प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.3.9.1 TS 6.3.9.1
प॒शोर्वा आल॑ब्धस्य प्रा॒णाञ्छुगृ॑च्छति॒ वाक्त॒ आ प्या॑यतां प्रा॒णस्त॒ आ प्या॑यता॒मित्या॑ह प्रा॒णेभ्य॑ ए॒वास्य॒ शुचꣳ॑ शमयति॒ सा प्रा॒णेभ्योऽधि॑ पृथि॒वीꣳ शुक् प्र वि॑शति॒ शमहो᳚भ्या॒मिति॒ नि न॑यत्यहोरा॒त्राभ्या॑मे॒व पृ॑थि॒व्यै शुचꣳ॑ शमय॒त्योष॑धे॒ त्रा॑यस्वैनꣳ॒॒ स्वधि॑ते॒ मैनꣳ॑ हिꣳसी॒रित्या॑ह॒ वज्रो॒॒ वै स्वधि॑तिः॒- [ ]
पदपाठः (Word-by-word)
प॒शोः । वै । आल॑ब्ध॒स्येत्या - ल॒ब्ध॒स्य॒ । प्रा॒णानिति॑ प्र - अ॒नान् । शुक् । ऋ॒च्छ॒ति॒ । वाक् । ते॒ । एति॑ । प्या॒य॒ता॒म् । प्रा॒ण इति॑ प्र - अ॒नः । ते॒ । एति॑ । प्या॒य॒ता॒म् । इति॑ । आ॒ह॒ । प्रा॒णेभ्य॒ इति॑ प्र - अ॒नेभ्यः॑ । ए॒व । अ॒स्य॒ । शुच᳚म् । श॒म॒य॒ति॒ । सा । प्रा॒णेभ्य॒ इति॑ प्र - अ॒नेभ्यः॑ । अधीति॑ । पृ॒थि॒वीम् । शुक् । प्रेति॑ । वि॒श॒ति॒ । शम् । अहो᳚भ्या॒मित्यहः॑ - भ्या॒म् । इति॑ । नीति॑ । न॒य॒ति॒ । अ॒हो॒रा॒त्राभ्या॒मित्य॑हः-रा॒त्राभ्या᳚म् । ए॒व । पृ॒थि॒व्यै । शुच᳚म् । श॒म॒य॒ति॒ । ओष॑धे । त्राय॑स्व । ए॒न॒म् । स्वधि॑त॒ इति॒ स्व - धि॒ते॒ । मा । ए॒न॒म् । हिꣳ॒॒सीः॒ । इति॑ । आ॒ह॒ । वज्रः॑ । वै । स्वधि॑ति॒रिति॒ स्व - धि॒तिः॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

शोकप्रसक्तिं दर्शयन्व्याचष्टे –

‘पशोर्वा आलब्धस्य प्राणाञ्छुगृच्छति वाक्त आ प्यायतां प्रणस्त आ प्यायतामित्याह प्राणेभ्य एवास्य शुच शमयति’ (सं. का. ६ प्र. ३ अ. ९) इति।

शुगव्यथां विधत्ते –

‘सा प्राणेभ्योऽधि पृथिवी शुक् प्र विशति शमहोभ्यामिति नि नयत्यहोरात्राभ्यामेव पृथिव्यै शुच शमयति’ (सं. का. ६ प्र. ३ अ. ९) इति।

प्राणेभ्योऽपनीता शुक्पृथिवीमधिष्ठाय तदीयदेवताशरीरे प्रविशति। एवं कालादौ प्रवेशः। प्रविष्टायाः शुचः शान्तिर्निनयनेन भवति।

मा हिसीरित्येतस्याभिप्रायमाह —

‘ओषधे त्रायस्वैन स्वधिते मैन हिसीरित्याह वज्रौ वै स्वधितिः शान्त्यै’ (सं. का. ६ प्र. ६ अ. ९) इति।

विधत्ते –

‘पार्श्वत आ च्छ्यति मध्यतो हि मनुष्या आच्छ्यन्ति तिरश्चीनमा च्छ्यत्यनूचीन हि मनुष्या आच्छ्यन्ति व्यावृत्त्यै’ (सं. का. ६ प्र. ३ अ. ९) इति।

