प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.3.4.1 TS 6.3.4.1
पृ॒थि॒व्यै त्वा॒ऽन्तरि॑क्षाय त्वा दि॒वे त्वेत्या॑है॒भ्य ए॒वैनं॑ ॅलो॒केभ्यः॒ प्रोक्ष॑ति॒ परा᳚ञ्चं॒ प्रोक्ष॑ति॒ परा॑ङिव॒ हि सु॑व॒र्गो लो॒कः क्रू॒रमि॑व॒ वा ए॒तत् क॑रोति॒ यत् खन॑त्य॒पोऽव॑ नयति॒ शान्त्यै॒ यव॑मती॒रव॑ नय॒त्यूर्ग्वै यवो॒ यज॑मानेन॒ यूपः॒ संमि॑तो॒ यावा॑ने॒व यज॑मान॒-स्ताव॑ती-मे॒वास्मि॒-न्नूर्जं॑ दधाति- [ ]
पदपाठः (Word-by-word)
पृ॒थि॒व्यै । त्वा॒ । अ॒न्तरि॑क्षाय । त्वा॒ । दि॒वे । त्वा॒ । इति॑ । आ॒ह॒ । ए॒भ्यः । ए॒व । ए॒न॒म् । लो॒केभ्यः॑ । प्रेति॑ । उ॒क्ष॒ति॒ । परा᳚ञ्चम् । प्रेति॑ । उ॒क्ष॒ति॒ । पराङ्॑ । इ॒व॒ । हि । सु॒व॒र्ग इति॑ सुवः-गः । लो॒कः । क्रू॒रम् । इ॒व॒ । वै । ए॒तत् । क॒रो॒ति॒ । यत् । खन॑ति । अ॒पः । अवेति॑ । न॒य॒ति॒ । शान्त्यै᳚ । यव॑मती॒रिति॒ यव॑-म॒तीः॒ । अवेति॑ । न॒य॒ति॒ । ऊर्क् । वै । यवः॑ । यज॑मानेन । यूपः॑ । संमि॑त॒ इति॒ सं - मि॒तः॒ । यावान्॑ । ए॒व । यज॑मानः । ताव॑तीम् । ए॒व । अ॒स्मि॒न्न् । ऊर्ज᳚म् । द॒धा॒ति॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

लोकत्रयाभिमानिदेवताप्रीत्यर्थं प्रोक्षणमित्वाह —

“ पृथिव्यै त्वाऽन्तरिक्षाय त्वा दिवे त्वेत्याहैभ्य एवैनं लोकेभ्यः प्रोक्षति ” [सं॰ का॰ ६ प्र॰ ३ अ॰ ४] इति।

नात्रौदुम्बर्या इवाग्रमारभ्याधोमुखप्रोक्षणं किंतु मूलमारभ्योर्ध्वमुखमिति विधत्ते —

‘ पराञ्चं प्रोक्षति पराङिव हि सुवर्गो लोकः ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

एतानर्थान्विधत्ते —

‘ क्रूरमिव वा एतत्करोति यत्खनत्यपोऽव नयति शान्त्यै यवमतीरव नयत्यूर्ग्वै यवो यजमानेन यूपः संमितो यावानेव यजमानस्तावतीमेवास्मिन्नूर्जं दधाति पितृणा सदनमसीति बर्हिरव स्तृणाति पितृदेवत्यं ह्येतद्यन्निखातं यद्बर्हिरनवस्तीर्य मिनुयात्पितृदेवत्यो निखातः स्याद्बर्हिरवस्तीर्य मिनोत्यस्यामेवैनं मिनोति, ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

यद्यप्यत्र यूपावटखननं नाऽऽम्नातं तथाऽप्यौदुम्बर्यामाम्नातं तस्येहानुवृत्तिमभिप्रेत्य यत्खनतीत्यनूद्यते। तदनुवृत्तये समानविषयत्वं प्रत्यभिज्ञापयितुं तत्र विहितमप्यवनयनादिकं पुनरत्र विधीयते।

