प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.1.4.1 TS 5.1.4.1
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ खनति॒ प्रसू᳚त्या॒ अथो॑ धू॒ममे॒वैतेन॑ जनयति॒ ज्योति॑ष्मन्तं त्वाऽग्ने सु॒प्रती॑क॒मित्या॑ह॒ ज्योति॑रे॒वैतेन॑ जनयति॒ सो᳚ऽग्निर्जा॒तः प्र॒जाः शु॒चाऽऽर्प॑य॒त् तं दे॒वा अ॑र्द्ध॒र्चेना॑-शमयच्छि॒वं प्र॒जाभ्योऽहिꣳ॑ सन्त॒मित्या॑ह प्र॒जाभ्य॑ ए॒वैनꣳ॑ शमयति॒ द्वाभ्यां᳚ खनति॒ प्रति॑ष्ठित्या अ॒पां पृ॒ष्ठम॒सीति॑ पुष्करप॒र्णमा - [ ]
▶ पदपाठः (Word-by-word)
दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र - स॒वे । इति॑ । ख॒न॒ति॒ । प्रसू᳚त्या॒ इति॒ प्र - सू॒त्यै॒ । अथो॒ इति॑ । धू॒मम् । ए॒व । ए॒तेन॑ । ज॒न॒य॒ति॒ । ज्योति॑ष्मन्तम् । त्वा॒ । अ॒ग्ने॒ । सु॒प्रती॑क॒मिति॑ सु - प्रती॑कम् । इति॑ । आ॒ह॒ । ज्योतिः॑ । ए॒व । ए॒तेन॑ । ज॒न॒य॒ति॒ । सः । अ॒ग्निः । जा॒तः । प्र॒जा इति॑ प्र - जाः । शु॒चा । आ॒र्प॒य॒त् । तम् । दे॒वाः । अ॒द्‌र्ध॒र्चेनेत्य॒॑द्‌र्ध - ऋ॒चेन॑ । अ॒श॒म॒य॒न्न् । शि॒वम् । प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । अहिꣳ॑सन्तम् । इति॑ । आ॒ह॒ । प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । ए॒व । ए॒न॒म् । श॒म॒य॒ति॒ । द्वाभ्या᳚म् । ख॒न॒ति॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । अ॒पाम् । पृ॒ष्ठम् । अ॒सि॒ । इति॑ । पु॒ष्क॒र॒प॒र्णमिति॑ पुष्कर - प॒र्णम् । एति॑ ।
पदसंख्या: 50
▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 देवस्य त्वेत्यादि ॥ द्वावेतौ खननमन्त्रौ । अथो अपि च एतेन प्रथमेन मन्त्रेण उत्पत्स्यमानस्याग्नेः धूमं जनयति प्राथम्यात् । ज्योतिरेव एतेन द्वितीयेन मन्त्रेण ॥
2 सोग्निरित्यादि ॥ पूर्वेणार्धेन जातमग्निं प्रजाश्शोचयन्तं उत्तरेणार्धर्चेनाशमयन्, शिवं प्रजाभ्य इति दर्शनात् ॥
3 अपामित्यादि ॥ पुष्करपर्णं पद्मपत्रं अपामेतत्पृष्ठमिव उपरिभावात् । तस्माद्रूपेणात्मीयेन सह एनदाहृतं भवति अपां पृष्ठमसि इत्याहरणात् । योनिर्वा इति । 'त्वामग्ने पुष्करादध्यथर्वा निरमन्थत' इति मन्त्रलिङ्गात् ।
4 यज्ञो वा इति ॥ प्रधानसाधनत्वात् । ग्राम्याणामित्यदि । ग्राम्यसंज्ञाभाजो ये ग्राम्याः पशवो गोजाव्यश्वतरीगर्दभपुरुषोष्ट्राः सप्त द्विखुराः श्वापदानि च पक्षिणश्च सरीस्रपाणि च हस्ती च मर्कटश्च नादेयाश्चेति सप्त आरण्याः । तस्मादित्यादि । समावत् 'समादावतुप्' इति स्वार्थिकः । कनीयांसः स्वल्पतराः शुचा ऋतत्वात् प्राप्तत्वान्नाभिवृद्धिरारण्यानाम् । लोमतः लोमसु । आद्यादित्त्वात्तसिः । अतो हीति । यस्मादत्र संभ्रियते तस्मादिदमस्य कृष्णाजिनस्य लोम मेधार्हम् । कृष्णाजिनं चेत्यादि । गतम् ॥
5 अग्निर्देवेभ्यो निलायत निरगच्छत् । पूर्ववल्लत्वम् । अथर्वा नाम ऋषिः तमन्वपश्यत् । तत्र पुरीष्योसीत्यादिभिः अष्टाभिः मृदं खनति भरति । अन्वविन्दत् लब्धवान् अथर्वा । 'हि च' इति निघाताभावः । दध्यङ्वा इत्यादि । दध्यञ्चतीति दध्यङ् । 'ऋत्विक्' इत्यादिना क्विन् 'क्विन्प्रत्ययस्य' इति नुमः कुत्वम् । दध्यङ् नाम अथर्वणः पुत्रः ऋषिः अर्णे पाथसि भवः पाथ्यः स एव दध्यङ् । 'पाथोनदीभ्यामण्' । पूर्वमेवोदितमिति । पूर्वेण मन्त्रेण उक्तमेवार्थं उत्तरेणाभिगृह्णाति अनुवदति उभयोरेकार्थत्वात् ॥
6 चतसृभिरिति सञ्ख्याविधिः । छन्दोभिरेवेति । सम्भरणं कृतं भवतीति । गायत्रीभिरित्यादि छन्दोविधिः । अत्रादितश्चतस्रो गायत्र्यः । तिस्रः त्रिष्टुभः पञ्चम्याद्याः । सप्तमी पथ्याबृहतीति, त्रिष्टुबेव वा; छन्दोन्तरस्येहाप्रस्तुतत्वात् ॥
7 यं कामयेतेति पक्षान्तरम् । वसीयान् वसुमत्तरः । 'विन्मतोर्लुक्' 'टेः' इति टिलोपः । समीची सङ्गते । संपूर्वादञ्चतेः 'ऋत्विक्' इत्यादिना क्विन्, 'समस्समि' इति सम्यादेशः 'चौ' इति दीर्घत्वम्, अन्तोदात्तं च । 'नपुंसकाच्च' इति शीभावः ॥
8 अष्टाभिरिति पक्षान्तरम् । 'सीद होतः' इत्यादिमन्त्रत्रयेण देवान्मनुष्यान् वयांसि च अस्मै संसादयति सङ्गतान् स्थापयति च धनपातनाय 'देवान् हविषा यजासि' इति प्रथमे दर्शनात् `होतृषदने विदानः' इति द्वितीये दर्शनात् । मनुष्यहोतृग्रहणात् तृतीये 'देववीतमः' इति दर्शनात् देवानां तर्पयितृतमः चित्याग्निः सपक्षपुच्छादेति । देवमतुष्यानिति । उपलक्षणत्वाद्वयांसि च ॥
इति पञ्चमे प्रथमे चतुर्थोनुवाकः ॥