प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.1.1.1 TS 6.1.1.1
प्रा॒चीन॑वꣳशं करोति देवमनु॒ष्या दिशो॒ व्य॑भजन्त॒ प्राचीं᳚ दे॒वा द॑क्षि॒णा पि॒तरः॑ प्र॒तीचीं᳚ मनु॒ष्या॑ उदी॑चीꣳ रु॒द्रा यत् प्रा॒चीन॑वꣳशं क॒रोति॑ देवलो॒कमे॒व तद्-यज॑मान उ॒पाव॑र्तते॒ परि॑ श्रयत्य॒न्तर्.हि॑तो॒हि दे॑वलो॒को म॑नुष्यलो॒का-न्नास्माल्लो॒काथ् स्वे॑तव्यमि॒वेत्या॑हुः॒ को हि तद्-वेद॒ यद्-य॒मुष्मि॑ॅल्लो॒केऽस्ति॑ वा॒ न वेति॑ दि॒क्ष्व॑ती का॒शान् क॑रो - [ ]
▶ पदपाठः (Word-by-word)
प्रा॒चीन॑वꣳश॒मिति॑ प्रा॒चीन॑ - वꣳ॒॒श॒म् । क॒रो॒ति॒ । दे॒व॒म॒नु॒ष्या इति॑ देव - म॒नु॒ष्याः । दिशः॑ । वीति॑ । अ॒भ॒ज॒न्त॒ । प्राची᳚म् । दे॒वाः । द॒क्षि॒णा । पि॒तरः॑ । प्र॒तीची᳚म् । म॒नु॒ष्याः᳚ । उदी॑चीम् । रु॒द्राः । यत् । प्रा॒चीन॑वꣳश॒मिति॑ प्रा॒चीन॑ - वꣳ॒॒श॒म् । क॒रोति॑ । दे॒व॒लो॒कमिति॑ देव - लो॒कम् । ए॒व । तत् । यज॑मानः । उ॒पाव॑र्तत॒ इत्यु॑प - आव॑र्तते । परीति॑ । श्र॒य॒ति॒ । अ॒न्तर्.हि॑त॒ इत्य॒न्तः - हि॒तः॒ । हि । दे॒व॒लो॒क इति॑ देव - लो॒कः । म॒नु॒ष्य॒लो॒कादिति॑ मनुष्य - लो॒कात् । न । अ॒स्मात् । लो॒कात् । स्वे॑तव्य॒मिति॒ सु - ए॒त॒व्य॒म् । इ॒व॒ । इति॑ । आ॒हुः॒ । कः । हि । तत् । वेद॑ । यदि॑ । अ॒मुष्मिन्न्॑ । लो॒के । अस्ति॑ । वा॒ । न । वा॒ । इति॑ । दि॒क्षु । अ॒ती॒का॒शान् । क॒रो॒ति॒ ।
पदसंख्या: 50
▶ सायणभाष्यम् (Sayana Commentary)

{(अथ षष्ठाष्टके प्रथमः प्रपाठकः) । (तत्र प्रथमोऽनुवाकः)।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥१॥

तदिदं सौम्यकाण्डम् । तथा चानुक्रमणिकायामुक्तम् —

“अध्वरप्रभृतित्रीणि तद्विधिर्वाजपेयकौ । सवाः शुक्रियकाण्डे च नवेन्दोरिति धारणा” इति ॥

आप उन्दन्त्वित्यादिकमध्वरकाण्डम् । आ ददे ग्रावाऽसीत्यादिकं ग्रहकाण्डम् । उदु त्यं जातवेदसमित्यादिकं दक्षिणाकाण्डम् । तान्येतानि त्रीणि । प्राचीनवंशं करोतीत्यादिकं त्रयाणामेतेषां विधिः । देव सवितः प्र सुवेत्यादिकं वाजपेयस्य मन्त्रकाण्डम् । देवा वै यथादर्शं यज्ञानाहरन्तेत्यादिकं वाजपेयस्य विधिकाण्डम् । त्रिवृत्स्तोमो भवतीत्यादिकाः सवाः । नमो वाचे या चोदितेत्यादिकं शुक्रियमन्त्रकाण्डम् । देवा वै सत्रमासतेत्यादिकं तद्विधिकाण्डम् । तान्येतानि नवसंख्याकानि चन्द्रस्य काण्डानि । अतस्तेषु चन्द्र ऋषिरिति ध्यायेत् ।