विधत्ते —

“ यूपशकलमवास्यति सतेजसमेवैनं मिनोति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

यत्पूर्वोक्तं स्वधितेर्वृक्षस्य बिभ्यतः प्रथमेन शकलेन सह तेजः परापततीति शकले प्रक्षिप्ते सति तेन तेजसा सहितमेवैनं यूपं स्थापितवान्भवति।

तदिदं दर्शयति —

“ देवस्त्वा सविता मध्वाऽनक्त्वित्याह तेजसैवैनमनक्ति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

विधत्ते —

“ सुपिप्पलाभ्यस्त्वौषधीभ्य इति चषालं प्रति मुञ्चति तस्माच्छीर्षत ओषधयः फलं गृह्णन्ति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

यस्मात्फलार्थमग्रे चषालः प्रतिमुक्तस्तमस्माच्छिरस्यग्रे फलग्रहणम्।

विधत्ते — “ अनक्ति तेजो वा आज्यं यजमानेनाग्निष्ठाऽश्रिः संमिता यदग्निष्ठामश्रिमनक्ति यजमानमेव तेजसाऽनक्त्यान्तमनक्त्यान्तमेव यजमानं तेजसाऽनक्ति ” [सं॰ का॰ ६ प्र॰ ३ अ॰ ४ ] इति।

तक्षणेन निष्पादितास्वष्टासु यूपाश्रिषु मध्ये येयमाहवनीयाग्निसमीपे स्थिता साऽग्निष्ठा तामाज्येनानक्ति। तदिदमञ्जनममन्त्रकमिति बौधायनस्य मतम्। अथ स्रुवेणाग्निष्ठामश्रिमभिघारयन्नाह यूपायाज्यमानायानुब्रूहीत्येतावत एवाभिधानात्।

विधत्ते —

“ सर्वतः परि मृशत्यपरिवर्गमेवास्मिन्तेजो दधाति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

यजमाने कमप्यवयवमवर्जयित्वा तेजो दधाति।

वाक्यत्रयप्रयोजनमाह —

“ उद्दिव स्तभानाऽन्तरिक्षं पृणेत्याहैषां लोकानां विधृत्यै ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

विधत्ते —

‘ वैष्णव्यर्चा कल्पयति वैष्णवो वै देवतया यूपः स्वयैवैनं देवतया कल्पयति ’ (सं॰ का॰ ६ प्र॰ २ अ॰ १०) इति।

ते ते धामानीत्यसौ वैष्णवी। कल्पयति उच्छ्रयेत्।

मन्त्रान्तरं त्वेवमाम्नातम् — विष्णोरिति। हे जना विष्णोः कर्माणि सृष्टिस्थितिसंहारचरितानि पश्यत, यतो यैः कर्मभिर्व्रतानि भवदीयलौकिकवैदिककर्माणि पस्पशे सृष्टवान्निर्मितवान्। स विष्णुरिन्द्रस्य युज्यो योग्यः सखा।

तद्विष्णोरिति। तद्विष्णोरिति मन्त्रस्यायमर्थः — सूरयो विद्वांसो वेदान्तपारंगता विष्णोस्तत्परमं पदं स्वरूपं सदा पश्यन्ति। कीदृशं दिव्याकाशे निरावरणे प्रसृतं चक्षुरिवाऽऽततं व्याप्तम्। तादृशस्य विष्णोरनुग्रहाद्वैष्णवस्य यूपस्याग्निष्ठामश्रिमाहवनीयेन संमितां स्थापयामीत्यर्थः।

अस्मिन्स्थापने विष्णोः कर्माणि तद्विष्णोरिति मन्त्रद्वयं विनियुङ्क्ते —

‘ द्वाभ्यां कल्पयति द्विपाद्यजमानः प्रतिष्ठित्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

ते ते धामानीत्यादीनां त्रयाणां मन्त्राणां पदार्था उपेक्षिताः।

अग्निष्ठाश्रिस्थापने पूर्वपक्षं दर्शयति —

‘यं कामयेत तेजसैनं देवताभिरिन्द्रियेण व्यर्धयेयमित्यग्निष्ठां तस्याश्रिमाहवनीयादित्थं वेत्थं वाऽति नावयेत्तेजसैवैनं देवताभिरिन्द्रियेण व्यर्धयति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

