प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.3.7.1 TS 6.3.7.1
अ॒ग्निना॒ वै होत्रा॑ दे॒वा असु॑रा-न॒भ्य॑भव-न्न॒ग्नये॑ समि॒द्ध्यमा॑ना॒यानु॑ ब्रू॒हीत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै स॒प्तद॑श सामिधे॒नीरन्वा॑ह सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॑ स॒प्तद॒शान्वा॑ह॒ द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॒ स सं॑ॅवथ्स॒रः सं॑ॅवथ्स॒रं प्र॒जा अनु॒ प्रजा॑यन्ते प्र॒जानां᳚ प्र॒जन॑नाय दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑ य॒ज्ञ्ं नान्व॑पश्य॒न्थ् स प्र॒जाप॑ति-स्तू॒ष्णीमा॑घा॒र- [ ]
पदपाठः (Word-by-word)
अ॒ग्निना᳚ । वै । होत्रा᳚ । दे॒वाः । असु॑रान् । अ॒भीति॑ । अ॒भ॒व॒न्न् । अ॒ग्नये᳚ । स॒मि॒द्ध्यमा॑ना॒येति॑ सं - इ॒द्ध्यमा॑नाय । अन्विति॑ । ब्रू॒हि॒ । इति॑ । आ॒ह॒ । भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य-अ॒भि॒भू॒त्यै॒ । स॒प्तद॒शेति॑ स॒प्त - द॒श॒ । सा॒मि॒धे॒नीरिति॑ सां - इ॒धे॒नीः । अन्विति॑ । आ॒ह॒ । स॒प्त॒द॒श इति॑ सप्त - द॒शः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । आप्त्यै᳚ । स॒प्तद॒शेति॑ स॒प्त - द॒श॒ । अन्विति॑ । आ॒ह॒ । द्वाद॑श । मासाः᳚ । पञ्च॑ । ऋ॒तवः॑ । सः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । प्र॒जा इति॑ प्र - जाः । अनु॑ । प्रेति॑ । जा॒य॒न्ते॒ । प्र॒जाना॒मिति॑ प्र-जाना᳚म् । प्र॒जन॑ना॒येति॑ प्र-जन॑नाय । दे॒वाः । वै । सा॒मि॒धे॒नीरिति॑ सां-इ॒धे॒नीः । अ॒नूच्येत्य॑नु - उच्य॑ । य॒ज्ञ्म् । न । अन्विति॑ । अ॒प॒श्य॒न्न् । सः । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । तू॒ष्णीम् । आ॒घा॒रमित्या᳚-घा॒रम् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)
अथ होतारं प्रत्यध्वर्योः प्रैषमुत्पादयति –

‘अग्निना वै होत्रा देवा असुरानभ्यभवन्नग्नये सामिध्यमानायानु ब्रूहीत्याह भ्रातृव्याभिभूत्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।

अग्निः समिद्धो भ्रातृव्यानभिभवति।

अग्निसमिन्धनाय होत्राऽनूच्यमानानामृचां चोदकप्राप्तां पञ्चदशसंख्यामपोद्य सप्तदशसंख्यां विधत्ते —

‘ सप्तदश सामिधेनीरन्वाह सप्तदशः प्रजापतिः प्रजापतेराप्त्यै ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ७] इति।

आश्रावयेत्यादिभिरक्षरैः प्रजापतेः सप्तदशत्वम्।

तमेव विधिमनूद्य प्रशंसति —

‘ सप्तदशान्वाह द्वादश मासाः पञ्चर्तवः स संवत्सरः संवत्सरं प्रजा अनु प्र जायन्ते प्रजानां प्रजननाय ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ७] इति।

हेमन्तशिशिरयोः समासेनेति बह्वृचब्राह्मणाम्नानादृतूनां पञ्चसंख्या। प्रजाः संवत्सरं गर्भे स्थित्वा पश्चात्प्रजायन्ते।

