शिरः॒ प्रति॑ दधाति॒ सं ते᳚ प्रा॒णो वा॒युना॑ गच्छता॒मित्या॑ह वायुदेव॒त्यो॑ वै प्रा॒णो वा॒यावे॒वास्य॑ प्रा॒णं जु॑होति॒ सं ॅयज॑त्रै॒रङ्गा॑नि॒ सं ॅय॒ज्ञ्प॑तिरा॒शिषेत्या॑ह य॒ज्ञ्प॑तिमे॒वास्या॒ऽऽ*शिषं॑ गमयति वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्र उ॒परि॑ष्टात् प॒शुम॒भ्य॑वमी॒त् तस्मा॑-दु॒परि॑ष्टात् प॒शोर्नाव॑ द्यन्ति॒ यदु॒परि॑ष्टात् प॒शुꣳ स॑म॒नक्ति॒ मेद्ध्य॑मे॒वै- [ ]
पदपाठः (Word-by-word)
शिरः॑ । प्रतीति॑ । द॒धा॒ति॒ । समिति॑ । ते॒ । प्रा॒ण इति॑ प्र - अ॒नः । वा॒युना᳚ । ग॒च्छ॒ता॒म् । इति॑ । आ॒ह॒ । वा॒यु॒दे॒व॒त्य॑ इति॑ वायु-दे॒व॒त्यः॑ । वै । प्रा॒ण इति॑ प्र - अ॒नः । वा॒यौ । ए॒व । अ॒स्य॒ । प्रा॒णमिति॑ प्र - अ॒नम् । जु॒हो॒ति॒ । समिति॑ । यज॑त्रैः । अङ्गा॑नि । समिति॑ । य॒ज्ञ्प॑ति॒रिति॑ य॒ज्ञ् - प॒तिः॒ । आ॒शिषेत्या᳚ - शिषा᳚ । इति॑ । आ॒ह॒ । य॒ज्ञ्प॑ति॒मिति॑ य॒ज्ञ् - प॒ति॒म् । ए॒व । अ॒स्य॒ । आ॒शिष॒मित्या᳚-शिष᳚म् । ग॒म॒य॒ति॒ । वि॒श्वरू॑प॒ इति॑ वि॒श्व - रू॒पः॒ । वै । त्वा॒ष्ट्रः । उ॒परि॑ष्टात् । प॒शुम् । अ॒भीति॑ । अ॒व॒मी॒त् । तस्मा᳚त् । उ॒परि॑ष्टात् । प॒शोः । न । अवेति॑ । द्य॒न्ति॒ । यत् । उ॒परि॑ष्टात् । प॒शुम् । स॒म॒नक्तीति॑ सं - अ॒नक्ति॑ । मेद्ध्य᳚म् । ए॒व ।