तक्षणवेलायामष्टास्वश्रिषु कांचिदाश्रिमियमाग्निष्ठेति प्रज्ञातां कुर्यात्। तामश्रिं यूपस्य पश्चिमभागे स्थितादा(तमा)हवनीयमतिलङ्घ्य दक्षिणत उत्तरतो वा नावयेत्प्रापयेत्। तथा सति तेजआदिभिर्व्यर्धयति वियोजयति।

सिद्धान्तं दर्शयति —

‘ यं कामयेत तेजसैनं देवताभिरिन्द्रियेण समर्धयेयमित्यग्निष्ठां तस्याश्रिमाहवनीयेन सं मिनुयात्तेजसैवैनं देवताभिरिन्द्रियेण समर्धयति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति। संमिनुयात्संमुखां स्थापयेत्।

मन्त्रयोः स्पष्टार्थतां दर्शयति —

‘ब्रह्मवनिं त्वा क्षत्रवनिमित्याह यथायजुरेवैतत्” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

विधत्ते —

‘ परि व्ययत्यूर्ग्वै रशना यजमानेन यूपः संमिता यजमानमेवोर्जा समर्धयति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

ओषधिविशेषैर्दर्भैरुत्पन्नत्वाद्रशनाया ऊर्ग्रूपत्वम्। तया यूपस्य संबन्धे सति यूपप्रमाणहेतुर्यजमान एवान्नेन समृद्धो भवति।

रशनाया मध्यमगुणस्य देशं विधत्ते —

‘नाभिदघ्ने परि व्ययति नाभिदघ्न एवास्मा ऊर्जं तधाति तस्मान्नाभिदघ्न ऊर्जा भुञ्जते’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति। अस्मा अस्य यजमानस्य नाभिदघ्न उदर ऊर्जं स्थापयति। ततः सर्वे तत्रोर्जा भुञ्जते भुक्तामूर्जं धारयन्ति।

नाभिदघ्नप्रशंसार्थं निन्द्यं पक्षमुपन्यस्यति —

‘यं कामयेतोर्जैनं व्यर्धयेयमित्यूर्ध्वां वा तस्यावाचीं वाऽवोहेदूर्जैवैनं व्यर्धयति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

उदरसदृशान्नाभिदघ्नादूर्ध्वमधो वा रशनावेष्टने यजमानमन्नेन वियोजयति।

कामनाभेदेन देशविशेषं विधत्ते —

‘यदि कामयेत वर्षुकः पर्जन्यः स्यादित्यवाचीमवोहद्वृष्टिमेव नियच्छति यदि कामयेतावर्षुकः स्यादित्यूर्ध्वामुदूहेद्वृष्टिमेवाद्यच्छति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

नाभिदघ्नदेशादवाचीनमधोदेशे बद्धां पुनरप्यवोहेदपकर्षेत्तेन वृष्टिं नियच्छति न्यग्भावेन प्रवर्तयति। ऊर्ध्वप्रदेशे बद्धां पुनरप्युदूहेदुत्कर्षेत्तेन वृष्टिमुद्यच्छति ऊर्ध्वं प्रवर्तयति निवारयतीत्यर्थः।

यूपं सर्वदेवताप्रीतिहेतुतया स्तौति —

‘ पितॄणां निखातं मनुष्याणामूर्ध्वं निखातादा रशनाया ओषधीना रशना विश्वेषां देवानामूर्ध्व रशनाया आ चषालादिन्द्रस्य चषाल साध्यानामतिरिक्त स वा एष सर्वदेवत्यो यद्यूपो यद्यूपं मिनोति सर्वा एव देवताः प्रीणाति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

निखातमुपरं पितॄणां प्रियं, निखातरशनादेशयोर्मध्यं मनुष्याणां रशनादेश ओषधीनां, तद्देशचषालयोर्मध्यं विश्वेषां देवानां चषालदेश इन्द्रस्य, अतिरिक्तं तु साध्यानाम्।

