प॒शुरिति॒ यन्नान्वा॒रभे॑त सुव॒र्गाल्लो॒काद् यज॑मानो हीयेत वपा॒श्रप॑णीभ्या-म॒न्वार॑भते॒ तन्नेवा॒न्वार॑ब्धं॒ नेवान॑न्वारब्ध॒मुप॒ प्रेष्य॑ होतर्.ह॒व्या दे॒वेभ्य॒ इत्या॑हेषि॒तꣳ हि कर्म॑ क्रि॒यते॒ रेव॑तीर्य॒ज्ञ्प॑तिं प्रिय॒धा ऽऽवि॑श॒तेत्या॑ह यथाय॒जुरे॒वैतद॒ग्निना॑ पु॒रस्ता॑देति॒ रक्ष॑सा॒मप॑हत्यै पृथि॒व्याः स॒पृंचः॑ पा॒हीति॑ ब॒र्॒.हि- [ ]
पदपाठः (Word-by-word)
प॒शुः । इति॑ । यत् । न । अ॒न्वा॒रभे॒तेत्य॑नु - आ॒रभे॑त । सु॒व॒र्गादिति॑ सुवः - गात् । लो॒कात् । यज॑मानः । ही॒ये॒त॒ । व॒पा॒श्रप॑णीभ्या॒मिति॑ वपा - श्रप॑णीभ्याम् । अन्वार॑भत॒ इत्य॑नु - आर॑भते । तत् । न । इ॒व॒ । अ॒न्वार॑ब्ध॒मित्य॑नु-आर॑ब्धम् । न । इ॒व॒ । अन॑न्वारब्ध॒मित्यन॑नु-आ॒र॒ब्ध॒म् । उप॑ । प्रेति॑ । इ॒ष्य॒ । हो॒तः॒ । ह॒व्या । दे॒वेभ्यः॑ । इति॑ । आ॒ह॒ । इ॒षि॒तम् । हि । कर्म॑ । क्रि॒यते᳚ । रेव॑तीः । य॒ज्ञ्प॑ति॒मिति॑ य॒ज्ञ् - प॒ति॒म् । प्रि॒य॒धेति॑ प्रिय - धा । एति॑ । वि॒श॒त॒ । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा - य॒जुः । ए॒व । ए॒तत् । अ॒ग्निना᳚ । पु॒रस्ता᳚त् । ए॒ति॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । पृ॒थि॒व्याः । स॒पृंच॒ इति॑ सं - पृचः॑ । पा॒हि॒ । इति॑ । ब॒र्॒.हिः ।