वपोत्खेदनार्थं दक्षिणपार्श्वे छिन्द्यात्। मांसाहारास्तु मनुष्या नाभिदेशे छिन्दन्ति। तत्राप्यनूचीनं पशोर्दैर्घ्यमनुसृत्य तदुभयवैलक्षण्यमिह कार्यम्।

विधत्ते –

‘रक्षसा भागोऽसीति स्थविमतो बर्हिरक्त्वाऽपास्यत्यस्नैव रक्षासि निरवदयते’ (सं. का. ६ प्र. ३ अ. ९) इति।

स्थूलस्य भावः स्थविमा तस्मात्सप्तम्यर्थे तसिल्। स्थविमतः। स्थविमशब्देन बर्हिषो मूलभागः स्थूलत्वादुपलक्ष्यते। तस्मिन्भागे रक्तेन बर्हिरङ्क्त्वा निरस्येत्। तथा सत्यसृजैव रक्षांसि निःशेषेण भागवन्ति कृत्वाऽपनयति।

द्वितीयमन्त्रं व्याचष्टे —

‘इदमह रक्षोऽधमं तमो नयामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश्चैनं द्वेष्टि तावुभावधमं तमो नयति’ (सं. का. ६ प्र. ३ अ. ९) इति।

अधमं तमो महद्दुःखम्।

विधत्ते —

‘इषे त्वेति वपामुत्खिदतीच्छत इव ह्येष यो यजते’ (सं. का. ६ प्र. ३ अ. ९) इति।

अत्र शूलाग्रेण वपां भिन्द्यान्न वेति विचारं हृदि निधाय पक्षद्वयेऽपि दूषणमुपन्यस्यति–

‘यदुपतृन्द्याद्रुद्रोऽस्य पशून्घातुकः स्याद्यन्नोपतृन्द्यादयता स्यात्’ (सं. का. ६ प्र. ३ अ. ९) इति।

भेदनमन्तरेण धृताऽपि नियन्तुमशक्यत्वादितस्ततः पतेत्।

दोषद्वयास्पृष्टं पक्षान्तरं विधत्ते–

‘अन्ययोपतृणत्यन्यया न धृत्यै’ (सं. का. ६ प्र. ३ अ. ९) इति।

एकया शाखया भिन्द्यादितरया न भिन्द्यात्तथा सति धृताऽपि भवति रुद्रश्च न हिनस्ति।

वपाशब्दशूलशब्दौ परित्यज्य घृतशब्दप्रयोगस्य द्यावापृथिवीशब्दप्रयोगस्य च तात्पर्यमाह —

‘घृतेन द्यावापृथिवी प्रोर्ण्वाथामित्याह द्यावापृथिवी एव रसेनानक्ति’ (सं. का. ६ प्र. ३ अ. ९) इति।

स्पष्टार्थतामाह —

‘अच्छिन्नो रायः सुवीर इत्याह यथायजुरेवैतत्’ (सं. का. ६ प्र. ३ अ. ९) इति।

इममेवार्थं दर्शयति –

‘क्रूरमिव वा एतत्करोति यद्वपामुत्खिदत्युर्वन्तरिक्षमन्विहीत्याह शान्त्यै’ (सं. का. ६ प्र. ३ अ. ९) इति।

वपाश्रपण्योः स्पर्शं विधत्ते —

‘प्र वा एषोऽस्माल्लोकाच्च्यवते यः पशुं मृत्यवे नीयमानमन्वारभते वपाश्रपणी पुनरन्वारभतेऽस्मिन्नेव लोके प्रति तिष्ठति’ (सं. का. ६ प्र. ३ अ. ९) इति।

वपायाः पुरतः पशोरिव वह्निं विधत्ते —

‘अग्निना पुरस्तादेति रक्षसामपहत्या अथो देवता एव हव्येनान्वेति’ (सं. का. ६ प्र. ३ अ. ९) इति।