पुनरपि स्वर्गलोकावगतिहेतुतया यूपं स्तौति —

यज्ञेन वै देवाः सुवर्गं लोकमायन्तेऽमन्यन्त मनुष्या नोऽन्वाभविष्यन्तीति ते यूपेन योपयित्वा सुवर्गं लोकमायन्तमृषयो यूपेनैवानु प्राजानन्तद्यूपस्य यूपत्वं यद्यूपं मिनोति सुवर्गस्य लोकस्य प्रज्ञात्यै ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ४] इति।

देवाः पुरा कदाचिद्यज्ञं कृत्वा तेन यज्ञेन स्वर्गं गच्छन्तो मनुष्या अप्यस्मानन्वागत्यास्मत्सदृशास्ते भविष्यन्तीति मत्वा यूपेन मनुष्यान्योपयित्वा मोहयित्वा स्वयमेव स्वर्गं गताः। यूपः सर्वदेवत्य इत्यज्ञात्वा काष्ठमात्ररूप इति बुद्धिर्मोहः। ऋषयस्तु यूपमाहात्म्यस्यातीन्द्रियस्यापि द्रष्टारस्तेनैव विदिततत्त्वेन यूपेन देवाननु तं स्वर्गं प्रज्ञातवन्तः। तत्तस्मान्मनुष्यमोहनहेतुत्वाद्यूपस्य यूपत्वं यूपनाम संपन्नम्। ‘ यू(यु)प विमोहने ’ इत्यस्माद्धातोर्यूपशब्दो निष्पन्नः। एवं च सति विदतमाहात्म्यस्य यूपस्य स्थापनेन स्वर्गः प्रज्ञायते।

आहवनीयात्पूर्वदेशे यूपस्थापनाय विधत्ते —

‘ पुरस्तान्मिनोति पुरस्ताद्धि यज्ञस्य प्रज्ञायते प्रज्ञात हि तद्यदतिपन्न आहुरिदं कार्यमासीदिति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

यदुक्तं चषालादतिरिक्तं साध्यानामिति तत्समर्थ्यते —

“ साध्या वै देवा यज्ञमत्यमन्यन्त तान्यज्ञो नास्पृशत्तान्यद्यज्ञस्यातिरिक्तमासीत्तदस्पृशदतिरिक्तं वा एतद्यज्ञस्य यदग्नावग्निं मथित्वा प्रहरत्यतिरिक्तमेतद्यूपस्य यदूर्ध्वं चषालत्तेषां तद्भागधेयं तानेव तेन प्रीणाति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

साध्यनामका देवाः पुरा यज्ञं क्लृप्तं यज्ञभागमतिलङ्घ्याधिको भागोऽस्माकमस्त्वित्यमन्यन्त। तानधिकं लिप्समानान्यज्ञो नास्पृशत्। तर्हि किमस्पृशत्। यद्यज्ञस्यातिरिक्तमिहाऽऽसीत्तत्तानस्पृशत्। किमतिरिक्तम्। यदग्नावग्निं मथित्वा प्रहरणमस्ति एतदन्ययज्ञेऽभावादिहातिरिक्तम्। यदपि चषालादूर्ध्वं यूपाग्रमेतदपि यजमानपरिमाणादधिकत्वादतिरिक्तम्। तदुभयं साध्यानां प्रीतिहेतुः।

यूपप्रसङ्गात्स्वकाले स्वरुहोमं विधत्ते —

‘ देवा वै संस्थिते सोमे प्र स्रुचोऽहरन्प्र यूपं तेऽमन्यन्त यज्ञवेशसं वा इदं कुर्म इति ते प्रस्तर स्रुचां निष्क्रयणमपश्यन्त्स्वरुं यूपस्य सस्थिते सोमे प्र प्रस्तर हरति जुहोति स्वरुमयज्ञवेशसाय ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

