-ऽजायां᳚ घ॒र्मं प्रासि॑ञ्च॒न्थ्सा शोच॑न्ती प॒र्णं परा॑ऽजिहीत॒ सो᳚(1॒)ऽर्को॑ऽभव॒त् तद॒र्कस्या᳚-र्क॒त्वम॑र्कप॒र्णेन॑ जुहोति सयोनि॒त्वायोद॒ङ् तिष्ठ॑न् जुहोत्ये॒षा वै रु॒द्रस्य॒ दिख् स्वाया॑मे॒व दि॒शि रु॒द्रं नि॒रव॑दयते चर॒माया॒मिष्ट॑कायां जुहोत्यन्त॒त ए॒व रु॒द्रं नि॒रव॑दयते त्रेधाविभ॒क्तं जु॑होति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान्थ् स॒माव॑द्वीर्यान् करो॒तीय॒त्यग्रे॑ जुहो॒त्य - [ ]
पदपाठः (Word-by-word)
अ॒जाया᳚म् । घ॒र्मम् । प्रेति॑ । अ॒सि॒ञ्च॒न्न् । सा । शोच॑न्ती । प॒र्णम् । परेति॑ । अ॒जि॒ही॒त॒ । सः । अ॒र्कः । अ॒भ॒व॒त् । तत् । अ॒र्कस्य॑ । अ॒र्क॒त्वमित्य॑र्क - त्वम् । अ॒र्क॒प॒र्णेनेत्य॑र्क - प॒र्णेन॑ । जु॒हो॒ति॒ । स॒यो॒नि॒त्वायेति॑ सयोनि - त्वाय॑ । उदङ्॑ । तिष्ठन्न्॑ । जु॒हो॒ति॒ । ए॒षा । वै । रु॒द्रस्य॑ । दिक् । स्वाया᳚म् । ए॒व । दि॒शि । रु॒द्रम् । नि॒रव॑दयत॒ इति॑ निः-अव॑दयते । च॒र॒माया᳚म् । इष्ट॑कायाम् । जु॒हो॒ति॒ । अ॒न्त॒तः । ए॒व । रु॒द्रम् । नि॒रव॑दयत॒ इति॑ निः - अव॑दयते । त्रे॒धा॒वि॒भ॒क्तमिति॑ त्रेधा - वि॒भ॒क्तम् । जु॒हो॒ति॒ । त्रयः॑ । इ॒मे । लो॒काः । इ॒मान् । ए॒व । लो॒कान् । स॒माव॑द्वीर्या॒निति॑ स॒माव॑त् - वी॒र्या॒न् । क॒रो॒ति॒ । इय॑ति । अग्रे᳚ । जु॒हो॒ति॒ ।