अमन्त्रकं प्रथममाघारं विधत्ते —

‘ देवा वै सामिधेनीरनूच्य यज्ञं नान्वपश्यन्स प्रजापतिस्तूष्णीमाघारमाघारयत्ततो वै देवा यज्ञमन्वपश्यन्यत्तूष्णीमाघारामाघारयति यज्ञस्यानुख्यात्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।

बहुनियमोपेते सामिधेन्यनुवचने व्यापृता बुद्धिः श्रान्ता सती पश्चात्कर्तव्यं यज्ञं नान्वपश्यत्। ततः प्रजापतिस्तूष्णीमाघारेण मन्त्रविषयव्यापारजन्यं बुद्धेः श्रममपनीतवान्।

तमेव विधियनूद्य प्रशंसति —

‘असुरेषु वै यज्ञ आसीत्तं देवास्तूष्णी होमेनावृञ्जत यत्तूष्णीमाघारमाघारयति भ्रातृव्यस्यैव तद्यज्ञं वृङ्क्ते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।

असुरा गूढचारिणो भूत्वा देवैरनुष्ठितमवगत्य स्वयमपि तथैवानुतिष्ठन्ति।

तथा च श्रुत्यन्तरम् —

‘ देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ’ इति। तं वृत्तान्तमवगत्य देवा गूढचारिणां समीपे प्रथममाघारममन्त्रकं हुतवन्तः तं दृष्टवन्तोऽसुराः सहसा गत्वा कृत्स्नं यज्ञं तूष्णीं कृत्वा नाशितवन्तः। तमभिप्रेत्य तं देवास्तूष्णीं होमेनावृञ्जतेत्युच्यते।

त्रयाणां परिधीनां मार्जनं प्रत्येकं तदावृत्तिं च विधत्ते —

‘ परिधीन्त्सं मार्ष्टि पुनात्येवैनान्त्रिस्त्रिः सं मार्ष्टि त्र्यावृद्धि यज्ञोऽथो रक्षसामपहत्यै द्वादश सं पद्यन्ते द्वादश मासाः संवत्सरः संवत्सरमेव प्रीणात्यथो संवत्सरमेवास्मा उप दधाति सुवर्गस्य लोकस्य समष्ट्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।

परिधिषु पतितस्य भस्मादेरपनयनेन ते शुद्धा भवन्ति। तिस्र आवृत्तयो यस्यासौ त्र्यावुत्। त्रिः प्रथमामन्वाहेत्यदिषु तत्प्रसिद्धम्। त्र्यावृत्त्या तदादरं दृष्टवा रक्षसां भयातिशयो भवति। त्रिषु परिधिषु नव संमार्जनान्युक्तानि।

अत्रानुक्तैस्त्रिभिर्वह्निसंमार्जनैः सह द्वादशसंपत्तिः।

अथ स्रुच्याघारं विधत्ते — ‘ शिरो वा एतद्यज्ञस्य यदाघारोऽग्निः सर्वा देवता यदाघारमाघारयति शीर्षत एव यज्ञस्य यजमानः सर्वा देवता अव रुन्धे ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।

आघारस्य होमेषु प्रथमभावित्वेन शिरोरूपत्वम्। यद्यपि पशोरिष्टिर्विकृतिवदेवाऽऽघारद्वयं प्राप्नोति तथाऽपि तद्विकृतित्वमेव निश्चेतुं तदीयलिङ्गत्वेनात्र त्पुनर्विहितम्।

स्रुचाऽऽघारशेषेण पश्वञ्जनं विधत्ते —

‘ शिरो वा एतद्यज्ञस्य यदाघार आत्मा पशुराघारमाघार्य पशु समनक्त्यात्मन्नेव यज्ञस्य शिरः प्रति दधाति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ७] इति। आत्मा ग्रीवाया अधोवर्तिदेहः।

प्राणस्य बाह्ये वायुसंगमो युक्त इत्याह –

‘ सं ते प्राणो वायुना गच्छतामित्याह वायुदेवत्यो वै प्राणो वायावेवास्य प्राणं जुहोति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ७] इति।

