प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.3.7.5 TS 6.3.7.5
-नं॑ करोत्यृ॒त्विजो॑ वृणीते॒ छन्दाꣳ॑स्ये॒व वृ॑णीते स॒प्त वृ॑णीते स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्ताऽऽ*र॒ण्याः स॒प्त छन्दाꣳ॑स्यु॒भय॒स्या व॑रुद्ध्या॒ एका॑दश प्रया॒जान्. य॑जति॒ दश॒ वै प॒शोः प्रा॒णा आ॒त्मैका॑द॒शो यावा॑ने॒व प॒शुस्तं प्र य॑जति व॒पामेकः॒ परि॑ शय आ॒त्मैवाऽऽ*त्मानं॒ परि॑ शये॒ वज्रो॒ वै स्वधि॑ति॒र्वज्रो॑ यूपशक॒लो घृ॒तं खलु॒ वै ( ) दे॒वा वज्रं॑ कृ॒त्वा सोम॑मघ्नन् घृ॒तेना॒क्तौ प॒शुं त्रा॑येथा॒मित्या॑ह॒ वज्रे॑णै॒वैनं॒ ॅवशे॑ कृ॒त्वाऽऽल॑भते ॥
पदपाठः (Word-by-word)
ए॒न॒म् । क॒रो॒ति॒ । ऋ॒त्विजः॑ । वृ॒णी॒ते॒ । छन्दाꣳ॑सि । ए॒व । वृ॒णी॒ते॒ । स॒प्त । वृ॒णी॒ते॒ । स॒प्त । ग्रा॒म्याः । प॒शवः॑ । स॒प्त । आ॒र॒ण्याः । स॒प्त । छन्दाꣳ॑सि । उ॒भय॑स्य । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । एका॑दश । प्र॒या॒जानिति॑ प्र - या॒जान् । य॒ज॒ति॒ । दश॑ । वै । प॒शोः । प्रा॒णा इति॑ प्र-अ॒नाः । आ॒त्मा । ए॒का॒द॒शः । यावान्॑ । ए॒व । प॒शुः । तम् । प्रेति॑ । य॒ज॒ति॒ । व॒पाम् । एकः॑ । परीति॑ । श॒ये॒ । आ॒त्मा । ए॒व । आ॒त्मान᳚म् । परीति॑ । श॒ये॒ । वज्रः॑ । वै । स्वधि॑ति॒रिति॒ स्व - धि॒तिः॒ । वज्रः॑ । यू॒प॒श॒क॒ल इति॑ यूप - श॒क॒लः । घृ॒तम् । खलु॑ । वै ( ) । दे॒वाः । वज्र᳚म् । कृ॒त्वा । सोम᳚म् । अ॒घ्न॒न्न् । घृ॒तेन॑ । अ॒क्तौ । प॒शुम् । त्रा॒ये॒था॒म् । इति॑ । आ॒ह॒ । वज्रे॑ण । ए॒व । ए॒न॒म् । वशे᳚ । कृ॒त्वा । एति॑ । ल॒भ॒ते॒ ॥
पदसंख्या: 68