ॅयद् यूपं॑ मि॒नोति॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै पु॒रस्ता᳚न् मिनोति पु॒रस्ता॒द्धि य॒ज्ञ्स्य॑ प्रज्ञा॒यते प्र॑ज्ञातꣳ॒॒ हि तद् यदति॑पन्न आ॒हुरि॒दं का॒र्य॑मासी॒दिति॑ सा॒द्ध्या वै दे॒वा य॒ज्ञ्मत्य॑मन्यन्त॒ तान्. य॒ज्ञो नास्पृ॑श॒त् तान्. यद् य॒ज्ञ्स्याति॑रिक्त॒मासी॒त् तद॑स्पृश॒दति॑रिक्तं॒ ॅवा ए॒तद् य॒ज्ञ्स्य॒ यद॒ग्नाव॒ग्निं म॑थि॒त्वा प्र॒हर॒त्यति॑रिक्तमे॒त- [ ]
पदपाठः (Word-by-word)
यत् । यूप᳚म् । मि॒नोति॑ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । प्रज्ञा᳚त्या॒ इति॒ प्र - ज्ञा॒त्यै॒ । पु॒रस्ता᳚त् । मि॒नो॒ति॒ । पु॒रस्ता᳚त् । हि । य॒ज्ञ्स्य॑ । प्र॒ज्ञा॒यत॒ इति॑ प्र - ज्ञा॒यते᳚ । अप्र॑ज्ञात॒मित्यप्र॑ - ज्ञा॒त॒म् । हि । तत् । यत् । अति॑पन्न॒ इत्यति॑ - प॒न्ने॒ । आ॒हुः । इ॒दम् । का॒र्य᳚म् । आ॒सी॒त् । इति॑ । सा॒द्ध्याः । वै । दे॒वाः । य॒ज्ञ्म् । अतीति॑ । अ॒म॒न्य॒न्त॒ । तान् । य॒ज्ञ्ः । न । अ॒स्पृ॒श॒त् । तान् । यत् । य॒ज्ञ्स्य॑ । अति॑रिक्त॒मित्यति॑ - रि॒क्त॒म् । आसी᳚त् । तत् । अ॒स्पृ॒श॒त् । अति॑रिक्त॒मित्यति॑ - रि॒क्त॒म् । वै । ए॒तत् । य॒ज्ञ्स्य॑ । यत् । अ॒ग्नौ । अ॒ग्निम् । म॒थि॒त्वा । प्र॒हर॒तीति॑ प्र - हर॑ति । अति॑रिक्त॒मित्यति॑ - रि॒क्त॒म् । ए॒तत् ।