य॒ज्ञ्स्य॒ समि॑ष्ट्यै प्राणापा॒नौ वा ए॒तौ प॑शू॒नां ॅयत् पृ॑षदा॒ज्यमा॒त्मा व॒पा पृ॑षदा॒ज्यम॑भि॒घार्य॑ व॒पाम॒भि घा॑रयत्या॒त्मन्ने॒व प॑शू॒नां प्रा॑णापा॒नौ द॑धाति॒ स्वाहो॒र्द्ध्वन॑भसं मारु॒तं ग॑च्छत॒मित्या॑हो॒र्द्ध्वन॑भा ह स्म॒ वै मा॑रु॒तो दे॒वानां᳚ ॅवपा॒श्रप॑णी॒ प्र ह॑रति॒ तेनै॒वैने॒ प्र ह॑रति॒ विषू॑ची॒ प्र ह॑रति॒ तस्मा॒द् विष्व॑ञ्चौ प्राणापा॒नौ ॥
पदपाठः (Word-by-word)
य॒ज्ञ्स्य॑ । समि॑ष्ट्या॒ इति॒ सं-इ॒ष्ट्यै॒ । प्रा॒णा॒पा॒नाविति॑ प्राण-अ॒पा॒नौ । वै । ए॒तौ । प॒शू॒नाम् । यत् । पृ॒ष॒दा॒ज्यमिति॑ पृषत् - आ॒ज्यम् । आ॒त्मा । व॒पा । पृ॒ष॒दा॒ज्यमिति॑ पृषत् - आ॒ज्यम् । अ॒भि॒घार्येत्य॑भि - घार्य॑ । व॒पाम् । अ॒भीति॑ । घा॒र॒य॒ति॒ । आ॒त्मन् । ए॒व । प॒शू॒नाम् । प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । द॒धा॒ति॒ । स्वाहा᳚ । ऊ॒द्र्ध्वन॑भस॒मित्यू॒द्र्ध्व - न॒भ॒स॒म् । मा॒रु॒तम् । ग॒च्छ॒त॒म् । इति॑ । आ॒ह॒ । ऊ॒द्र्ध्वन॑भा॒ इत्यू॒द्र्ध्व - न॒भाः॒ । ह॒ । स्म॒ । वै । मा॒रु॒तः । दे॒वाना᳚म् । व॒पा॒श्रप॑णी॒ इति॑ वपा - श्रप॑णी । प्रेति॑ । ह॒र॒ति॒ । तेन॑ । ए॒व । ए॒ने॒ इति॑ । प्रेति॑ । ह॒र॒ति॒ । विषू॑ची॒ इति॑ । प्रेति॑ । ह॒र॒ति॒ । तस्मा᳚त् । विष्व॑ञ्चौ । प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ ॥