-त्तर॒तस्तस्मा᳚थ् स॒व्यो हस्त॑योः सम्भा॒र्य॑तरः॒ क्रतु॑रेकत्रिꣳ॒॒श इति॑ पु॒रस्ता॒दुप॑ दधाति॒ वाग्वै क्रतु॑र्यज्ञ्मु॒खं ॅवाग्य॑ज्ञ्मु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति ब्र॒द्ध्नस्य॑ वि॒ष्टपं॑ चतुस्त्रिꣳ॒॒श इति॑ दक्षिण॒तो॑ऽसौ वा आ॑दि॒त्यो ब्र॒द्ध्नस्य॑ वि॒ष्टपं॑ ब्रह्मवर्च॒समे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द् दक्षि॒णोऽर्द्धो᳚ ब्रह्मवर्च॒सित॑रः प्रति॒ष्ठा त्र॑यस्त्रिꣳ॒॒श इति॑ प॒श्चात् प्रति॑ष्ठित्यै॒ नाकः॑ षट्त्रिꣳ॒॒श इत्यु॑त्तर॒तः सु॑व॒र्गो वै ( ) लो॒को नाकः॑ सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥श्पेचिअल् खोर्वै fओर् अनुवाकम्आ॒शु - र्व्यो॑म - ध॒रुणो॑ - भा॒न्तः - प्रतू᳚र्तिर -भिव॒र्तो - वर्च॒ - स्तपो॒ - योनि॒ - र्गर्भा॒ - ओजः॑ - स॒भंर॑णः॒ - क्रतु॑ - र्ब्र॒द्ध्रस्य॑ - प्रति॒ष्ठा - नाकः॒ - षोड॑श)
पदपाठः (Word-by-word)
उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । तस्मा᳚त् । स॒व्यः । हस्त॑योः । स॒भां॒र्य॑तर॒ इति॑ संभा॒र्य॑ - त॒रः॒ । क्रतुः॑ । ए॒क॒त्रिꣳ॒॒श इत्ये॑क - त्रिꣳ॒॒शः । इति॑ । पु॒रस्ता᳚त् । उपेति॑ । द॒धा॒ति॒ । वाक् । वै । क्रतुः॑ । य॒ज्ञ्॒मु॒खमिति॑ यज्ञ् - मु॒खम् । वाक् । य॒ज्ञ्॒मु॒खमिति॑ यज्ञ् - मु॒खम् । ए॒व । पु॒रस्ता᳚त् । वीति॑ । या॒त॒य॒ति॒ । ब्र॒द्ध्नस्य॑ । वि॒ष्टप᳚म् । च॒तु॒स्त्रिꣳ॒॒श इति॑ चतुः - त्रिꣳ॒॒शः । इति॑ । द॒क्षि॒ण॒तः । अ॒सौ । वै । आ॒दि॒त्यः । ब्र॒द्ध्नस्य॑ । वि॒ष्टप᳚म् । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । ए॒व । द॒क्षि॒ण॒तः । ध॒त्ते॒ । तस्मा᳚त् । दक्षि॑णः । अद्र्धः॑ । ब्र॒ह्म॒व॒र्च॒सित॑र॒ इति॑ ब्रह्मवर्च॒सि - त॒रः॒ । प्र॒ति॒ष्ठेति॑ प्रति - स्था । त्र॒य॒स्त्रिꣳ॒॒श इति॑ त्रयः-त्रिꣳ॒॒शः । इति॑ । प॒श्चात् । प्रति॑ष्ठित्या॒ इति॒ प्रति॑-स्थि॒त्यै॒ । नाकः॑ । ष॒ट्त्रिꣳ॒॒श इति॑ षट्-त्रिꣳ॒॒शः । इति॑ । उ॒त्त॒र॒त इत्यु॑त्-त॒र॒तः । सु॒व॒र्ग इति॑ सुवः - गः । वै ( ) । लो॒कः । नाकः॑ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । सम॑ष्ट्या॒ इति॒ सं - अ॒ष्ट्यै॒ ॥आ॒शु - र्व्यो॑म - ध॒रुणो॑ - भा॒न्तः - प्रतू᳚र्तिर -भिव॒र्तो - वर्च॒ - स्तपो॒ - योनि॒ - र्गर्भा॒ - ओजः॑ - स॒भंर॑णः॒ - क्रतु॑ - र्ब्र॒द्ध्रस्य॑ - प्रति॒ष्ठा - नाकः॒ - षोड॑श)