“सोमाङ्गे दीक्षणीयादौ दर्शमन्त्रातिदेशनात् । दर्शोर्ध्वत्वं तत्र युक्तमग्निष्टोमोऽत्र वर्ण्यते” ॥

त्रिविधः सोमयाग एकाहाहीनसत्रनामकः । एकस्मिन्नेवाहनि सवनत्रयेण निष्पाद्य एकाहः । द्विरात्रमारभ्यैकादशरात्रपर्यन्ता अहीनाः । त्रयोदशरात्रमारभ्य सहस्रसंवत्सरपर्यन्तानि सत्राणि । द्वादशाहस्तु द्विरूपः । तत्राहीनरूपेण द्विरात्रादीनां प्रकृतिः, सत्ररूपेण त्रयोदशरात्रादीनाम् । तस्य च द्वादशाहस्यैकाहरूपो ज्योतिष्टोमः प्रकृतिः । अत एवाऽऽम्नायते — “एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोमः” इति । यद्यपि सप्तसंस्थो ज्योतिष्टोमोऽग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडश्यतिरात्रोऽप्तोर्यामो वाजपेयश्चेति, तथाऽप्यग्निष्टोमे कृत्स्नाङ्गजातस्योपदिष्टत्वात्स एवेतरेषां प्रकृतिः । अतः प्रथमं स एवाभिधीयते ।

तत्र प्रथमानुवाके क्षौरादिभिः संस्कृतस्य यजमानस्य प्राचीनवंशाख्यशालाप्रवेशोऽभिधीयते । आप उन्दन्त्वित्यादयः क्षौरमन्त्राः । क्षौरात्प्रागेव शाला निर्मातव्या । ततो बौधायनो दीक्षासाधनद्रव्यसंपादनपूर्वकं शालानिर्माणमाह – “अग्निष्टोमेन यक्ष्यमाणो भवति स उपकल्पयते कृष्णाजिनं च कृष्णविषाणं च वासश्च मेखलां च” इति । “जुष्टे देवयजने शाला कारिता भवति” इति च ।

आपस्तम्बोऽपि “सोमेन यक्ष्यमाणो ब्राह्मणानार्षेयानृत्विजो वृणीते” इत्युपक्रम्य वरणं देवयजनाध्यवसानं दीक्षणीयेष्टिं चाभिधायेदमाह — “प्राचीनवंशं करोति पुरस्तादुन्नतं पश्चान्निनतं सर्वतः परिश्रितम्” इति ।}

एतदेवाभिप्रेत्य वपनविधेः पूर्वं शालां विधत्ते – “प्राचीनवंशं करोति देवमनुष्या दिशो व्यभजन्त प्राचीं देवा दक्षिणा पितरः, प्रतीचीं मनुष्या उदीचीं रुद्रा यत्प्राचीनवंशं करोति देवलोकमेव तद्यजमान उपावर्तते” (सं. का.६ प्र.१ अ.१) इति ।

प्रागायतः पृष्ठवंशो यस्य गृहविशेषस्य स प्राचीनवंशः । केचित्तु यस्य देवयजनस्येति विगृह्य कृत्स्नदेवयजनविधिमेतमाहुः । देवयजनैकदेशरूपगृहसंबद्धो वंशो देवयजनसंबद्धो भवति । वंशस्य प्रागग्रत्वेन तद्गृहं यजमानो देवलोकं करोति ।

