पितृ॒णाꣳ सद॑नम॒सीति॑ ब॒र्॒.हिरव॑ स्तृणाति पितृदेव॒त्या᳚(1॒)ꣳ॒ ह्ये॑तद्-यन्निखा॑तं॒ ॅयद्-ब॒र्॒.हिरन॑वस्तीर्य मिनु॒यात् पि॑तृदेव॒त्यो॑ निखा॑तः स्याद् ब॒र्॒.हिर॑व॒स्तीर्य॑ मिनोत्य॒स्यामे॒वैनं॑ मिनोति यूपशक॒लमवा᳚स्यति॒ सते॑जसमे॒वैनं॑ मिनोति दे॒वस्त्वा॑ सवि॒ता मद्ध्वा॑ऽन॒क्त्वित्या॑ह॒ तेज॑सै॒वैन॑मनक्ति सुपिप्प॒लाभ्य॒-स्त्वौष॑धीभ्य॒ इति॑ च॒षालं॒ प्रति॑- [ ]
पदपाठः (Word-by-word)
पि॒तृ॒णाम् । सद॑नम् । अ॒सि॒ । इति॑ । ब॒र्॒.हिः । अवेति॑ । स्तृ॒णा॒ति॒ । पि॒तृ॒दे॒व॒त्य॑मिति॑ पितृ - दे॒व॒त्य᳚म् । हि । ए॒तत् । यत् । निखा॑त॒मिति॒ नि - खा॒त॒म् । यत् । ब॒र॒.हिः । अन॑वस्ती॒र्येत्यन॑व - स्ती॒र्य॒ । मि॒नु॒यात् । पि॒तृ॒दे॒वत्य॑ इति॑ पितृ-दे॒व॒त्यः॑ । निखा॑त॒ इति॒ नि-खा॒तः॒ । स्या॒त् । ब॒र॒.हिः । अ॒व॒स्तीर्येत्य॑व - स्तीर्य॑ । मि॒नो॒ति॒ । अ॒स्याम् । ए॒व । ए॒न॒म् । मि॒नो॒ति॒ । यू॒प॒श॒क॒लमिति॑ यूप - श॒क॒लम् । अवेति॑ । अ॒स्य॒ति॒ । सते॑जस॒मिति॒ स - ते॒ज॒स॒म् । ए॒व । ए॒न॒म् । मि॒नो॒ति॒ । दे॒वः । त्वा॒ । स॒वि॒ता । मद्ध्वा᳚ । अ॒न॒क्तु॒ । इति॑ । आ॒ह॒ । तेज॑सा । ए॒व । ए॒न॒म् । अ॒न॒क्ति॒ । सु॒पि॒प्प॒लाभ्य॒ इति॑ सु-पि॒प्प॒लाभ्यः॑ । त्वा॒ । ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । इति॑ । च॒षाल᳚म् । प्रतीति॑ ।