प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.6.6.1 TS 5.6.6.1
प्र॒जाप॑तिर॒ग्निम॑चिनुत॒ स क्षु॒रप॑विर्भू॒त्वाऽति॑ष्ठ॒त् तं दे॒वा बिभ्य॑तो॒ नोपा॑ऽऽ*य॒न् ते छन्दो॑भिरा॒त्मानं॑ छादयि॒त्वोपा॑ऽऽ*य॒न् तच्छन्द॑सां छन्द॒स्त्वं ब्रह्म॒ वै छन्दाꣳ॑सि॒ ब्रह्म॑ण ए॒तद्-रू॒पं ॅयत् कृ॑ष्णाजि॒नं कार्ष्णी॑ उपा॒नहा॒वुप॑ मुञ्चते॒ छन्दो॑भिरे॒वाऽऽ*त्मानं॑ छादयि॒त्वाऽग्निमुप॑ चरत्या॒त्मनोऽहिꣳ॑सायै देवनि॒धिर्वा ए॒ष नि धी॑यते॒ यद॒ग्नि - [ ]
▶ पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । अ॒ग्निम् । अ॒चि॒नु॒त॒ । सः । क्षु॒रप॑वि॒रिति॑ क्षु॒र - प॒विः॒ । भू॒त्वा । अ॒ति॒ष्ठ॒त् । तम् । दे॒वाः । बिभ्य॑तः । न । उपेति॑ । आ॒य॒न्न् । ते । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । आ॒त्मान᳚म् । छा॒द॒यि॒त्वा । उपेति॑ । आ॒य॒न्न् । तत् । छन्द॑साम् । छ॒न्द॒स्त्वमिति॑ छन्दः - त्वम् । ब्रह्म॑ । वै । छन्दाꣳ॑सि । ब्रह्म॑णः । ए॒तत् । रू॒पम् । यत् । कृ॒ष्णा॒जि॒नमिति॑ कृष्ण - अ॒जि॒नम् । कार्ष्णी॒ इति॑ । उ॒पा॒नहौ᳚ । उपेति॑ । मु॒ञ्च॒ते॒ । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । ए॒व । आ॒त्मान᳚म् । छा॒द॒यि॒त्वा । अ॒ग्निम् । उपेति॑ । च॒र॒ति॒ । आ॒त्मनः॑ । अहिꣳ॑सायै । दे॒व॒नि॒धिरिति॑ देव - नि॒धिः । वै । ए॒षः । नीति॑ । धी॒य॒ते॒ । यत् । अ॒ग्निः ।
पदसंख्या: 50
▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 प्रजापतिरित्यादि नित्य एव गुणविशेषविधिः ॥ क्षुरपविः क्षुरवन्निशिता धारा यस्य सः क्षुरपविः । तादृशो भूत्वा चितोग्निर- तिष्ठत् दुरुपगम आसीत् । तं तादृशं देवा भीतास्सन्तो नोपायन् नोपगन्तुं शक्ता अभवन् । 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । त इत्यादि । गतम् । छन्दोभिर्मन्त्रैः । तस्माच्छादनहेतुत्वात् छन्दस्त्वम् । छादयतेर्व्यत्ययेन नुम्भावः ॥
2 ब्रह्म वा इत्यादि हेतुः ॥ ब्रह्मवर्चसहेतुत्वात् ब्रह्मण इति । तत एव हेतोः ॥
3 कार्ष्णी इति विधिः ॥ कृष्णमृगविकारभूतः । 'प्राणिरजतादिभ्योऽञ्' इत्यञ्प्रत्ययः । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । छन्दोभिरित्यादि । गतम् ॥
4 देवनिधिरित्यादि ॥ गतम् । अग्निर्नाम देवानां निधिस्थानीयो निधीयते गुप्तं स्थाप्यते स यदि सम्यक् गुप्तो न स्यात् ततस्तमगुप्तमन्ये वाऽनिधातारो लभेरन् । स्वयं वा न प्रति प्रजानाति इह मया निहितमिति न प्रत्यभिजानीयात् । तस्मान्नित्यात्मनोग्नेः गोपनस्थानीयमुखाक्रमणं पादेन कुर्यादिति विधिः । आत्मानमेवाधिकं पातारं कुरुते । पातेर्विच् । तच्च गुप्त्यै भवति । ततस्तमन्ये न वेत्स्यन्ते, स्वयं च प्रत्यभिज्ञास्यतीति ॥
5 अथो खल्वाहुरित्यादिराक्रमणनिन्दा । नैरृतिः निरृतिरिति देवता । तस्मादाक्रमणं निरृत्यै आत्मानमपिदध्यात् प्रक्षिपेत् । तस्मान्नाक्रम्योखामपिदध्यादिति ॥
6 पुरुषशीर्षमिति विधिः ॥ निधेर्गुप्त्यर्थं प्रत्यभिज्ञानार्थं च कथमित्याह - अथो इत्यादि यथा कश्चिन्निधिस्थाने स्थापयित्वा ब्रूयात् एतन्मदीयं रक्षेति तादृङ्निधिगेपनं पुरुषशीर्ष इति ॥
7 प्रजापतिर्वा इत्यादि ॥ इष्टकास्तुतिः । तत्र 'इन्द्रो दधीचो अस्थभिः' इति श्रुतिविशेषानुरोधेन अग्नेरस्थित्वेनेष्टका निरूप्यन्ते । प्रजापतिरथर्वा तत्पुरुष आथर्वणो दध्यङ्नाम सोग्निरेव तस्यास्थीनि इष्टका अभवत् । 'छन्दस्यपि दृश्यते' इत्यनङ् । अमुमेवार्थं मन्त्रलिङ्गेन समर्थयते - एतं ह वावेति । अमुमेवार्थं 'इन्द्रो दधीचः' इति मन्त्रेण ऋषिर्वेदो ह्यनुवदति तस्मादिष्टकाभिश्चयनात्सात्माऽग्निश्चितो भवति आत्मीयावयवसहित इत्यर्थः । एवं वेदिता अमुष्मिन् लोके भोगस्थाने सात्मा अमृतो भवति ॥
8 शरीरं वा इत्यादि ॥ वैश्वानरहोमविधिः । चित्यश्चेतव्योग्नेः शरीरम् । यत्र यो वैश्वानरं द्वादशकपालम् ॥
9 यदित्यादि ॥ यजमानशरीरत्वेन रूपणं वैश्वानरस्यावदानप्रतिषेधार्थम् । आत्मना स्वयमारोहति । तस्मादात्मशरीरस्य अवदानं न युज्यते । जीवन्नेव च देवान्गच्छति ॥
10 वैश्वानर्यर्चेति ॥ 'पृष्टो दिवि' इत्येतया । इयं वा इत्यादि पुरीषोपधानस्तुतिः गता ॥
इति पञ्चमे षष्ठे पष्ठोनुवाकः ॥