गृहस्य कुड्यस्थानीयमावरणं विधत्ते — ‘परिश्रयत्यन्तर्हितो हि देवलोको मनुष्यलोकात्” (सं. का.६ प्र.१ अ.१) इति ।

स्वर्गस्य मनुष्यैरदृश्यत्वादत्रापि तदर्थं परिश्रयणम् ।

द्वाराणि विधत्ते — ‘नास्माल्लोकात्स्वेतव्यमिवेत्याहुः को हि तद्वेद यद्यमुष्मिँल्लोकेऽस्ति वा न वेति दिक्ष्वतीकाशान्करोत्युभयोर्लोकयोरभिजित्यै’ (सं. का.६ प्र.१ अ.१) इति ।

इहलोके तावत्सुखं प्रत्यक्षसिद्धम् । गृहक्षेत्रपुत्रमित्रादिभिस्तदुत्पादात् ॥ स्वर्गे तु संदिग्धम् । यद्यविघ्नेनेदं कर्म साङ्गं समाप्येत तदा सुखमस्ति नान्यथा । भवदपि तत्सुखं नेदानीं भवति किंतु मरणादूर्ध्वम् । तदाऽपि प्रबलेन केनचिन्नरकप्रदेन कर्मणा प्रतिबन्धे सति ततोऽपि विलम्ब्येत । तस्मादिदानीमेवास्माल्लोकान्न सर्वात्मना निर्गन्तव्यमिति बुद्धिमन्त आहुः । तत एतल्लोकदर्शनाय द्वारेषु कृतेषु लोकद्वयजयो भवति । (#TS 1.2.1.0)

विधत्ते — केशश्मश्रु वपते नखानि निकृन्तते मृता वा एषा त्वममेध्या यत्केशश्मश्रु मृतामेव त्वचममेध्यामपहत्य यज्ञियो भूत्वा मेधमुपैति’ (सं. का.६ प्र.१ अ.१) इति ।

विधत्ते — ‘अङ्गिरसः सुवर्गं लोकं यन्तोऽप्सु दीक्षातपसी प्रावेशयन्नप्सु स्नाति साक्षादेव दीक्षातपसी अवरुन्धे’ (सं. का.६ प्र.१ अ.१) इति ।

मुण्डनादिसंस्कारो दीक्षा । आहारादिनियमस्तपः । अप्सु स्नानेन तदुभयमव्यवधानेनैव प्राप्नोति ।

अवतरणप्रदेशं विधत्ते — ’तीर्थे स्नाति तीर्थे हि ते तां प्रावेशयन्’ (सं. का.६ प्र.१ अ.१) इति ।

उक्तमेवार्थमनूद्य स्तौति – ‘तीर्थे स्नाति तीर्थमेव समानानां भवति’ (सं. का.६ प्र.१ अ.१) इति । सख्यादीनां समानानां तीर्थवत्सेव्यो भवति ।

आचमनं विधत्ते – ‘अपोऽश्नात्यन्तरत एव मेध्यो भवति’ (सं. का.६ प्र.१ अ. १) इति ।

‘वाससा दीक्षयति सौम्यं वै क्षौमं देवतया सोममेष देवतामुपैति यो दीक्षते’ (सं. का.६ प्र.१ अ.१) इति । दीक्षयति संस्करोति ।

‘सोमस्य तनूरसि तनुवं मे पाहीत्याह स्वामेव देवतामुपैत्यथो आशिषमेवैतामाशास्ते’ (सं. का.६ प्र.१ अ.१) इति । वस्त्रपरिहितस्य सोम एव स्वा देवता ।

प्रकारान्तरेण प्रस्तौति — ‘अग्नेस्तूषाधानं वायोर्वातपानं पितृणां नीविरोषधीनां प्रघात आदित्यानां प्राचीनतानो विश्वेषां देवानामोतुर्नक्षत्राणामतीकाशास्तद्वा एतत्सर्वदेवत्यं यद्वासो यद्वाससा दीक्षयति सर्वाभिरेवैनं देवताभिर्दीक्षयति’ (सं. का.६ प्र.१ अ.१) इति ।

