स॒त्यम॒नयो॑रे॒वैनं॒ प्रति॑ ष्ठापयति॒ नाऽऽ*र्ति॒मार्च्छ॑त्यद्ध्व॒र्युर्न यज॑मानो॒ वरु॑णो॒ वा ए॒ष यज॑मानम॒भ्यैति॒ यद॒ग्निरुप॑नद्ध॒ ओष॑धयः॒ प्रति॑ गृह्णीता॒ग्निमे॒त-मित्या॑ह॒ शान्त्यै॒ व्यस्य॒न् विश्वा॒ अम॑ती॒ररा॑ती॒-रित्या॑ह॒ रक्ष॑सा॒मप॑हत्यै नि॒षीद॑न् नो॒ अप॑ दुर्म॒तिꣳ ह॑न॒दित्या॑ह॒ प्रति॑ष्ठित्या॒ ओष॑धयः॒ प्रति॑मोदद्ध्व - [ ]
पदपाठः (Word-by-word)
स॒त्यम् । अ॒नयोः᳚ । ए॒व । ए॒न॒म् । प्रतीति॑ । स्था॒प॒य॒ति॒ । न । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । अ॒द्ध्व॒र्युः । न । यज॑मानः । वरु॑णः । वै । ए॒षः । यज॑मानम् । अ॒भि । एति॑ । ए॒ति॒ । यत् । अ॒ग्निः । उप॑नद्ध॒ इत्युप॑ - न॒द्धः॒ । ओष॑धयः । प्रतीति॑ । गृ॒ह्णी॒त॒ । अ॒ग्निम् । ए॒तम् । इति॑ । आ॒ह॒ । शान्त्यै᳚ । व्यस्य॒न्निति॑ वि - अस्यन्न्॑ । विश्वाः᳚ । अम॑तीः । अरा॑तीः । इति॑ । आ॒ह॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । नि॒षीद॒न्निति॑ नि-सीदन्न्॑ । नः॒ । अपेति॑ । दु॒र्म॒तिमिति॑ दुः - म॒तिम् । ह॒न॒त् । इति॑ । आ॒ह॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । ओष॑धयः । प्रतीति॑ । मो॒द॒द्ध्व॒म् ।