पुरा देवाः समाप्ते सोमयज्ञे स्रुचो यूपं चाग्नौ प्राहरन्नग्नौ प्रहर्तुं संकल्पितवन्तः। ततो यज्ञविनाशो मा भूदिति विचार्य प्रस्तरेण स्रुचः स्वरुणा यूपं च निष्क्रीतवन्तः। तस्मात्सोमसमाप्तौ प्रस्तरमग्नौ प्रहरेत्स्वरुं च जुहुयात्। स्वरुर्यूपतक्षणे प्रथमः शकलः।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 यूपं प्रोक्षति - पृथिव्यै त्वेति ।। पराञ्चमिति । मूलादारभ्य ऊर्ध्वं प्रोक्षति । 'अनिगन्तोञ्चतौ' इति गतेः प्रकृतिस्वरत्वम् । पराङिति । इत ऊर्ध्वगमनोस्मिन् स्वर्गो भवति ।।
2 क्रूरमिवेत्यादि ।। गतम् ।।
3 ऊर्ग्वा इति ।। ऊर्गन्नं तत्साधनत्वात्ताच्छब्द्यम् ।।
4 यजमानेन तुल्यो यूपः प्रधानसाधनत्वात्, तुल्यप्रमाणत्वाद्वा । तस्माद्यजमानाय पर्याप्तामूर्जमस्मिन् यूपे दधाति । यद्वा - यावान् यावत्परिमाणः सपरिवारो यावत्कालं जीवी वा तत्पर्याप्तामूर्जं दधाति ।।
5 पितृणामित्यादि ।। गतम् । पितृदेवत्यं निखातं भूमिप्रविष्टमेतत् पित्र्यं संपन्नं भूमित्वं जहाति । देवतान्तात्तादर्थ्ये यत्, छान्दसो दीर्घः । पितृदेवत्य इति । निखातस्सर्वोपि यूपः पितृदेवत्यस्स्यात् बर्हिरवस्तरणाभावे । मिनुयादिति । प्रक्षिपेत् । डु मिञ् प्रक्षेपणे । अस्यामिति । बर्हिरवस्तरणावस्थायामेव पृथिव्यामेव वा यूपं मिनोति भूम्यवस्थानात् । 'ऊडिदम्' इति विभक्तेरुदात्तत्वम् ।।
6 यूपशकलमिति । प्रथमगृहीतं गर्तेऽवास्यति । सतेजसमिति । तेजसा संहितमेव यूपं प्रक्षिपति । 'प्रथमेन शकलेन सह तेजः परा पतति' इति तस्य तेजस्त्वस्योक्तत्वात् ।।
7 यूपस्याग्रमनक्ति - देवस्त्वा सवितेति ।। गतन् ।।
8 सुपिप्पलाभ्य इति ।। गतम् ।।
9 अनक्तीति ।। अग्निष्ठामश्रिमाज्येनेति सामर्थ्याद्गम्यते; यदाह 'तेजो वा आज्यम्' इत्यादि । अपदात्परत्वान्निघाताभावः । तेजोहेतुराज्यम् । यजमानेन तुल्या अग्निष्ठा अग्निपार्श्वस्था अश्रिः । आन्तमिति। यावदन्तं अन्तमपि गृहीत्वा सर्वामग्निष्ठामश्रिमनक्ति तेजसा सर्वं यजमानमनक्ति ।।
10 सर्वं यूपं परिमृशति परिमृजति नाग्निष्ठाश्रिमात्रमेव । पृथग्वचनं तु अश्र्यग्र्यार्थम् । केचिदाहुः - अग्निष्ठायाः पृथग्वचनमनर्थकं मा भूदिति विकल्प इति । अपरे पुनरहुः - अग्निष्ठामेव सर्वां हस्तेन परिमृशतीति । अपरिवर्गमिति । किंचिदप्यपरिशेष्य सर्वमपि तेजो यजमाने दधाति ।।
11 यूपमुच्छ्रयति - उद्दिवमिति ।। व्याख्यातम् ।।
