दे॒वाना॑मू॒र्द्ध्वꣳ र॑श॒नाया॒ आ च॒षाला॒दिन्द्र॑स्य च॒षालꣳ॑ सा॒द्ध्याना॒मति॑रिक्तꣳ॒॒ स वा ए॒ष स॑र्वदेव॒त्यो॑ यद्यूपो॒ यद्यूपं॑ मि॒नोति॒ सर्वा॑ ए॒व दे॒वताः᳚ प्रीणाति य॒ज्ञेन॒ वै दे॒वाः सु॑व॒र्गं ॅलो॒कमा॑य॒न् ते॑ऽमन्यन्त मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॒ ते यूपे॑न योपयि॒त्वा सु॑व॒र्गं ॅलो॒कमा॑य॒न् तमृष॑यो॒ यूपे॑नै॒वानु॒ प्राजा॑न॒न् तद् यूप॑स्य यूप॒त्वं- [ ]
पदपाठः (Word-by-word)
दे॒वाना᳚म् । ऊ॒द्र्ध्वम् । र॒श॒नायाः᳚ । एति॑ । च॒षाला᳚त् । इन्द्र॑स्य । च॒षाल᳚म् । सा॒द्ध्याना᳚म् । अति॑रिक्त॒मित्यति॑ - रि॒क्त॒म् । सः । वै । ए॒षः । स॒र्व॒दे॒व॒त्य॑ इति॑ सर्व-दे॒व॒त्यः॑ । यत् । यूपः॑ । यत् । यूप᳚म् । मि॒नोति॑ । सर्वाः᳚ । ए॒व । दे॒वताः᳚ । प्री॒णा॒ति॒ । य॒ज्ञेन॑ । वै । दे॒वाः । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । आ॒य॒न्न् । ते । अ॒म॒न्य॒न्त॒ । म॒नु॒ष्याः᳚ । नः॒ । अ॒न्वाभ॑विष्य॒न्तीत्य॑नु-आभ॑विष्यन्ति । इति॑ । ते । यूपे॑न । यो॒प॒यि॒त्वा । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । आ॒य॒न्न् । तम् । ऋष॑यः । यूपे॑न । ए॒व । अनु॑ । प्रेति॑ । अ॒जा॒न॒न्न् । तत् । यूप॑स्य । यू॒प॒त्वमिति॑ यूप- त्वम् ।