प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.3.8.3 TS 5.3.8.3
-छन्दाꣳ॑सि॒ विषु॑रूपाने॒व प॒शूनव॑ रुन्धे॒ विषु॑रूपमस्य गृ॒हे दृ॑श्यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं ॅवेदाऽ*ति॑च्छन्दस॒मुप॑ दधा॒त्यति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दाꣳ॑सि॒ सर्वे॑भिरे॒वैनं॒ छन्दो॑भिश्चिनुते॒ वर्ष्म॒ वा ए॒षा छन्द॑सां॒ ॅयदति॑च्छन्दा॒ यदति॑च्छन्दस-मुप॒दधा॑ति॒ वर्ष्मै॒वैनꣳ॑ समा॒नानां᳚ करोति द्वि॒पदा॒ उप॑ दधाति द्वि॒पाद्-यज॑मानः॒ ( ) प्रति॑ष्ठित्यै ॥
▶ पदपाठः (Word-by-word)
छन्दाꣳ॑सि । विषु॑रूपा॒निति॒ विषु॑ - रू॒पा॒न् । ए॒व । प॒शून् । अवेति॑ । रु॒न्धे॒ । विषु॑रूप॒मिति॒ विषु॑-रू॒प॒म् । अ॒स्य॒ । गृ॒हे । दृ॒श्य॒ते॒ । यस्य॑ । ए॒ताः । उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । यः । उ॒ । च॒ । ए॒नाः॒ । ए॒वम् । वेद॑ । अति॑च्छन्दस॒मित्यति॑ - छ॒न्द॒स॒म् । उपेति॑ । द॒धा॒ति॒ । अति॑च्छन्दा॒ इत्यति॑ - छ॒न्दाः॒ । वै । सर्वा॑णि । छन्दाꣳ॑सि । सर्वे॑भिः । ए॒व । ए॒न॒म् । छन्दो॑भि॒रिति॒ छन्दः॑-भिः॒ । चि॒नु॒ते॒ । वर्ष्म॑ । वै । ए॒षा । छन्द॑साम् । यत् । अति॑च्छन्दा॒ इत्यति॑ - छ॒न्दाः॒ । यत् । अति॑च्छन्दस॒मित्यति॑ - छ॒न्द॒स॒म् । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । वर्ष्म॑ । ए॒व । ए॒न॒म् । स॒मा॒नाना᳚म् । क॒रो॒ति॒ । द्वि॒पदा॒ इति॑ द्वि - पदाः᳚ । उपेति॑ । द॒धा॒ति॒ । द्वि॒पादिति॑ द्वि - पात् । यज॑मानः ( ) । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ॥
पदसंख्या: 51