शलाकोपधानं तूषाः । तत्र तन्तूनां पूरणं तूषाधानम् । वायुना शोषणं वातपानम् । नीविर्बन्धविशेषः । प्रघातो दण्डेन शलाकोपधानेन वा प्रहारः । प्राचीनतानो दीर्घतन्तुप्रसारणम् । ओतुस्तिर्यक्तन्तुप्रसारणम् । अतीकाशाश्छिद्राणि । एतेषु क्रमेणाग्न्यादयोऽभिमानिदेवताः ।

भोजनं विधत्ते — ‘बहिःप्राणो वै मनुष्यस्तस्याशनं प्राणोऽश्नाति सप्राण एव दीक्षते’ (सं. का.६ प्र.१ अ.१) इति । प्राणस्थितिहेतुत्वादशनस्य प्राणत्वम् । मित्रबन्ध्वादिभिः प्रार्थितो बहु भुञ्जीतेति ।

विधत्ते — ‘आशितो भवति यावानेवास्य प्राणस्तेन सह मेधमुपैति” (सं. का.६ प्र.१ अ.१) इति ।

अभ्यङ्गं विधत्ते — ‘घृतं देवानां मस्तु पितृणां निष्पक्वं मनुष्याणां तद्वा एतत्सर्वदेवत्यं यन्नवनीतं यन्नवनीतेनाभ्यङ्क्ते सर्वा एव देवताः प्रीणाति’ (सं. का.६ प्र.१ अ.१) इति ।

नवनीतस्य पाकजन्यास्तिस्रोऽवस्थाः पक्वं किंचित्पक्वं निःशेषपक्वं च । द्रव्यान्तरप्रक्षेपेण सुरभि निःशेषपक्वम् । अत एव बह्वृचाः पठन्ति – ‘आज्यं वै देवानां सुरभि घृतं मनुष्याणामायुतं पितॄणां नवनीतं गर्भाणाम्’ इति ।

‘प्रच्युतो वा एषोऽस्माल्लोकादतो देवलोकं यो दीक्षितोऽन्तरेण नवनीतं तस्मान्नवनीतेनाभ्यङ्क्ते” (सं. का.६ प्र.१ अ.१) इति ।

दीक्षितस्य स्वर्गसाधने प्रवृत्तत्वादेतल्लोकप्रच्युतिः । यागस्यासमाप्तत्वाद्देवलोकप्राप्त्यभावः । नवनीतमपि क्षीरभावात्प्रच्युत्य घृतभावं न प्राप्नोति । अतोऽन्तरालवर्तित्वसाम्यात्तेन तस्याभ्यङ्गो युक्तः ।

‘अनुलोमं यजुषा व्यावृत्त्यै’ (सं. का.६ प्र.१ अ.१) इति ।

मनुष्याणां नास्त्यानुलोम्ये नियमः न वाऽभ्यङ्गे मन्त्रोऽस्ति । तस्माद्व्यावृत्त्यै तदुभयमत्रेति नियम्यते ।

‘इन्द्रो वृत्रमहन्तस्य कनीनिका पराऽपतत्तदाञ्जनमभवद्यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते” (सं. का.६ प्र.१ अ.१) इति । विनाशयतीत्यर्थः ।

‘दक्षिणं पूर्वमाऽङ्क्ते सव्यं हि पूर्वं मनुष्या आञ्जते न नि धावते नीव हि मनुष्या धावन्ते पञ्चकृत्व आऽङ्क्ते पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवावरुन्धे परिमितमाऽङ्क्तेऽपरिमितं हि मनुष्या आञ्जते सतूलयाऽऽङ्क्तेऽपतूलया हि मनुष्या आञ्जते व्यावृत्त्यै” (सं. का.६ प्र.१ अ.१) इति ।