अस्य यज्ञस्य फलेन वायुना यजमानो युज्यत इत्येतमर्थमन्त्यमन्त्रे दर्शयति –

‘ सं यजत्रैरङ्गानि सं यज्ञपतिराशिषेत्याह यज्ञपतिमेवाऽऽस्याशिषं गमयति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।

मध्यममन्त्रेण हृदयाद्यङ्गानि यागविशेषैर्योजयतीत्येतावदुन्नेयम्।

पूर्वं शिरस्यञ्जनं विहितम्।

इदानीं ककुदि श्रोण्यां चाञ्जनं विधत्ते। अथवा पूर्वविधेः साधारणत्वात्तमेवानूद्य प्रशंसति —

‘ विश्वरूपो वै त्वाष्ट्र उपरिष्टात्पशुमभ्यवमीत्तस्मादुपरिष्टात्पशोर्नावद्यन्ति यदुपरिष्टात्पशु समनक्ति मेध्यमेवैनं करोति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।

त्वष्टुः पुत्रो विश्वरूपः पशुमभि प्राप्योपरिष्टात्पृष्ठभागे वमनमकरोत्। तस्माद्याज्ञिका हृदयादिवदुपरिभागान्नावद्यन्ति। तं भागमञ्जनेन शुद्धं करोति।

विधत्ते — ‘ ऋत्विजो वृणीते छन्दांस्येव वृणीते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।

वक्ष्यमाणसंख्यासाम्यादृत्विजां छन्दस्त्वम्।

सप्तत्वसंख्यां विधत्ते —

‘ सप्त वृणीते सप्त ग्राम्याः पशवः सप्ताऽऽरण्याः सप्त छन्दास्युभयस्यावरुद्ध्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।

होताऽऽग्नीध्रोऽध्वर्युर्मैत्रावरुणो ब्राह्मणाच्छंसी पोता नेष्टेति [ सप्तर्त्विजः ]। सप्तग्राम्यादिकं व्याख्यातम्।

चोदकप्राप्तेषु संख्यां विधत्ते —

‘ एकादश प्रयाजान्यजति दश वै पशोः प्राणा आत्मैकादशो यावानेव पशुस्तं प्र यजति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।

प्राणशब्देन तदाधारभूतानि च्छिद्राण्युच्यन्ते। तानि च शिरसि सप्त, अधस्ताद् द्वे, नाभिर्दशमी। आत्मा देहः। अत एकादशसंख्याया कृत्स्नं पशुं प्रयजति।

अन्तिमप्रयाजस्य कालान्तरं विधत्ते —

‘ वपामेकः परि शय आत्मैवाऽऽत्मानं परि शये ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।

वपां परि वपाहोमसमीपे शये शेते तस्मिन्काले यजेदित्यर्थः। चरमः प्रयाजो देहत्वेन निरूपितात्वात्पशोरात्मा, वपाऽपि मुख्यावयवत्वादात्माऽतस्तयोः सामीप्यं युक्तम्।

