प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.3.7.2 TS 6.3.7.2
-मा ऽघा॑रय॒त् ततो॒ वै दे॒वा य॒ज्ञ्मन्व॑पश्य॒न्॒. यत् तू॒ष्णी-मा॑घा॒र-मा॑घा॒रय॑ति य॒ज्ञ्स्यानु॑ख्यात्या॒ असु॑रेषु॒ वै य॒ज्ञ् आ॑सी॒त् तं दे॒वास्तू᳚ष्णीꣳ हो॒मेना॑वृञ्जत॒ यत् तू॒ष्णी-मा॑घा॒र-मा॑घा॒रय॑ति॒ भ्रातृ॑व्यस्यै॒ व तद् य॒ज्ञ्ं ॅवृ॑ङ्क्ते परि॒धी॑न्थ् सं मा᳚र्ष्टि पु॒नात्ये॒वैना॒न् त्रिस्त्रिः॒ सं मा᳚र्ष्टि॒ त्र्या॑वृ॒द्धि य॒ज्ञोऽथो॒ रक्ष॑सा॒मप॑हत्यै॒ द्वाद॑श॒ सं प॑द्यन्ते॒ द्वाद॑श॒- [ ]
पदपाठः (Word-by-word)
एति॑ । अ॒घा॒र॒य॒त् । ततः॑ । वै । दे॒वाः । य॒ज्ञ्म् । अन्विति॑ । अ॒प॒श्य॒न्न् । यत् । तू॒ष्णीम् । आ॒घा॒रमित्या᳚ - घा॒रम् । आ॒घा॒रय॒तीत्या᳚ - घा॒रय॑ति । य॒ज्ञ्स्य॑ । अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ । असु॑रेषु । वै । य॒ज्ञ्ः । आ॒सी॒त् । तम् । दे॒वाः । तू॒ष्णीꣳ॒॒हो॒मेनेति॑ तूष्णीम्-हो॒मेन॑ । अ॒वृ॒ञ्ज॒त॒ । यत् । तू॒ष्णीम् । आ॒घा॒रमित्या᳚ - घा॒रम् । आ॒घा॒रय॒तीत्या᳚ - घा॒रय॑ति । भ्रातृ॑व्यस्य । ए॒व । तत् । य॒ज्ञ्म् । वृ॒ङ्क्ते॒ । प॒रि॒धीनिति॑ परि - धीन् । समिति॑ । मा॒र्ष्टि॒ । पु॒नाति॑ । ए॒व । ए॒ना॒न् । त्रिस्त्रि॒रिति॒ त्रिः - त्रिः॒ । समिति॑ । मा॒र्ष्टि॒ । त्र्या॑वृ॒दिति॒ त्रि - आ॒वृ॒त् । हि । य॒ज्ञ्ः । अथो॒ इति॑ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । द्वाद॑श । समिति॑ । प॒द्य॒न्ते॒ । द्वाद॑श ।
पदसंख्या: 50