दधाति॒ नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी प्रा॒णाने॒व पु॒रस्ता᳚द्धत्ते॒ तस्मा᳚त् पु॒रस्ता᳚त् प्रा॒णा ज्योति॑ष्मती-मुत्त॒मामुप॑ दधाति॒ तस्मा᳚त् प्रा॒णानां॒ ॅवाग्ज्योति॑रुत्त॒मा दशोप॑ दधाति॒ दशा᳚क्षरा वि॒राड् वि॒राट् छन्द॑सां॒ ज्योति॒र्ज्योति॑रे॒व पु॒रस्ता᳚द्धत्ते॒ तस्मा᳚त् पु॒रस्ता॒ज्ज्योति॒रुपा᳚ ऽऽ*स्महे॒ छन्दाꣳ॑सि प॒शुष्वा॒जिम॑यु॒स्तान् बृ॑ह॒त्युद॑जय॒त् तस्मा॒द्-बार्.ह॑ताः - [ ]
पदपाठः (Word-by-word)
द॒धा॒ति॒ । नव॑ । वै । पुरु॑षे । प्रा॒णा इति॑ प्र - अ॒नाः । नाभिः॑ । द॒श॒मी । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व । पु॒रस्ता᳚त् । ध॒त्ते॒ । तस्मा᳚त् । पु॒रस्ता᳚त् । प्रा॒णा इति॑ प्र - अ॒नाः । ज्योति॑ष्मतीम् । उ॒त्त॒मामित्यु॑त् - त॒माम् । उपेति॑ । द॒धा॒ति॒ । तस्मा᳚त् । प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । वाक् । ज्योतिः॑ । उ॒त्त॒मेत्यु॑त् - त॒मा । दश॑ । उपेति॑ । द॒धा॒ति॒ । दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । वि॒राडिति॑ वि - राट् । छन्द॑साम् । ज्योतिः॑ । ज्योतिः॑ । ए॒व । पु॒रस्ता᳚त् । ध॒त्ते॒ । तस्मा᳚त् । पु॒रस्ता᳚त् । ज्योतिः॑ । उपेति॑ । आ॒स्म॒हे॒ । छन्दाꣳ॑सि । प॒शुषु॑ । आ॒जिम् । अ॒युः॒ । तान् । बृ॒ह॒ती । उदिति॑ । अ॒ज॒य॒त् । तस्मा᳚त् । बार्.ह॑ताः ।