प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.3.8.1 TS 6.3.8.1
पर्य॑ग्नि करोति सर्व॒हुत॑मे॒वैनं॑ करो॒त्य-स्क॑न्दा॒या-स्क॑न्नꣳ॒॒ हि तद् यद् धु॒तस्य॒ स्कन्द॑ति॒ त्रिः पर्य॑ग्नि करोति॒ त्र्या॑वृ॒द्धि य॒ज्ञोऽथो॒ रक्ष॑सा॒मप॑हत्यै ब्रह्मवा॒दिनो॑ वदन्त्यन्वा॒रभ्यः॑ प॒शू(3)र्नान्वा॒रभ्या(3)इति॑ मृ॒त्यवे॒ वा ए॒ष नी॑यते॒ यत् प॒शुस्तं ॅयद॑न्वा॒रभे॑त प्र॒मायु॑को॒ यज॑मानः स्या॒दथो॒ खल्वा॑हुः सुव॒र्गाय॒ वा ए॒ष लो॒काय॑ नीयते॒ यत्- [ ]
पदपाठः (Word-by-word)
पर्य॒ग्नीति॒ परि॑ - अ॒ग्नि॒ । क॒रो॒ति॒ । स॒र्व॒हुत॒मिति॑ सर्व-हुत᳚म् । ए॒व । ए॒न॒म् । क॒रो॒ति॒ । अस्क॑न्दाय । अस्क॑न्नम् । हि । तत् । यत् । हु॒तस्य॑ । स्कन्द॑ति । त्रिः । पर्य॒ग्नीति॒ परि॑ - अ॒ग्नि॒ । क॒रो॒ति॒ । त्र्या॑वृ॒दिति॒ त्रि - आ॒वृ॒त् । हि । य॒ज्ञ्ः । अथो॒ इति॑ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ । अ॒न्वा॒रभ्य॒ इत्य॑नु - आ॒रभ्यः॑ । प॒शू(3)ः । न । अ॒न्वा॒रभ्या(3) इत्य॑नु -आ॒रभ्या(3)ः । इति॑ । मृ॒त्यवे᳚ । वै । ए॒षः । नी॒य॒ते॒ । यत् । प॒शुः । तम् । यत् । अ॒न्वा॒रभे॒तेत्य॑नु-आ॒रभे॑त । प्र॒मायु॑क॒ इति॑ प्र-मायु॑कः । यज॑मानः । स्या॒त् । अथो॒ इति॑ । खलु॑ । आ॒हुः॒ । सु॒व॒र्गायेति॑ सुवः - गाय॑ । वै । ए॒षः । लो॒काय॑ । नी॒य॒ते॒ । यत् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

विधत्ते —

‘ पर्यग्नि करोति सर्वहुतमेवैनं करोत्यस्कन्दयास्कन्न हि तद्यद्धुतस्य स्कन्दति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।

आवृत्तिं विधत्ते —

‘ त्रिः पर्याग्ने करोति त्र्यावृद्धि यज्ञोऽथो रक्षसामपहत्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।

अत्र विचारं दर्शयति —

‘ ब्रह्मवादिनो वदन्त्यन्वारभ्य पशू३र्नान्वारभ्या३ इति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।

प्रथमपक्षे दोषमाह —

‘ मृत्यवे वा एष नीयते यत्पशुस्तं यदन्वारभेत प्रमायुको यजमानः स्यात् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।

द्वितीयपक्षे दोषमाह —

‘ अथो खल्वाहुः सुवर्गाय वा एष लोकाय नीयते यत्पशुरिति यन्नान्वारभेत सुवर्गाल्लोकाद्यजमानो हीयेत ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।

दोषद्वयपरिहाराय प्रकारन्तरं विधत्ते —

‘ वपाश्रपणीभ्यामन्वारभते तन्नेवान्वारब्धं नेवानन्वारब्धम् ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ८] इति।

याभ्यां दारुमयीभ्यां वपा पच्यते ते वपाश्रपण्यौ।

प्रैषमन्त्रमुत्पादयति —

‘ उप प्रेष्य होतर्हव्या देवेभ्य इत्याहेषित हि कर्म क्रियते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।