मनुष्यस्य योषितामञ्जने वामभागपूर्वत्वं प्रसिद्धम् । अञ्जनोपेताङ्गुलेश्चक्षुषि सहसा पुनः पुनः पर्यावर्तनं निधावनं तच्च मनुष्याः कुर्वन्ति । यज्ञे सवनीयपुरोडाशद्रव्याणां पञ्चसंख्यया पङ्क्तिच्छन्दोगताक्षरसाम्याद्यज्ञस्य पाङ्क्तत्वम् ।

तथा च पञ्चमप्रपाठके वक्ष्यति – ‘ब्रह्मवादिनो वदन्ति नर्चा न यजुषा पङ्क्तिराप्यतेऽथ किं यज्ञस्य पाङ्क्तत्वमिति धानाः करम्भः परिवापः पुरोडाशः पयस्या तेन पङ्क्तिराप्यते तद्यज्ञस्य पाङ्क्तत्वम्’ (सं. का.६ प्र.५ अ.१०) इति ।

परिमितमल्पं पञ्चसंख्यानियमो वा । न ह्ययं नियमो मनुष्येष्वस्ति । अग्रसहिता शरेषीका सतूला । मनुष्याणामिषीकानियम एव नास्ति कृतः सतूलत्वनियमः ।

‘यदपतूलयाऽऽञ्जीत वज्र इव स्यात्सतूलयाऽऽङ्क्ते मित्रत्वाय’ (सं. का.६ प्र.२ अ.१) इति ।

तूलरहितशरकाष्ठस्य तीक्ष्णाग्रत्वाद्वज्रसमत्वम् ।

“इन्द्रो वृत्रमहन्त्सोऽपोऽभ्यम्रियत तासां यन्मेध्यं यज्ञियं सदेवमासीत्तदपोदक्रामत्ते दर्भा अभवन्यद्दर्भपुञ्जीलैः पवयति या एव मेध्या यज्ञियाः सदेवा आपस्ताभिरेवैनं पवयति” (सं. का.६ प्र.१ अ.१) इति ।

मेध्यं शुद्धं, यज्ञियं यज्ञार्हं, सदेवं देवताप्रियम् । उत्पवनब्राह्मणे दर्भोत्पत्तिर्व्याख्याता ।

“द्वाभ्यां पवयत्यहोरात्राभ्यामेवैनं पवयति, त्रिभिः पवयति त्रय इमे लोका एभिरेवैनं लोकैः पवयति, पञ्चभिः पवयति पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञायैवैनं पवयति, षड्भिः पवयति षड्वा ऋतव ऋतुभिरेवैनं पवयति, सप्तभिः पवयति सप्त छन्दासि छन्दोभिरेवैनं पवयति, नवभिः पवयति नव वै पुरुषे प्राणाः सप्राणमेवैनं पवयत्येकविंशत्या पवयति दश हस्त्या अङ्गुलयो दश पद्या आत्मैकविंशो यावनेव पुरुषस्तमपरिवर्गं पवयति” (सं. का.६ प्र.१ अ.१) इति ।

“गायत्री त्रिष्टुब्जगत्यनुष्टुप्पङ्क्त्या सह । बृहत्युष्णिहा ककुत्सूचीभिः शिम्यन्तु त्वा” इति कश्चिन्मन्त्र आम्नायते । तत्रोष्णिक्ककृभोरवान्तरभेदपरित्यागेन सप्त च्छन्दांसि । संचारस्थानभूतच्छिद्राभिप्रायेण प्राणानां नवत्वम् । अपरिवर्गं निःशेषम् । एकविंशतिपक्ष एवात्रानुष्ठेयः । “एकविंशत्या दर्भपुञ्जीलैः पवयति” इति बह्वृचब्राह्मण आम्नातत्वात् । तत्प्रशंसार्थमितरे पक्षा अवयुत्यानुवादः ।

