मेन॒मित्या॒हौष॑धयो॒ वा अ॒ग्नेर्भा॑ग॒धेयं॒ ताभि॑रे॒वैनꣳ॒॒ सम॑र्द्धयति॒ पुष्पा॑वतीः सुपिप्प॒ला इत्या॑ह॒ तस्मा॒दोष॑धयः॒ फलं॑ गृह्णन्त्य॒ यं ॅवो॒ गर्भ॑ ऋ॒त्वियः॑ प्र॒त्नꣳ स॒धस्थ॒मा-ऽस॑द॒दित्या॑ह॒ याभ्य॑ ए॒वैनं॑ प्रच्या॒वय॑ति॒ तास्वे॒वैनं॒ प्रति॑ष्ठापयति॒ द्वाभ्या॑मु॒पाव॑हरति॒ प्रति॑ष्ठित्यै ॥
पदपाठः (Word-by-word)
ए॒न॒म् । इति॑ । आ॒ह॒ । ओष॑धयः । वै । अ॒ग्नेः । भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । ताभिः॑ । ए॒व । ए॒न॒म् । समिति॑ । अ॒द्र्ध॒य॒ति॒ । पुष्पा॑वती॒रिति॒ पुष्प॑ - व॒तीः॒ । सु॒पि॒प्प॒ला इति॑ सु-पि॒प्प॒लाः । इति॑ । आ॒ह॒ । तस्मा᳚त् । ओष॑धयः । फल᳚म् । गृ॒ह्ण॒न्ति॒ । अ॒यम् । वः॒ । गर्भः॑ । ऋ॒त्वियः॑ । प्र॒त्नम् । स॒धस्थ॒मिति॑ स॒ध - स्थ॒म् । एति॑ । अ॒स॒द॒त् । इति॑ । आ॒ह॒ । याभ्यः॑ । ए॒व । ए॒न॒म् । प्र॒च्या॒वय॒तीति॑ प्र - च्या॒वय॑ति । तासु॑ । ए॒व । ए॒न॒म् । प्रतीति॑ । स्था॒प॒य॒ति॒ । द्वाभ्या᳚म् । उ॒पाव॑हर॒तीत्यु॑प - अव॑हरति । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ॥