-वैनं॑ दे॒वत॑या॒ प्र पा॑दय॒त्यदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आ सी॒देत्या॑ह यथाय॒जुरे॒वैतद्-यज॑मानो॒ वा ए॒तस्य॑ पु॒रा गो॒प्ता भ॑वत्ये॒ष वो॑ देव सवितः॒ सोम॒ इत्या॑ह सवि॒तृप्र॑सूत ए॒वैनं॑ दे॒वता᳚भ्यः॒ सं प्रय॑च्छत्ये॒तत् त्वꣳ सो॑म दे॒वो दे॒वानुपा॑गा॒ इत्या॑ह दे॒वो ह्ये॑ष सन्- [ ]
पदपाठः (Word-by-word)
ए॒व । ए॒न॒म् । दे॒वत॑या । प्रेति॑ । पा॒द॒य॒ति॒ । अदि॑त्याः । सदः॑ । अ॒सि॒ । अदि॑त्याः । सदः॑ । एति॑ । सी॒द॒ । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा-य॒जुः । ए॒व । ए॒तत् । यज॑मानः । वै । ए॒तस्य॑ । पु॒रा । गो॒प्ता । भ॒व॒ति॒ । ए॒षः । वः॒ । दे॒व॒ । स॒वि॒तः॒ । सोमः॑ । इति॑ । आ॒ह॒ । स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ-प्र॒सू॒तः॒ । ए॒व । ए॒न॒म् । दे॒वता᳚भ्यः । सम् । प्रेति॑ । य॒च्छ॒ति॒ । ए॒तत् । त्वम् । सो॒म॒ । दे॒वः । दे॒वान् । उपेति॑ । अ॒गाः॒ । इति॑ । आ॒ह॒ । दे॒वः । हि । ए॒षः । सन्न् ।