अग्नेः सर्वदेवतात्मकत्वात्तस्य पृष्ठतो वपानयने सर्वा अपि देवता हव्येनानुगता भवन्ति।

व्यतिरेकमुखेणाऽऽहवनीयस्योत्तरपार्श्ववर्तिष्वङ्गारेषु वपायाः श्रपणं विधत्ते– ‘नान्तममङ्गारमतिहरेद्यदन्तममङ्गारमतिहरेद्देवता अति मन्येत’ (सं. का. ६ प्र. ३ अ. ९) इति।

अङ्गारस्य सर्वदेवतात्मकत्वेन तदवज्ञया देवता एवावज्ञाता भवन्ति। तस्मादस्मिन्नेवाङ्गारे वपां श्रपयेत्।

वीहीत्यत्र विशब्दस्यार्थं दर्शयति —

‘वायो वीहि स्तोकानामित्याह तस्माद्विभक्ताः स्तोका अव पद्यन्ते’ (सं. ६ का. ६ प्र. ३ अ. ९) इति।

पतन्तीत्यर्थः

वपाया अधस्ताद्बर्हिरग्रस्थापनविधिमर्थवादेनोन्नयति —

‘अग्रं वा एतत्पशूनां यद्वपाऽग्रमोषधीनां बर्हिरग्रेणैवाग्र समर्धयत्यथो ओषधीष्वेव पशून्प्रति ष्ठापयति’ (सं. का. ६ प्र. ३ अ. ९) इति।

अग्रं श्रेष्ठम्। ओषध्यग्रेण बर्हिषा पश्वग्ररूपाया वपायाः समृद्ध्यर्थमोषधीषु पशुप्रतिष्ठापनार्थं बर्हिरग्रं वपाया अधः स्थापयेदित्यर्थः।

अथान्तिमप्रयाजार्थं मैत्रावरुणं प्रत्यध्वर्योः प्रैषमन्त्रमुत्पादयति–

‘स्वाहाकृतीभ्यः प्रेष्येत्याह यज्ञस्य समिष्ट्यै’ (सं. का. ६ प्र. अ. ९) इति।

स्वाहाशब्दबहुला कृतिर्मन्त्रप्रयोगो यासामन्तिमप्रयाजदेवतानां ताः स्वाहाकृतयस्तदर्थं हे मैत्रावरुण होतारं प्रेरय। मैत्रावरुणस्तु होता यक्षदग्निं स्वाहाऽऽज्यस्येत्यादिमन्त्रेण होतारं प्रेष्यति। स च होता सद्यो जातो व्यमिमीत यज्ञमित्यादिकां याज्यां पठति। ततोऽध्वर्युरन्तिमप्रयाजं यजति। एवमयं प्रैषो यज्ञस्य सम्यगिष्ट्यै संपद्यते।

प्रयाजशेषेण हविरभिघारणं विधत्ते —

‘प्राणापानौ वा एतौ पशूनां यत्पृषदाज्यमात्मा वपा पृषदाज्यमभिघार्य वपामभि घारयत्यात्मन्नेव पशूनां प्राणापानौ दधाति’ (सं. का. ६ प्र. ३ अ. ९) इति।

दधिमिश्रमाज्यं पृषदाज्यम्। पृषदाज्यस्य वपायाश्चाभिघारणेन वपारूपे पश्वात्मनि पृषदाज्यरूपौ पशूनां प्राणापानौ स्थापयति।

तत्प्राप्तावुपयोगं दर्शयति —

‘स्वाहोर्ध्वनभसं मारुतं गच्छतमित्याहोर्ध्वनभा ह स्म वै मारुतो देवनां वपाश्रपणी प्र हरति तेनैवैने प्र हरति’ (सं. का. ६ प्र. ३ अ. ९) इति।