“चित्पतिस्त्वा पुनात्वित्याह मनो वै चित्पतिर्मनसैवैनं पवयति वाक्पतिस्त्वा पुनात्वित्याह वाचैवैनं पवयति देवस्त्वा सविता पुनात्वित्याह सवितृप्रसूत एवैनं पवयति” (सं. का.६ प्र.१ अ.१) इति ।

“तस्य ते पवित्रपते पवित्रेण यस्मै कं पुने तच्छकेयमित्याहाऽऽशिषमेवैतामाशास्ते” (सं. का.६ प्र.१ अ.१) इति ।

आ व इति ।

▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ सौम्यस्याध्वरस्य ब्राह्मणं सौम्यं काण्डमारभ्यते । तत्र 'प्राचीनवंशं करोति' डति विधिः ।। हविर्धानशब्दवत् योगाख्यैषा हि देवयजनस्य । तेन देवयजनविधिरयं, न गुणविधिमात्रम् । प्राचीनः, प्रागायतः पृष्ठवंशोस्मिन्निति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । प्रागश्चतीति ऋत्विगादिना क्विनि 'अचः' इति भलोपे 'चौ' इति दीर्घत्वं, 'विभाषाश्चेरदिक् स्त्रियाम्' इति खः । तादृशं देवयजनं कुर्यादिति । लिङर्थे लट्, 'तिङतिङः' इति निहन्यते ।।
2 अथ प्राचीनवंशत्वं विशिष्टफलहेतुत्वेन स्तोतुमाह - देवाश्च मनुष्याश्च दिशः प्रागादिका व्यभजन्त विभज्य परिगृहीतवन्तः, विविधं वा अभजन्त । 'उदात्तस्वरितयोर्यणः' इति संहितायामडागमस्स्वर्यते । के कामित्याह - प्राचीं देवाः । 'अञ्चतेश्चोपसंख्यानम्' इति ङीप्, 'चौ' इति पूर्वपदस्यान्तोदात्तत्वं दीर्घत्वं च, 'आङयाजयारामुपसंख्यानम्' इति द्वितीयाया आङादेशः । 'दक्षिणादाच्' इति वा व्यत्ययेन द्वितीयान्तादपि भवति । प्रतीचीम् । पूर्ववत्स्वरदीर्घत्वे, 'अनिगन्तोञ्चतौ' इति गतेः प्रकृतिस्वरत्वम् ।।
3 इदानीं तमेव फलविशेषं दर्शयति - यत् यस्मात् प्राचीनवंशं करोति देवयजनम् । तत् तस्माद्यजमानः देवलोकमेवोपावर्तते उपसंप्राप्तमेवोपागम्य वर्तते देवलोकस्वभावत्वादस्य देवयजनस्य । यद्वा - उपावर्तते उपसंप्राप्तुमाभिमुख्येन वर्तते ।।
4 परि श्रयतीति विधिः - समन्ताद्देवयननं प्रच्छन्नं करोति । अयं च देवलोकत्वसंपादने द्वितीयो हेतुः । अधुना तमेव समर्थयते - हि यस्मादर्थे । यस्माद्देवलोको मनुष्यलोकादन्तर्हितः मनुष्यलोकमभिसमीक्ष्य व्यवहितो भवति । यद्वा - मनुष्यलोकमभिसमीक्ष्य तिरोहितो भवति । मनुष्यलोकमभिसमीक्षमाणः इममेव लोकं सन्तं मन्यते असन्तममुम् । ल्यब्लोपे पञ्चमी । 'अन्तरपरिग्रहे' इत्यन्तश्शब्दस्य गतित्वात् 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । एवं परिश्रयणेन च देवलोकत्वं कृतं भवति ।।
