वै ग्रु॑मु॒ष्टिः स॑योनि॒त्वाय॒ द्वाभ्यां॒ प्रति॑ष्ठित्या अनुपरि॒चार॒-मवो᳚क्ष॒त्य-प॑रिवर्गमे॒वैना᳚न् प्रीणाति॒ वि वा ए॒ष प्रा॒णैः प्र॒जया॑ प॒शुभि॑र्.ऋद्ध्यते॒ यो᳚ऽग्निं चि॒न्वन्न॑धि॒क्राम॑ति प्राण॒दा अ॑पान॒दा इत्या॑ह प्रा॒णाने॒वाऽऽत्मन् ध॑त्ते वर्चो॒दा व॑रिवो॒दा इत्या॑ह प्र॒जा वै वर्चः॑ प॒शवो॒ वरि॑वः प्र॒जामे॒व प॒शूना॒त्मन् ध॑त्त॒ इन्द्रो॑ वृ॒त्रम॑ह॒न्तं ॅवृ॒त्रो - [ ]
पदपाठः (Word-by-word)
वै । ग्रु॒मु॒ष्टिः । स॒यो॒नि॒त्वायेति॑ सयोनि - त्वाय॑ । द्वाभ्या᳚म् । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । अ॒नु॒प॒रि॒चार॒मित्य॑नु - प॒रि॒चार᳚म् । अवेति॑ । उ॒क्ष॒ति॒ । अप॑रिवर्ग॒मित्यप॑रि - व॒र्ग॒म् । ए॒व । ए॒ना॒न् । प्री॒णा॒ति॒ । वीति॑ । वै । ए॒षः । प्रा॒णैरिति॑ प्र - अ॒नैः । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । ऋ॒द्ध्य॒ते॒ । यः । अ॒ग्निम् । चि॒न्वन्न् । अ॒धि॒क्राम॒तीत्य॑धि - क्राम॑ति । प्रा॒ण॒दा इति॑ प्राण - दाः । अ॒पा॒न॒दा इत्य॑पान - दाः । इति॑ । आ॒ह॒ । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व । आ॒त्मन् । ध॒त्ते॒ । व॒र्चो॒दा इति॑ वर्चः - दाः । व॒रि॒वो॒दा इति॑ वरिवः - दाः । इति॑ । आ॒ह॒ । प्र॒जेति॑ प्र - जा । वै । वर्चः॑ । प॒शवः॑ । वरि॑वः । प्र॒जामिति॑ प्र - जाम् । ए॒व । प॒शून् । आ॒त्मन्न् । ध॒त्ते॒ । इन्द्रः॑ । वृ॒त्रम् । अ॒ह॒न्न् । तम् । वृ॒त्रः ।