रायः॑ सु॒वीर॒ इत्या॑ह यथाय॒जुरे॒वैतत् क्रू॒रमि॑व॒ वा ए॒तत् क॑रोति॒ यद् व॒पा-मु॑त्खि॒द-त्यु॒र्व॑न्तरि॑क्ष॒-मन्वि॒हीत्या॑ह॒ शान्त्यै॒ प्र वा ए॒षो᳚ऽस्माल्लो॒काच्च्य॑वते॒ यः प॒शुं मृ॒त्यवे॑ नी॒यमा॑नमन्वा॒रभ॑ते वपा॒श्रप॑णी॒ पुन॑र॒न्वार॑भते॒ऽस्मिन्ने॒व लो॒के प्रति॑ तिष्ठत्य॒ग्निना॑ पु॒रस्ता॑देति॒ रक्ष॑सा॒मप॑हत्या॒ अथो॑ दे॒वता॑ ए॒व ह॒व्येना- [ ]
पदपाठः (Word-by-word)
रायः॑ । सु॒वीर॒ इति॑ सु - वीरः॑ । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा - य॒जुः । ए॒व । ए॒तत् । क्रू॒रम् । इ॒व॒ । वै । ए॒तत् । क॒रो॒ति॒ । यत् । व॒पाम् । उ॒त्खि॒दतीत्यु॑त् - खि॒दति॑ । उ॒रु । अ॒न्तरि॑क्षम् । अन्विति॑ । इ॒हि॒ । इति॑ । आ॒ह॒ । शान्त्यै᳚ । प्रेति॑ । वै । ए॒षः । अ॒स्मात् । लो॒कात् । च्य॒व॒ते॒ । यः । प॒शुम् । मृ॒त्यवे᳚ । नी॒यमा॑नम् । अ॒न्वा॒रभ॑त॒ इत्य॑नु - आ॒रभ॑ते । व॒पा॒श्रप॑णी॒ इति॑ वपा - श्रप॑णी । पुनः॑ । अ॒न्वार॑भत॒ इत्य॑नु - आर॑भते । अ॒स्मिन्न् । ए॒व । लो॒के । प्रतीति॑ । ति॒ष्ठ॒ति॒ । अ॒ग्निना᳚ । पु॒रस्ता᳚त् । ए॒ति॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑-ह॒त्यै॒ । अथो॒ इति॑ । दे॒वताः᳚ । ए॒व । ह॒व्येन॑ ।