-द्यूप॑स्य॒ यदू॒र्द्ध्वं च॒षाला॒त् तेषां॒ तद् भा॑ग॒धेयं॒ ताने॒व तेन॑ प्रीणाति दे॒वा वै सꣳस्थि॑ते॒ सोमे॒ प्र स्रुचोऽह॑र॒न् प्र यूपं॒ ते॑ऽमन्यन्त यज्ञ्वेश॒सं ॅवा इ॒दं कु॑र्म॒ इति॒ ते प्र॑स्त॒रꣳ स्रु॒चां नि॒ष्क्रय॑ण-मपश्य॒न्थ् स्वरुं॒ ॅयूप॑स्य॒ सꣳस्थि॑ते॒ सोमे॒ प्र प्र॑स्त॒रꣳ हर॑ति जु॒होति॒ स्वरु॒मय॑ज्ञ्वेशसाय ॥
पदपाठः (Word-by-word)
यूप॑स्य । यत् । ऊ॒द्र्ध्वम् । च॒षाला᳚त् । तेषा᳚म् । तत् । भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । तान् । ए॒व । तेन॑ । प्री॒णा॒ति॒ । दे॒वाः । वै । सꣳस्थि॑त॒ इति॒ सं-स्थि॒ते॒ । सोमे᳚ । प्रेति॑ । स्रुचः॑ । अह॑रन्न् । प्रेति॑ । यूप᳚म् । ते । अ॒म॒न्य॒न्त॒ । य॒ज्ञ्॒वे॒श॒समिति॑ यज्ञ् - वे॒श॒स॒म् । वै । इ॒दम् । कु॒र्मः॒ । इति॑ । ते । प्र॒स्त॒रमिति॑ प्र - स्त॒रम् । स्रु॒चाम् । नि॒ष्क्रय॑ण॒मिति॑ निः - क्रय॑णम् । अ॒प॒श्य॒न्न् । स्वरु᳚म् । यूप॑स्य । सꣳस्थि॑त॒ इति॒ सं - स्थि॒ते॒ । सोमे᳚ । प्रेति॑ । प्र॒स्त॒रमिति॑ प्र-स्त॒रम् । हर॑ति । जु॒होति॑ । स्वरु᳚म् । अय॑ज्ञ्वेशसा॒येत्यय॑ज्ञ्-वे॒श॒सा॒य॒ ॥