व्यत्यस्ताग्रतां विधत्ते —

‘विषूची प्र हरति तस्माद्विष्वञ्चौ प्राणापानौ’ (सं. का. ६ प्र. ३ अ. ९) इति।

प्राण ऊर्ध्ववृत्तिरपानोऽधोवृत्तिरित्युभयोर्व्यत्यासः।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पशोर्वा इत्यादि ।। शुक् शोकः । 'वाक्त आ प्यायताम्' इत्यादिभिः पत्नी अनुपूर्वं पशोः प्राणानाप्यायति । प्राणेभ्य इति ल्यब्लोपे पञ्चमी । अस्य पशोः प्राणेभ्य आदाय शोकं शमयति । सेत्यादि । सा शुक् प्राणेभ्योपनीता पृथिवीं प्रविशति । अधिरनर्थकः । पृथिवीं वा अधिष्ठाय प्रविशति । अधिष्ठाय प्रवेशोऽधिप्रवेशः । तच्छान्त्यर्थं शमहोभ्यामिति अतिशिष्टा अपः दक्षिणतो न पृष्ठतः निनयति । अहोरात्राभ्यामिति । मन्त्रपदस्येदं विवरणम् । अहस्सहिता रात्रिरप्यहरित्युच्यते मन्त्रे । यद्वा - व्यत्ययेन विरूपयोरप्येकशेषः प्रवर्तते । हेतौ तृतीया । अहोरात्राभ्यां हेतुभ्यामिति ।।
2 वपाग्रहणदेशे प्राचीनाग्रं बर्हिर्निदधाति - ओषधे इति ।। तत्र स्वधितिं निदधाति - स्वधिते इति । गतम् । पार्श्वत इति । पार्श्वे आच्छ्यति आच्छिनत्ति । मध्ये हेतुमाह - मध्यतो हि मनुष्याः सौनिकादयः आच्छ्यन्ति आच्छिन्दन्ति । उभयत्र आद्यादित्वात्तसिः । छो छेदने, दैवादिकः, 'ओतश्श्यनि' इति लोपः, 'हि च' इति निघाताभावः, 'तिङि चोदात्तवति' इति गतेरनुदात्तत्वम्, समासश्च । तिरश्चीनमिति । तिर्यङ्मानं, नानूचीनमाछ्यति । हेतुं चाह - अनूचीनं पशुशरीरानुगुणं मनुष्या आ छ्यन्ति न तिरश्चीनम् । तस्मात् व्यावृत्त्यर्थमेवं क्रियमाणं भवत्यस्य लौकिकात्पशोः ।।
3 रक्षसां भागोसीति ।। उपाकरणबर्हिषोर्मूलं लोहितेनाक्त्वा इमां दिशं निरस्यति । तदिदमाह - स्थविमत इति । स्थविमा स्थूलत्वम् । स्थलूदूरादिना यागादिलोपः गुणश्च । तेन तद्वान् प्रदेशो लक्ष्यते, मत्वर्थीयलोपो वा । तत आद्यादित्वात्तसिः । बर्हिः उपाकरणबर्हिः । 'रक्षांसि निरवदयते' इति वक्ष्यमाणत्वाद्विवेकलाभः । अस्नेति । असृजा । पद्वन्नादिना असन्भावः । निरवदानं विनाशनम् । इदमहमित्यादि । गतम् । अधमं तमः मृत्युः, नरकं वा ।।
4 इषे त्वेति ।। वपामुत्खिदति उद्धरति । खिद दैन्यै । इच्छत इवेति । यजमानस्येष्टत्वं दर्शयति ।यदुपतृन्द्यादिति । वपाश्रपणीभ्यां वपां यद्युपतृन्द्यात् हिंस्यात् रुद्रः पशूनां हननपरस्स्यात् । 'लषपदपत' इत्युकञ्, 'न लोकाव्यय' इति षष्ठीप्रतिषेधः । अथ यदि नोपतृन्द्यात् ताभ्यां तदा अयता अनियता स्यात् वपा । तस्मादन्यया एकया । अन्यया न । तद्धृत्यै धारणाय भवति । उ तृदिर् हिंसायाम्, 'एकान्याभ्यां समर्थाभ्याम्' इति निघाताभावः ।।
