आता॒नास्तेभ्य॑ ए॒व नम॑स्करोत्यन॒र्वा प्रेहीत्या॑ह॒ भ्रातृ॑व्यो॒ वा अर्वा॒ भ्रातृ॑व्यापनुत्त्यै घृ॒तस्य॑ कु॒ल्यामनु॑ स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णे-त्या॑हा॒ ऽऽ*शिष॑मे॒वैतामा शा᳚स्त॒ आपो॑ देवीः शुद्धायुव॒ इत्या॑ह यथाय॒जुरे॒वैतत् ॥
पदपाठः (Word-by-word)
आ॒ता॒ना इत्या᳚ - ता॒नाः । तेभ्यः॑ । ए॒व । नमः॑ । क॒रो॒ति॒ । अ॒न॒र्वा । प्रेति॑ । इ॒हि॒ । इति॑ । आ॒ह॒ । भ्रातृ॑व्यः । वै । अर्वा᳚ । भ्रातृ॑व्यापनुत्त्या॒ इति॒ भ्रातृ॑व्य - अ॒प॒नु॒त्त्यै॒ । घृ॒तस्य॑ । कु॒ल्याम् । अन्विति॑ । स॒ह । प्र॒जयेति॑ प्र - जया᳚ । स॒ह । रा॒यः । पोषे॑ण । इति॑ । आ॒ह॒ । आ॒शिष॒मित्या᳚ - शिष᳚म् । ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ । आपः॑ ।दे॒वीः॒ । शु॒द्धा॒यु॒व॒ इति॑ शुद्ध - यु॒वः॒ । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा - य॒जुः । ए॒व । ए॒तत् ॥