भव॑न्ती॒र्न प्राजा॑यन्त॒ ताः सꣳ॑रो॒हो॑ऽसि नीरो॒हो॑ऽसीत्ये॒व प्राऽज॑नय॒त् ताः प्र॒जाः प्रजा॑ता॒ न प्रत्य॑तिष्ठ॒न् ता व॑सु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्ये॒वैषु लो॒केषु॒ प्रत्य॑स्थापय॒द्यदाह॑ वसु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीति॑ प्र॒जा ए॒व प्रजा॑ता ए॒षु लो॒केषु॒ प्रति॑ष्ठापयति॒ सात्मा॒ऽन्तरि॑क्षꣳ ( ) रोहति॒ सप्रा॑णो॒ऽमुष्मि॑न् ॅलो॒के प्रति॑ तिष्ठ॒त्यव्य॑र्द्धुकः प्राणापा॒नाभ्यां᳚ भवति॒ य ए॒वं ॅवेद॑ ॥
पदपाठः (Word-by-word)
भव॑न्तीः । न । प्रेति॑ । अ॒जा॒य॒न्त॒ । ताः । सꣳ॒॒रो॒ह इति॑ सं - रो॒हः । अ॒सि॒ । नी॒रो॒ह इति॑ निः - रो॒हः । अ॒सि॒ । इति॑ । ए॒व । प्रेति॑ । अ॒ज॒न॒य॒त् । ताः । प्र॒जा इति॑ प्र - जाः । प्रजा॑ता॒ इति॒ प्र-जा॒ताः॒ । न । प्रतीति॑ । अ॒ति॒ष्ठ॒न्न् । ताः । व॒सु॒कः । अ॒सि॒ । वेष॑श्रि॒रिति॒ वेष॑-श्रिः॒ । अ॒सि॒ । वस्य॑ष्टिः । अ॒सि॒ । इति॑ । ए॒व । ए॒षु । लो॒केषु॑ । प्रतीति॑ । अ॒स्था॒प॒य॒त् । यत् । आह॑ । व॒सु॒कः । अ॒सि॒ । वेष॑श्रि॒रिति॒ वेष॑ - श्रिः॒ । अ॒सि॒ । वस्य॑ष्टिः । अ॒सि॒ । इति॑ । प्र॒जा इति॑ प्र - जाः । ए॒व । प्रजा॑ता॒ इति॒ प्र - जा॒ताः॒ । ए॒षु । लो॒केषु॑ । प्रतीति॑ । स्था॒प॒य॒ति॒ । सात्मेति॒ स - आ॒त्मा॒ । अ॒न्तरि॑क्षम् ( ) । रो॒ह॒ति॒ । सप्रा॑ण॒ इति॒ स - प्रा॒णः॒ । अ॒मुष्मिन्न्॑ । लो॒के । प्रतीति॑ । ति॒ष्ठ॒ति॒ । अव्य॑द्र्धुक॒ इत्यवि॑ - अ॒द्र्धु॒कः॒ । प्रा॒णा॒पा॒नाभ्या॒मिति॑ प्राण - अ॒पा॒नाभ्या᳚म् । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ ॥