-ग्नि॒ष्ठां तस्याश्रि॑माहव॒नीये॑न॒ सं मि॑नुया॒त् तेज॑सै॒वैनं॑ दे॒वता॑भिरिन्द्रि॒येण॒ सम॑र्द्धयति ब्रह्म॒वनिं॑ त्वा क्षत्र॒वनि॒मित्या॑ह यथाय॒जुरे॒वैतत् परि॑ व्यय॒त्यूर्ग्वै र॑श॒ना यज॑मानेन॒ यूपः॒ संमि॑तो॒ यज॑मानमे॒वोर्जा सम॑र्द्धयति नाभिद॒घ्ने परि॑ व्ययति नाभिद॒घ्न ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मा᳚न्नाभिद॒घ्न ऊ॒र्जा भु॑ञ्जते॒ यं का॒मये॑तो॒र्जैनं॒- [ ]
पदपाठः (Word-by-word)
अ॒ग्नि॒ष्ठामित्य॑ग्नि - स्थाम् । तस्य॑ । अश्रि᳚म् । आ॒ह॒व॒नीये॒नेत्या᳚ - ह॒व॒नीये॑न । समिति॑ । मि॒नु॒या॒त् । तेज॑सा । ए॒व । ए॒न॒म् । दे॒वता॑भिः । इ॒न्द्रि॒येण॑ । समिति॑ । अ॒द्र्ध॒य॒ति॒ । ब्र॒ह्म॒वनि॒मिति॑ ब्रह्म - वनि᳚म् । त्वा॒ । क्ष॒त्र॒वनि॒मिति॑ क्षत्र-वनि᳚म् । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा-य॒जुः । ए॒व । ए॒तत् । परीति॑ । व्य॒य॒ति॒ । ऊर्क् । वै । र॒श॒ना । यज॑मानेन । यूपः॑ । संमि॑त॒ इति॒ सं-मि॒तः॒ । यज॑मानम् । ए॒व । ऊ॒र्जा । समिति॑ । अ॒द्र्ध॒य॒ति॒ । ना॒भि॒द॒घ्न इति॑ नाभि - द॒घ्ने । परीति॑ । व्य॒य॒ति॒ । ना॒भि॒द॒घ्न इति॑ नाभि - द॒घ्ने । ए॒व । अ॒स्मै॒ । ऊर्ज᳚म् । द॒धा॒ति॒ । तस्मा᳚त् । ना॒भि॒द॒घ्न इति॑ नाभि - द॒घ्ने । ऊ॒र्जा । भु॒ञ्ज॒ते॒ । यम् । का॒मये॑त । ऊ॒र्जा । ए॒न॒म् ।