स्वरुस्वधितिघृतानामुपयोगं दर्शयति —

‘ वज्रो वै स्वधितिर्वज्रो यूपशकलो घृतं खलु वै देवा वज्रं कृत्वा सोममघ्नन्घृतेनाक्तौ पशुं त्रायेथामित्याह वज्रेणैवैनं वशे कृत्वाऽऽलभते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अग्निना वा इत्यादि ।। गतम् । अग्नये सभिध्यमानायानुब्रूहीति सामिधेनीसंप्रैषः । एवं संप्रैषादग्निनैव होत्रा भ्रातृव्यानभिभवति सप्तदशेति सप्तदशत्वविधिः । गतः ।।
2 देवा वा इत्यादि तूष्णीमाघारविधिः ।। सामिधेनीमात्रेण देवा यज्ञं नान्वपश्यन् । तदा प्रजापतिस्तूष्णीं मन्त्र[न्त्रा] जपेन होममाधारयत् तत इत्यादि । गतम् । असुरेष्वित्यादि । असुरैरात्मसात्कृतं यज्ञं देवास्तूष्णीं होमेनावृञ्जत आददत ।।
3 परिधीनित्यादि ।। त्र्यावृत् त्र्यावृत्तिकः । अथो अपि च त्रिस्त्रिर्मार्जनं रक्षसामहपत्यै भवति; आवृत्तेर्भयातिशयजनकत्वात् । द्वादशेति । अग्निसंमार्गेण सह द्वादश भवन्ति । अथो अपि च संवत्सरमेवास्मै यजमानाय सोमपानस्थानीयमुपदधाति । स्वर्गस्य लोकस्य तत्प्राप्त्यै भवति ।।
4 शिरो वा इत्यादि ।। आघारो यज्ञस्य शिरस्थानीयः, प्राधान्यात्, प्राथम्याद्वा । गतमन्यत् । आघारेण सर्वदेवतात्मनोऽग्नेरवरोधात् सर्वा देवता अवरुद्धा भवन्ति । तथा आघारणानन्तरं आत्मनः पशोस्समञ्जनात् आत्मन्येव यज्ञस्य शिरः प्रतिदधाति प्रतिष्ठापयति ।।
5 सं ते प्राण इति ।। जुह्वा पशुसमञ्जनं ललाटे । वायुभूतात्मा वायुदेवत्यः प्राणः । तद्वायावेवास्य पशोः प्राणं दधाति स्थापयति । संयजत्रैरिति ककुदि समञ्जनम् । सं यज्ञपतिरिति दक्षिणश्रोणिसमञ्जनम् । यज्ञपतिमेवेति । अस्य पशोः आशिषं फलं यजमानं गमयति ।।
6 विश्वरूपस्त्वष्टुः पुत्रः पशुमुपरिष्टान्मुखे अभ्यवमीत् अभिवमनं कृतवान् । तस्मादशुद्धत्वादुपरिष्टान्नावद्यन्ति । उपरिष्टात्समञ्जनेन मेधार्हमेनं करोति ।।
7 ऋत्विज इति ।। अत्रैव वरणं न्याय्यं, इह विधानात् । छन्दांस्येवेति । सप्तत्वान्वयात्सप्तेति । सप्तदशो[शशब्दो] घृतादित्वादन्तोदात्तः । ग्राम्या आरण्या उक्ताः । उभयस्येति । पशूनां छन्दसां च ।।
8 एकादशेति संख्याविधिः ।। दशेति । सप्त शीर्षण्याः, द्वाववाञ्चौ, नाभिश्चेति । यावानिति । समस्तमेव पशुं प्रयजति प्रथमतो यजति । वपामित्यादि । एवमेकादशसु प्रयाजेषु सत्सु स्वयं गुणो भवति । योयमेकोन्त्यः प्रयाजः स आत्मैकादश इत्युक्तः । सोयमेवं सति वपां परिशये । समीपशयनं परिशयनम्, तदव्यवधानेन वर्तते इति यावत् । वपाकालमास्ते इदानीं न क्रियते । कीदृशोयं गुण इत्याह - आत्मैव ह्यात्मानं परिशेते एकादशस्यात्मत्वात् । आत्मा वपेति च पश्वात्मत्वात् । लक्षणे वा अनोः कर्मप्रवचनीयत्वं अन्त्यः प्रयाजो वपां लक्षीकृत्य शेते इति । 'लोपस्त आत्मने पदेषु' इति तलोपः ।।
9 घृतेनाक्ताविति स्वरुस्वधितिभ्यां पशुसमञ्जनम् । ताविह त्रायेथाम् । वज्रो वा इत्यादि । वज्रवदमोघसाधनं स्वधितिः शस्त्रं यूपशकलं स्वरुश्च । अथ येनाज्येनाञ्ज्यते तदपि वज्रमित्याह - घृतेनेत्यादि । तस्मादनेन मन्त्रेण ताभ्यां तादृशाज्याभ्यक्ताभ्यां पशोस्समञ्जने वज्रेणैव वशे कृत्वा विधेयीकृत्य पशुमालभते संज्ञयति ।।
इति षष्ठे तृतीये सप्तमोनुवाकाक्ष ॥