हे होतर्देवेभ्यो वपादीनि हव्यानि कर्तुमुपप्रेष्य पशुसमीपे शमितॄन्प्रेरय। लोके हि प्रभुणा प्रेषितं कर्म सहसा क्रियते।

मन्त्रस्तु स्पष्टार्थ इत्याह —

‘ रेवतीर्यज्ञपतिं प्रियधाऽऽविशतेत्याह यथायजुरेवैतत् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।

विधत्ते —

‘ अग्निना पुरस्तादेति रक्षसामपहत्यै ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ८] इति।

उल्मुकेन सह पशोः पुरस्तादाग्नीध्रो गच्छेत्।

विधत्ते —

‘ पृथिव्याः संपृचः पाहीति बर्हिरुपास्यत्यस्कन्दायास्कन्न हि तद्यद्बर्हिषि स्कन्दत्यथो बर्हिषदमेवैनं करोति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ८] इति।

पशुसंबन्धि यदङ्गं बर्हिषि स्कन्देत्तद्भूमावपतनादस्कन्नमेव। अथ कथंचिदधः पतितेप्येनं बर्हिषदमेव करोति।

विधत्ते —

‘ पराङा वर्ततेऽध्वर्युः पशोः संज्ञप्यमानात्पशुभ्य एव तन्निह्नुत आत्मनोऽनाव्रस्काय ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।

अध्वर्युर्मार्यमाणं पशुमदृष्ट्वा ततः पराङ्मुखः प्रत्यवर्तेत। तेन पशुभ्यो निह्नुते पशुं न मारयामीत्येवमपलपति। स चापलापः स्वस्य दोषाभावाय भवति।

वेदनं प्रशंसति —

‘ गच्छति श्रियं प्र पशुनाप्नोति य एवं वेद ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।

एतदेव दर्शयति —

‘ पश्चाल्लोका वा एषा प्राच्युदानीयते यत्पत्नी नमस्त आतानेत्याहाऽऽदित्यस्य वै रश्मय आतानास्तेभ्य एव नमस्करोति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ८] इति।

पश्चात्प्रतीच्यां दिशि निर्मिता शाला लोको निवासस्थानं यस्याः सा पश्चाल्लोका। तादृशी यदा प्राचीं गच्छति तदानीमाभिमुख्येन सूर्यरश्मिर्भवतीति तन्नमस्कारो युक्तः।

एतौ मन्त्रौ व्याचष्टे —

‘ अनर्वा प्रेहीत्याह भ्रातृव्यो वा अर्वा भ्रातृव्यापनुत्त्यै घृतस्य कुल्यामनु सह प्रजया सह रायस्पोषेणेत्याहाऽऽशिषमेवैतामा शास्त आपो देवीः शुद्धायुव इत्याह यथायजुरेवैतत् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पर्यग्नीत्यादि ।। परितोग्निर्यस्मिन् कर्मणि स पर्यग्निः । पशुमेवैते यथा पशुयूपाहवनीयशामित्रचात्वालान्यन्तर्भवन्ति तथाऽऽहवनीयादुल्मुकमादाय त्रिःप्रदक्षिणं परियन्ति [र्येति] सर्वहुतमेव पशुं करोति, न किंचिदप्यस्य हीयते । ततश्चास्कन्दाय स्कन्नदोषाभावार्थं भवति । कथमित्याह - अस्कन्नं हीत्यादि । पर्यग्निकरणेन सर्वमिदमग्नौ हुतप्रायं क्रियते; यच्च हुतस्य निवृत्तप्रयोजनस्य स्कन्दति अस्कन्नमेव तत् । न तत्र स्कन्नदोषः । त्रिरिति संख्याविधिः । गतः ।।
2 ब्रह्मवादिन इत्यादि ।। अन्वारम्भः स्पर्शः । 'विचार्यमाणानाम्' इत्युभयत्र प्लुतः । मृत्यवे इत्यादि । मृत्यवे नीयमानं पशुं यदि हस्तेनान्वारभेत मरणशीलो यजमानस्स्यात् । अथ स्वर्गाय नीयमानं पशुं यदि नान्वारभेत स्वर्गाद्धीयेत यजमानः । तस्मादुभयदोषपरिहारार्थं वपाश्रपणीभ्यामन्वारभेतैव । तद्धि हस्तेनास्पर्शनात् अन्वारब्धमिव न भवति । ताभ्यां स्पर्शनात् अनन्वारब्धमिव च न भवति । ततश्चोभयदोषाप्रसङ्ग इति ।