5 धृतेनेति ।। वपाश्रपण्येका । वपया प्रोर्णोति । द्यावापृथिवी इति । 'दिवो द्यावा' इति द्यावादेशः, 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम्, 'देवताद्वन्द्वे च' इत्युदात्तत्वम् । अच्छिन्न इति । वपामधस्तात्परिवासयति । क्रूरमिवेत्यादि । महदन्तरिक्षमनुच्छेत्युक्त्वा वपामादायेति तच्छान्त्यै भवति । प्र वा एष इति । गतम् ।।
6 अग्निनेति ।। उल्मुकेन सहाग्रतो गच्छति रक्षसामपघातार्थम् । अपि च देवता एव ह्येनाननुगच्छति, सर्वदेवतात्मकत्वादग्रेः । नान्तममिति । अन्तं सर्वान्त्यमङ्गारमाहवनीयस्थं नातिहरेत् अतिक्रम्य न गच्छेत् । अन्तममितीकारलोपश्छान्दसः । यद्वा - अन्तमं अन्तिकतमं सन्निहिततमं 'अन्तात्यन्ते' इति (?)[तमेतादेश्च]' इति तादिलोपः । प्रथमं सन्निहिते त्वङ्गारे बर्हिषोग्रमुपास्यति ।।
17 वायो वीहीति ।। उपासनमन्त्रः बर्हिषः । तमेतादेश्च इति चादिलोपः, छान्दसमन्तोदात्तत्वम्, उदात्तनिवृत्तिस्वरो वा । यद्यस्तमतीत्य गच्छेत् देवता अतिमन्येत । तस्मादिति । विविधं गच्छ, ष्टथक्पृथग्गच्छेति मन्त्रवचनात् विभक्ताः स्तोका वपाबिन्दवः ष्टथिव्यामवपद्यन्ते । अग्रं वा इति । वपानाम पशूनामग्रं प्रधानं, बर्हिर्नाम ओषधीनामग्रम् । अग्रेणैवेत्यादि । गतम् ।।
8 स्वाहाकृतीभ्य इति मैत्रावरुणं संप्रेष्यति 'होता यक्षदग्निम्' इति । योयमन्त्यः प्रयाजः स स्वाहाकृतिशब्देनोच्यते । देवताबहुत्वाद्बहुवचनम् । स हि 'वपामेकः परि शये' इति पूर्वं न कृतः, स इदानीं क्रियमाणो यज्ञस्य समष्ट्यै सम्यग्यागनिवृत्त्यर्थं भवति । स्वाहाशब्देन ऊर्यादित्वेन गतित्वात् 'तादौ च' इति गतेः प्रकृतिस्वरत्वम्, छान्दसं क्तिनो दीर्घत्वं सांहितिकम् ।।
9 प्राणापानाविति ।। पृषदाज्यं नाम दधिमिश्रमाज्यं तत्प्राणापानस्थानीयम् । पशूनामात्मस्थानीया वपा । पृषदाज्यमित्यादि । गतम् । उपरि घृतासेचनमभिघारः ।।
10 स्वाहोर्ध्वनभसमिति वपाश्रपण्योः प्रहरणम् । ऊर्ध्वनभा नाम देवानां वपाश्रपण्योः प्रहर्ता । तेनैवैते प्रहृते भवतः, अनेनैव मन्त्रेण प्रहरणात् । विषूची इति । विष्वङ् नाना अञ्चत इति विषूच्यौ व्यत्यस्ताग्रे । पूर्ववत्पूर्वसवर्णदीर्घत्वम्, 'चौ' इति पूर्वपदस्य दीर्घत्वम् । धातोरनच्कत्वाद्दीर्घश्च । परत्वान्निपातस्वर आद्युदात्तः प्रवर्तते । यद्वा - अव्ययपूर्वपदप्रकृतिस्वरत्वं, गत्याद्यभावात् कृदुत्तरपदप्रकृतिस्वराप्रसङ्गः । 'चौ' इत्यन्तोदात्तत्वं व्यत्ययेन न प्रवर्तते । तस्मादिति । ऊर्ध्वगतिः प्राणः, अधोगतिरपान इति विष्वक्त्वमनयोः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।।
इति षष्ठे तृतीये नवमोनुवाकः ॥