।।
7 अदित्यास्सद इति ।। तत्र राज्ञ आसादनम् । 'अदित्यास्सद आ सीद' इति यथा यजुर्वदति एवमेवैतदवगन्तव्यम्, तन्न व्याख्येयमिति ।।
8 यजमानो वा इत्यादि ।। यजमान एवास्य पूर्वं प्राग्वंशे रक्षक आसीत् । 'पुरि लुङ् चास्मे' इति लट् । इदानीं तु 'एष वो देव'7 इत्यनेन देवेभ्यो रक्षार्थं संप्रयच्छति । तत्र सवितारमामन्त्र्य देवेभ्यः प्रदानात् सवितृप्रसूतः सवित्राऽनुज्ञात एव देवताभ्यस्संप्रयच्छति । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्व- रत्वम् ।।
9 एतत्त्वमिति ।। राज्ञ उपस्थानम् । एतावन्तं कालं बद्ध इव जितो राजा, यजमानश्च गोपायिता । इदानीं तु देवेषु रक्षत्सु देवानुपागतः मनुष्यस्सन् यजमानो मनुष्यान् एत्युपस्थानार्थं इत्यर्थः । उभयत्र 'हि च' इति निघातप्रतिषेधे 'तिङि चोदात्तवति' इति गतेरनुदात्तत्वम्, समासश्च ।।
10 यदेतदित्यादि ।। गतम् । अप्रजा इति । 'नित्यमसिच्प्रजामेधयोः' इत्यसिच् । उपावर्तते इति । 'गतिर्गतौ'

इति प्रथमस्य गतेरनुदात्तत्वम्, समासश्च गत्याख्यातसमुदायेन ।।

11 नमो देवेभ्य इति ।। अञ्जलिकरणात् देवेभ्यः । नमस्कारो हि देवानां कार्यः । स्वधा पितृभ्यः स्वधा पितृभ्य इति दक्षिणा अञ्जलिं न्यञ्चं पितृभ्यः । स्वधाकारो हि पितृणां कार्य इति ।।
12 इदमहमित्युपनिष्क्रयणम् ।। वरुणपाशादेवेति । शालायां पृष्ठ्य इवासीद्यजमानः । इदानीं निर्गच्छन् वरुणपाशादिव मुक्तो भवति ।।
13 'अग्ने व्रतवते' इति प्रतीकग्रहणमिदं 'अग्रे व्रतपते त्वं व्रतानां व्रतपतिरसि' इत्यवान्तरदीक्षाविसर्जनमन्त्रस्य । अस्याभिप्रायमाह - आत्मन इति ।। परत्र निहिता आत्मनस्तनूः समाना पूर्वा तनूरात्मनैव । तत आदेया कर्मसमाप्तौ अग्निना यजमानेन च, न तु तत्रैव चिरं स्थाप्या । कुतः? को नाम तज्जानाति, यद्वसीयान् वसुमत्तरः श्रेष्ठो जनः स्वे वशे भूते आत्मवशं गते वस्तुनि तत्तादृशं पूर्वगृहीतं पूर्वस्वामिने किं वा ददाति किं वा न ददाति । तस्मात् वशीकरणात्प्रागेव द्रुततरमादेयेति आहुरभियुक्ताः । तस्मादस्मिन्मन्त्रे या मम तनूस्त्वय्यभूत्पूर्वं सेयमिदानीं मयि वर्तते । या तव तनूर्मय्यभूदेषा सेदानीं अवान्तरदीक्षाविसर्जने वैसर्जनहोमान्ते निवर्तते इति । 'चवायोगे प्रथमा' इति तिङ् ददातीत्येतन्न निपात्यते । यद्वृत्तं व्याख्यातेन नान्वीयते । ददाति वा न वेति यदिदमर्थरूपं कस्तद्वेदेति ।।
14 ग्रावाण इति ।। यदुक्तं 'द्रोणकलशमाग्नीध्र उपवासयति' इति । पूर्ववद्गतेः निघातस्समासश्च ।।
इति षष्ठे तृतीये द्वितीयोनुवाकः ॥