उभयत्र भावे निष्ठा ।।

3 अत्राश्राव्य प्रत्याश्राविते संप्रैष उपप्रैषः । उप प्रेष्येति ।। तत्र प्रकर्षेण इष्टतमस्य देवसमीपे ख्यापयति । संप्रैषार्थं दर्शयितुमाह - इषितमिति । इष्टं ह्येतत्कर्म पशुयागाख्यं क्रियते; तस्मादेवमाहेति ।।
4 रेवतीरिति पशुमुदञ्चं नीयमानमनुमन्त्रयते ।। अत्र यथा यजुषा प्रार्थ्यते 'यज्ञपतिं प्रियधाऽऽविशत' 'हविषस्त्मना यज समस्य तनुवा भव' ' यज्ञे यज्ञपतिं धाः' इति तत्सर्वं तथा संपद्यते । एवमग्निना पुरस्तादित्यादि ।।
5 अग्रतो नीयमानेनाग्निना सहैति । शमिता पशुं नयत् आहवनीयादुल्मुकमादायाग्नीध्रो गच्छति पशोः नीयमानस्य 'पृथिव्यास्संपृचः' इति पशुनिहननस्थाने निहन्यमानाय बर्हिरुपास्यति । उपाकरणायान्यतरत् । अस्कन्दायेत्यादि । गतम् । बर्हिषदं बर्हिषि सादितंकरोति । छान्दसः सलोपः ।।
6 पराङिति ।। हन्यमानात्पशोः पराङ्मुख आवर्त्योऽध्वर्युः । तथा सति पशुभ्यो निह्नवः अपलापः कृतो भवति नाहमस्य मारयितेति पशुभ्यः ख्यापितं भवति । तच्चात्मनोनाव्रस्काय अच्छेदाय भवति । व्रश्चतिस्सकारोपध इष्यते, घञि कुत्वे चुत्वं निवर्तते । गच्छतीत्यादि । वेदितुः फलम् ।।
7 पश्चाल्लोकेत्यादि ।। अत्र 'नमस्त आतान' इति पत्नीमादित्यमुदीक्षयति । 'अनर्वा प्रेहि' इत्यादि प्राचीमेनामुदानयन्वाचयति । तत्रेदमुच्यते । पश्चाल्लोका पश्चात्स्थानस्थिता इदानीं प्राच्युदानीयते पत्नी । तस्मात् 'नमस्त आतान'51 इत्यादित्यमुपतिष्ठते आभिमुख्येनातन्यमानोरश्मिः आतान इति कृत्वा । तदेवाह - आदित्यस्य वा इति । मन्त्रे मतुब्लोपः । अनर्वेति । कुत्सितमरणम् । 'अवद्यावम' इति अर्तेः नन्प्रत्ययोर्वादेशश्च निपात्यते । तद्रहितः अनर्वा, 'भ्रातृव्यो वा अर्वा' इति ब्राह्मणे वनिप्प्रत्ययान्तस्य दर्शनात् सोपि तदर्थोस्तीति ज्ञायते । भ्रातृव्यापनुतिशब्दो दासीभारादिर्द्रष्टव्यः ।।
8 घृतस्य कुल्यामित्यादि प्रार्थना ।। आपो देवीरिति पत्नीमपोवेक्षमाणां वाचयति । यथा यजुरिति । ऊर्ध्वं भूयास्मेत्येतद्यथा यजुस्संपद्यते एवेति ।।
इति षष्ठे तृतीये अष्टमोनुवाकः ॥