मू᳚र्द्ध॒न्वती᳚र्भवन्ति॒ तस्मा᳚त् पु॒रस्ता᳚न्मू॒र्द्धा पञ्च॒ दक्षि॑णायाꣳ॒॒ श्रोण्या॒मुप॑ दधाति॒ पञ्चोत्त॑रस्यां॒ तस्मा᳚त् प॒श्चाद्-वर्.षी॑यान् पु॒रस्ता᳚त् प्रवणः प॒शुर्ब॒स्तो वय॒ इति॒ दक्षि॒णेऽꣳस॒ उप॑ दधाति वृ॒ष्णिर्वय॒ इत्युत्त॒रे ऽꣳसा॑वे॒व प्रति॑ दधाति व्या॒घ्रो वय॒ इति॒ दक्षि॑णे प॒क्ष उप॑ दधाति सिꣳ॒॒हो वय॒ इत्युत्त॑रे प॒क्षयो॑रे॒व वी॒र्यं॑ दधाति॒ पुरु॑षो॒ वय॒ इति॒ ( ) मद्ध्ये॒ तस्मा॒त् पुरु॑षः पशू॒नामधि॑पतिः ॥
पदपाठः (Word-by-word)
मू॒द्र्ध॒न्वती॒रिति॑ मूद्र्धन्न्-वतीः᳚ । भ॒व॒न्ति॒ । तस्मा᳚त् । पु॒रस्ता᳚त् । मू॒द्र्धा । पञ्च॑ । दक्षि॑णायाम् । श्रोण्या᳚म् । उपेति॑ । द॒धा॒ति॒ । पञ्च॑ । उत्त॑रस्या॒मित्युत्-त॒र॒स्या॒म् । तस्मा᳚त् । प॒श्चात् । वर्.षी॑यान् । पु॒रस्ता᳚त् प्रवण॒ इति॑ पु॒रस्ता᳚त् - प्र॒व॒णः॒ । प॒शुः । ब॒स्तः । वयः॑ । इति॑ । दक्षि॑णे । अꣳसे᳚ । उपेति॑ । द॒धा॒ति॒ । वृ॒ष्णिः । वयः॑ । इति॑ । उत्त॑र॒ इत्युत् - त॒रे॒ । अꣳसौ᳚ । ए॒व । प्रतीति॑ । द॒धा॒ति॒ । व्या॒घ्रः । वयः॑ । इति॑ । दक्षि॑णे । प॒क्षे । उपेति॑ । द॒धा॒ति॒ । सिꣳ॒॒हः । वयः॑ । इति॑ । उत्त॑र॒ इत्युत् - त॒रे॒ । प॒क्षयोः᳚ । ए॒व । वी॒र्य᳚म् । द॒धा॒ति॒ । पुरु॑षः । वयः॑ । इति॑ ( ) । मद्ध्ये᳚ । तस्मा᳚त् । पुरु॑षः । प॒शू॒नाम् । अधि॑पति॒रित्यधि॑ - प॒तिः॒ ॥