दे॒वानु॒पैती॒दम॒हं म॑नु॒ष्यो॑ मनु॒ष्या॑नित्या॑ह मनु॒ष्यो᳚(1॒) ह्ये॑ष सन् म॑नु॒ष्या॑नु॒पैति॒ यदे॒तद् यजु॒र्न ब्रू॒यादप्र॑जा अप॒शुर्यज॑मानः स्याथ् स॒ह प्र॒जया॑ सह रा॒यस्पोषे॒णेत्या॑ह प्र॒जयै॒व प॒शुभिः॑ स॒हेमं ॅलो॒कमु॒पाव॑र्तते॒ नमो॑ दे॒वेभ्य॒ इत्या॑ह नमस्का॒रो हि दे॒वानाꣳ॑ स्व॒धा पि॒तृभ्य॒ इत्या॑ह स्वधाका॒रो हि- [ ]
पदपाठः (Word-by-word)
दे॒वान् । उ॒पैतीत्यु॑प - एति॑ । इ॒दम् । अ॒हम् । म॒नु॒ष्यः॑ । म॒नु॒ष्यान्॑ । इति॑ । आ॒ह॒ । म॒नु॒ष्यः॑ । हि । ए॒षः । सन्न् । म॒नु॒ष्यान्॑ । उ॒पैतीत्यु॑प - एति॑ । यत् । ए॒तत् । यजुः॑ । न । ब्रू॒यात् । अप्र॑जा॒ इत्यप्र॑ - जाः॒ । अ॒प॒शुः । यज॑मानः । स्या॒त् । स॒ह । प्र॒जयेति॑ प्र - जया᳚ । स॒ह । रा॒यः । पोषे॑ण । इति॑ । आ॒ह॒ । प्र॒जयेति॑ प्र - जया᳚ । ए॒व । प॒शुभि॒रिति॑ प॒शु-भिः॒ । स॒ह । इ॒मम् । लो॒कम् । उ॒पाव॑र्तत॒ इत्यु॑प - आव॑र्तते । नमः॑ । दे॒वेभ्यः॑ । इति॑ । आ॒ह॒ । न॒म॒स्का॒र इति॑ नमः - का॒रः । हि । दे॒वाना᳚म् । स्व॒धेति॑ स्व - धा । पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । इति॑ । आ॒ह॒ । स्व॒धा॒का॒र इति॑ स्वधा - का॒रः । हि ।