सो᳚ऽग्नेः कृष्णो॑ रू॒पं कृ॒त्वोदा॑यत॒ सोऽश्वं॒ प्राऽवि॑श॒थ् सोऽश्व॑स्या-वान्तरश॒फो॑-भव॒द्-यदश्व॑माक्र॒मय॑ति॒ य ए॒व मेधोऽश्वं॒ प्राऽवि॑श॒त् तमे॒वाव॑ रुन्धे प्र॒जाप॑तिना॒ऽग्निश्चे॑त॒व्य॑ इत्या॑हुः प्राजाप॒त्योऽश्वो॒ यदश्व॑माक्र॒मय॑ति प्र॒जाप॑तिनै॒वाऽग्निं चि॑नुते पुष्करप॒र्णमुप॑ दधाति॒ योनि॒र्वा अ॒ग्नेः पु॑ष्करप॒र्णꣳ सयो॑नि- ( ) -मे॒वाग्निं चि॑नुते॒ ऽपां पृ॒ष्ठम॒सीत्युप॑ दधात्य॒पां ॅवा ए॒तत् पृ॒ष्ठं ॅयत् पु॑ष्करप॒र्णꣳ रू॒पेणै॒वैन॒दुप॑ दधाति ॥
पदपाठः (Word-by-word)
सः । अ॒ग्नेः । कृष्णः॑ । रू॒पम् । कृ॒त्वा । उदिति॑ । आ॒य॒त॒ । सः । अश्व᳚म् । प्रेति॑ । अ॒वि॒श॒त् । सः । अश्व॑स्य । अ॒वा॒न्त॒र॒श॒फ इत्य॑वान्तर - श॒फः । अ॒भ॒व॒त् । यत् । अश्व᳚म् । आ॒क्र॒मय॒तीत्या᳚ - क्र॒मय॑ति । यः । ए॒व । मेधः॑ । अश्व᳚म् । प्रेति॑ । अवि॑शत् । तम् । ए॒व । अवेति॑ । रु॒न्धे॒ । प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ । अ॒ग्निः । चे॒त॒व्यः॑ । इति॑ । आ॒हुः॒ । प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः । अश्वः॑ । यत् । अश्व᳚म् । आ॒क्र॒मय॒तीत्या᳚-क्र॒मय॑ति । प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ । ए॒व । अ॒ग्निम् । चि॒नु॒ते॒ । पु॒ष्क॒र॒प॒र्णमिति॑ पुष्कर - प॒र्णम् । उपेति॑ । द॒धा॒ति॒ । योनिः॑ । वै । अ॒ग्नेः । पु॒ष्क॒र॒प॒र्णमिति॑ पुष्कर - प॒र्णम् । सयो॑नि॒मिति॒ स-यो॒नि॒म् ( ) । ए॒व । अ॒ग्निम् । चि॒नु॒ते॒ । अ॒पाम् । पृ॒ष्ठम् । अ॒सि॒ । इति॑ । उपेति॑ । द॒धा॒ति॒ । अ॒पाम् । वै । ए॒तत् । पृ॒ष्ठम् । यत् । पु॒ष्क॒र॒प॒र्णमिति॑ पुष्कर - प॒र्णम् । रू॒पेण॑ । ए॒व । एन॒त्॒ । उपेति॑ । द॒धा॒ति॒ ॥