12 वैष्णव्येति ।। 'ते ते धामानि' इत्यनया 'विष्णोः कर्माणि पश्यत' इत्यनया च कल्पयति आपन्नमार्गेष्वनवद्यं स्थापयति । व्याख्यातमन्यत् ।।
13 द्वाम्यामिति ।। सामान्येन विधाय संरव्यामनेन विधत्ते ।।
14 यमित्यादि ।। तेजआदिभिः व्यर्धयेयमिति वियोजयेयमिति यं कामयेत तस्याग्निष्ठामश्रिमाहवनीयादतिनावयेत् तेजआदिना व्यर्धं करोति यजमानम् ।।
15 यमित्यादि ।। समर्धयेयं समृद्धं कुर्यामिति । सस्मिनुयादिति । संगतां मिनुयात् आर्जवेन स्थापयेत् । गतमन्यत् ।।
16 'ब्रह्मवनिम्' इति पुरीषेण पर्यूहनम् ।।
17 परि व्ययतीति ।। रशनया परितो वेष्टयति यूपम् । ऊर्ग्वा इत्यादि । ऊर्गन्नम् । नाभिदघ्ने नाभिप्रमाणे मध्यमो रशनागुणो यथा भवति तथा परिव्ययति । 'प्रमाणे द्वयसच्' इत्यादिना दघ्नच् । नाभिदघ्न एवेति । नाभिदघ्रे नाभिप्रमाण एवोदरदेशे अस्मै यजमानस्य ऊर्जं स्थापयति नोर्ध्वं नाप्यधो विगमयति । तस्मान्नाभिदघ्न एव प्रदेशे स्थितया ऊर्जा अन्नेन भुञ्जते ।।
18 यमित्यादि ।। व्यर्धयेयं वियोजयेयमेनमिति । ऊर्ध्वामित्यादि । नाभिदघ्नादूर्ध्वपरिमाणामवाक्परिमाणां वा रशनामवोहेत् वक्ष्यमाणप्रकारेणोपगूहेत् । व्यर्धयत्यूर्जा ।।
19 यदीत्यादि ।। वर्षुकः वर्षागशीलः पर्जन्यस्स्यात् इति यदिकामयेत नाभिदघ्न एव परिवीतां रशनामवाचीमवोहेत् ऊर्ध्वमुत्कृष्य पाशमवगूहेत् । वृष्टिं नियच्छति नीचैः प्रवर्तयति ।।
20 अवर्षकामनया तु ऊर्ध्वामुदूहेत् पाशमधोवकृष्य ऊर्ध्वमुदूहेत् । वृष्टिमुद्यच्छति ऊर्ध्वं नयति, ततश्चावर्षुकः पर्जन्यस्स्यादिति । 'लषपत' इत्यादिना उकञ् ।।
21 पितृणामित्यादि ।। यूपस्य निखातमवटे प्रक्षिप्तमुपरवाख्यं तत्पितृणाम् । छान्दसो दीर्घाभावः । खनतेर्निष्ठायां 'जनसन' इत्यात्वम्, 'गतिरनन्तरः' इति गतेः प्रकतिस्वरत्वम् । तस्मादूर्ध्वमारशनायाः रशनास्थानात्प्राक् मनुष्याणाम् । रशनास्थानं तु ओषधीनां यूपविभागविधानाद्रशनायास्तत् स्थानं लक्ष्यते । तत ऊर्ध्वं तु चषालस्थानात्प्राक् विश्वेषां देवानाम् । चषालस्थानं त्विन्द्रस्य । अतिरिक्तं चषालादुपरि साध्यानाम् । सोयं तादृशो यूपः सर्वदेवत्यः । देवतान्तात्तादर्थ्ये यत् । तस्मादनेन सर्वा देवताः प्रीणयन्ति ।।
