-न्वे॑ति॒ नान्त॒ममङ्गा॑र॒मति॑ हरे॒द् यद॑न्त॒ममङ्गा॑रमति॒ हरे᳚द्-दे॒वता॒ अति॑ मन्येत॒ वायो॒ वीहि॑ स्तो॒काना॒मित्या॑ह॒ तस्मा॒द् विभ॑क्ताः स्तो॒का अव॑ पद्य॒न्तेऽग्रं॒ ॅवा ए॒तत् प॑शू॒नां ॅयद् व॒पाऽग्र॒मोष॑धीनां ब॒र्॒.हिरग्रे॑णै॒वाग्रꣳ॒॒ सम॑र्द्धय॒त्यथो॒ ओष॑धीष्वे॒व प॒शून् प्रति॑ष्ठापयति॒ स्वाहा॑कृतीभ्यः॒ प्रेष्येत्या॑ह- [ ]
पदपाठः (Word-by-word)
अन्विति॑ । ए॒ति॒ । न । अ॒न्त॒मम् । अङ्गा॑रम् । अतीति॑ । ह॒रे॒त् । यत् । अ॒न्त॒मम् । अङ्गा॑रम् । अ॒ति॒हरे॒दित्य॑ति - हरे᳚त् । दे॒वताः᳚ । अतीति॑ । म॒न्ये॒त॒ । वायो॒ इति॑ । वीति॑ । इ॒हि॒ । स्तो॒काना᳚म् । इति॑ । आ॒ह॒ । तस्मा᳚त् । विभ॑क्ता॒ इति॒ वि - भ॒क्ताः॒ । स्तो॒काः । अवेति॑ । प॒द्य॒न्ते॒ । अग्र᳚म् । वै । ए॒तत् । प॒शू॒नाम् । यत् । व॒पा । अग्र᳚म् । ओष॑धीनाम् । ब॒र्॒.हिः । अग्रे॑ण । ए॒व । अग्र᳚म् । समिति॑ । अ॒द्र्ध॒य॒ति॒ । अथो॒ इति॑ । ओष॑धीषु । ए॒व । प॒शून् । प्रतीति॑ । स्था॒प॒य॒ति॒ । स्वाहा॑कृतीभ्य॒ इति॒ स्वाहा॑कृति - भ्यः॒ । प्रेति॑ । इ॒ष्य॒ । इति॑ । आ॒ह॒ ।