शान्त्यै॑ पार्श्व॒त आ च्छ्य॑ति मद्ध्य॒तो हि म॑नु॒ष्या॑ आ॒ च्छ्यन्ति॑ तिर॒श्चीन॒मा च्छ्य॑त्यनू॒चीनꣳ॒॒ हि म॑नु॒ष्या॑ आ॒च्छ्यन्ति॒ व्यावृ॑त्त्यै॒ रक्ष॑सां भा॒गो॑ऽसीति॑ स्थविम॒तो ब॒र्॒.हिर॒क्त्वाऽपा᳚स्यत्य॒स्नैव रक्षाꣳ॑सि नि॒रव॑दयत इ॒दम॒हꣳ रक्षो॑ऽध॒मं तमो॑ नयामि॒ यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यं चै॒व- [ ]
पदपाठः (Word-by-word)
शान्त्यै᳚ । पा॒र्श्व॒तः । एति॑ । छ्य॒ति॒ । म॒द्ध्य॒तः । हि । म॒नु॒ष्याः᳚ । आ॒च्छ्यन्तीत्या᳚-छ्यन्ति॑ । ति॒र॒श्चीन᳚म् । एति॑ । छ्य॒ति॒ । अ॒नू॒चीन᳚म् । हि । म॒नु॒ष्याः᳚ । आ॒च्छ्यन्तीत्या᳚ - छ्यन्ति॑ । व्यावृ॑त्त्या॒ इति॑ वि - आवृ॑त्त्यै । रक्ष॑साम् । भा॒गः । अ॒सि॒ । इति॑ । स्थ॒वि॒म॒तः । ब॒र्॒.हिः । अ॒क्त्वा । अपेति॑ । अ॒स्य॒ति॒ । अ॒स्ना । ए॒व । रक्षाꣳ॑सि । नि॒रव॑दयत॒ इति॑ निः - अव॑दयते । इ॒दम् । अ॒हम् । रक्षः॑ । अ॒ध॒मम् । तमः॑ । न॒या॒मि॒ । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । च॒ । व॒यम् । द्वि॒ष्मः । इति॑ । आ॒ह॒ । द्वौ । वाव । पुरु॑षौ । यम् । च॒ । ए॒व ।