22 यज्ञेन वा इत्यादि ।। यज्ञेन स्वर्गं गताः देवाः । ते गमनारम्भे अमन्यन्त - मनुष्या अप्यस्मानन्वाभविष्यन्तीति यज्ञेनास्माननुप्राप्स्यन्तीति । भू प्राप्तौ, व्यत्ययेन परस्मैपदम् । यद्वा - अनन्तरमेवास्मानागम्य भविष्यन्तीति अस्मत्सदृशास्सम्पद्यन्ते इति । 'गतिर्गतौ' इति अनोः निघातस्समासश्च । ते यूपे मनुष्यान् योपयित्वा विमोह्य स्वर्गं गताः देवाः यूपस्य याथात्म्यविदः । तमृषय इति । यूपयाथात्म्यविदः यूपेन स्वर्गमनुप्राजानन् मनुष्यान्विमोह्य देवानामनन्तरं प्रकर्षेण ज्ञानं तद्वन्तः । तस्माद्यूपस्य यूपत्वं यूपविमोकमन्त्रः । छान्दसो वर्णविकारः । तस्माद्यूपः स्वर्गप्रज्ञानहेतुः ।।
23 पुरस्तादिति ।। आहवनीयस्य । पुरस्ताद्धीति । यज्ञस्य पुरस्ताद्धि कर्तव्यं प्रज्ञायते इदमत्र कार्यं भविष्यतीति । तदेव यज्ञस्याविनष्टमिति । विपर्यये विपर्ययमाह - अप्रज्ञातमिति । अतिपन्ने विनष्टे सति अहते अन्यथा कृते कर्मणि यदाहुर्लौकिकाः - इदं कार्यमासीत्, कर्तव्यमेव न कृतमस्माभिरासीत्, अन्यथाकृतमासीत् तस्मान्नष्टमेवेति कुतश्चिद्वैगुण्यात् क्रियाया अतिनिर्वृत्तिरतिपत्तिः । तस्मादतिपन्नस्याप्रज्ञातपर्यायत्वात् पुरस्ताद्भवस्यैव प्रज्ञातत्वात् प्रज्ञानहेतुयूपं पुरस्तान्मिनोतीति ।।
24 अथ यदुक्तं चषालादतिरिक्तं साध्यानामिति, तदिदानीं समर्थ्यते - साध्या इत्यादिना ।। भागाधिक्येन मननमतिमानः भागत्वेन पर्याप्तिः । अस्पृशत् अधिकं भागं लक्ष्यमानमपर्याप्तोऽभवद्यज्ञः । ततस्तानधिकं भागं लिप्समानान् यज्ञसम्बन्धि यदतिरिक्तं तदस्पृशत् अभिमतभागपर्याप्तिसमर्थमभवत् निजभागधेयतया तत्स्वीकृतवन्तः । किं पुनस्तदित्याह - अतिरिक्तं वेत्यादि । तेनातिरिक्तेन अतिरिक्तार्थिनस्सध्यान् प्रीणातीति यज्ञान्तरादतिरिक्तमस्य मथित्वा प्रहरणं चषालादूर्ध्वं च प्रमाणातिरेकात् अतिरिक्तम् ।।
25 देवा वा इत्यादि ।। सोमे संस्थिते समाप्ते देवा यूपं च प्राहरन् अग्नौ । 'चादिलोपे विभाषा' इति प्रथमा तिङ्विभक्तिर्न निहन्यते । तथा कृतवन्तो देवाः अमन्यन्त यज्ञवेशसं यज्ञविनाशं वा इत्थं वयं कुर्मः कृतवन्त इति यज्ञविनाशमिदमित्यमन्यन्त देवाः । ते तथा मन्यमाना देवाः स्रुचा निष्क्रयणसाधनं प्रस्तरमपश्यन् स्रुचां स्थाने प्रस्तरः प्रहर्तव्य इति । ततस्स्वरुं यूपस्य निष्क्रयणमपश्यन् इत्येव । तस्मात्संस्थिते सोमे प्रस्तरं च प्रहरति स्वरुं च जुहोति यज्ञस्याविनाशार्थम् । पूर्ववत्प्रथमा तिङ्विभक्तिर्न निहन्यते, द्वितीया च तिङः परत्वात् । 'भीह्रीभृहु' इत्यादिना प्रत्ययात्पूर्वस्योदात्तत्वम् ।।
इति षष्ठे तृतीये चतुर्थोनुवाकः ॥