गायत्रि॒या परि॑ लिखति॒ तेजो॒ वै गा॑य॒त्री तेज॑सै॒वैनं॒ परि॑गृह्णाति त्रि॒ष्टुभा॒ परि॑ लिखतीन्द्रि॒यं ॅवै त्रि॒ष्टुगि॑न्द्रि॒येणै॒वैनं॒ परि॑ गृह्णात्यनु॒ष्टुभा॒ परि॑ लिखत्यनु॒ष्टुफ् सर्वा॑णि॒ छन्दाꣳ॑सि परि॒भूः पर्या᳚प्त्यै मद्ध्य॒तो॑ऽनु॒ष्टुभा॒ वाग्वा अ॑नु॒ष्टुप् तस्मा᳚न् मद्ध्य॒तो वा॒चा व॑दामो गायत्रि॒या प्र॑थ॒मया॒ परि॑ लिख॒त्यथा॑-ऽनु॒ष्टुभाऽथ॑ त्रि॒ष्टुभा॒ तेजो॒ वै गा॑य॒त्री ( ) य॒ज्ञो॑ ऽनु॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुप् तेज॑सा चै॒वेन्द्रि॒येण॑ चोभ॒यतो॑ य॒ज्ञ्ं परि॑ गृह्णाति ॥
पदपाठः (Word-by-word)
गा॒य॒त्रि॒या । परीति॑ । लि॒ख॒ति॒ । तेजः॑ । वै । गा॒य॒त्री । तेज॑सा । ए॒व । ए॒न॒म् । परीति॑ । गृ॒ह्णा॒ति॒ । त्रि॒ष्टुभा᳚ । परीति॑ । लि॒ख॒ति॒ । इ॒न्द्रि॒यम् । वै । त्रि॒ष्टुक् । इ॒न्द्रि॒येण॑ । ए॒व । ए॒न॒म् । परीति॑ । गृ॒ह्णा॒ति॒ । अ॒नु॒ष्टुभेत्य॑नु - स्तुभा᳚ । परीति॑ । लि॒ख॒ति॒ । अ॒नु॒ष्टुबित्य॑नु - स्तुप् । सर्वा॑णि । छन्दाꣳ॑सि । प॒रि॒भूरिति॑ परि - भूः । पर्या᳚प्त्या॒ इति॒ परि॑ - आ॒प्त्यै॒ । म॒द्ध्य॒तः । अ॒नु॒ष्टुभेत्य॑नु - स्तुभा᳚ । वाक् । वै । अ॒नु॒ष्टुबित्य॑नु - स्तुप् । तस्मा᳚त् । म॒द्ध्य॒तः । वा॒चा । व॒दा॒मः॒ । गा॒य॒त्रि॒या । प्र॒थ॒मया᳚ । परीति॑ । लि॒ख॒ति॒ । अथ॑ । अ॒नु॒ष्टुभेत्य॑नु - स्तुभा᳚ । अथ॑ । त्रि॒ष्टुभा᳚ । तेजः॑ । वै । गा॒य॒त्री ( ) । य॒ज्ञ्ः । अ॒नु॒ष्टुगित्य॑नु - स्तुक् । इ॒न्द्रि॒यम् । त्रि॒ष्टुप् । तेज॑सा । च॒ । ए॒व । इ॒न्द्रि॒येण॑ । च॒ । उ॒भ॒यतः॑ । य॒ज्ञ्म् । परीति॑ । गृ॒ह्णा॒ति॒ ॥