5 इदनीमतीकाशान्विधास्यन् देवलोकस्य दौर्बल्यं तावत्प्रतिपादयति - नास्मादिति ।। यत्र बहूनि भद्राणि पश्यामः अस्माल्लोकान्न स्वेतव्यम् न साधु गन्तव्यं, गन्तव्यं न साध्विति यावत् । इति खल्वाहुः प्रत्यक्षापहृतचेतसो लौकिकाः । 'ऊडिदम्' इतीदमो विभक्तेरुदात्तत्वम् । शोभनमेतव्यं स्वेतव्यमिति प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । नन्वमुष्मिन्नपि लोके बहुभद्रकं भोक्ष्यते, तत्किमित्याहुर्न स्वेतव्यमिति, अतस्त एवाहुः - को हीति । अमुष्मिन्लोके यद्यस्ति भद्रकं, यदि वा नास्ति को वा नाम तद्वेदितुं प्रभवतीति । हि यस्मात् न कश्चिदपि तद्वेद, तस्मादितो न स्वेतव्यमित्याहुः । एतदुक्तं भवति - इतस्तावत्त्वरितेन न गन्तव्यं, परलोकसुखस्य विप्रकृष्टत्वात्, इदानीं तावदनुभवितव्यं नास्ति, तस्मादीदृशदेवलोकसाम्यापादने न कश्चिद्गुणो देवयजनस्य, अपि तु त्रासहेतुरेव स्यात् इदं मनुष्याणामिति । वेदेत्यस्य 'हि च' इति निघातप्रतिषेधः । अस्तीत्यस्य 'चवायोगे प्रथमा' इति निघाताभावः । तर्हि परिश्रयणं कर्तव्यमेव न ब्रूमः । तस्मात्परिश्रयणं न कर्तव्यमेवेति । किन्नु अत्र समाधिः कर्तव्य एवेति ब्रूमः ।।
6 कोसावित्याह - दिक्ष्वतीकाशान् करोतीति विधिः - दिक्षु सर्वासु अतीकाशान् द्वाराणि कुर्यात् । भित्तौ छदिषि वा अतीत्य, व्यवधानं काशन्त इत्यतीकाशाः, पचाद्यत्, 'इकः काशे' इति पूर्वपदस्य दीर्घत्वम् । अधिकरणे साधने वा घञि थाथादिनोत्तरपदान्तोदात्तत्वम्, कृदुत्तरपदप्रकृतिस्वरत्वं वा 'कर्षात्वतः' इत्यन्तोदात्तत्वात् 'उपसर्गस्य घञ्यमनुष्ये बहुलम्' इति दीर्घः । 'सावेकाचः' इति दिशो विभक्तेरुदात्तत्वम् । फलमाह - उभयोर्लोकयोः अस्यामुप्य च अभिजयाय भवतीति । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ।।
7 'केशश्मश्रु वपते नखानि नि कृन्तते' इति विधिः - केशाश्च श्मश्रूणि च इति समाहारद्वन्द्वे 'जातिरप्राणिनाम्' इत्येकवद्ग्रावः । अधुना केशादित्रयं निन्दति - मृतेति । मृता वा मृतावत् प्राणादिभिरनधिष्ठितत्वात् । तद्वत् छिद्यमानायामप्यस्यां जन्तोः पीडानुदयात् । शवकल्पा खल्वेषा त्वक् । त्वगिव त्वक्; पुरुषस्य छादकत्वात् । अत एवामेध्या अयज्ञार्हा । मेधं नार्हतीति दण्डादिभ्यो यः, 'तत्र साधुः' इति वा यत्, 'ययतोश्चातदर्थे' इत्युत्तरपदान्तोदात्तत्वम् । किं पुनस्तदित्याह - यत्केशश्मश्रु यदिदं केशश्मश्रुनखं प्रकृतोपलक्षणत्वात्त्रयमपि गृह्यते । फलमाह - मृतामिति । वपनकर्तनाभ्यां मृतकल्पां त्वचं अमेधार्हामपहत्य अपास्य यज्ञियः यज्ञार्हो भूत्वा मेघं यज्ञमुपैति उपसंप्राप्नोति । 'यज्ञर्त्विग्भ्याम्' इति घः ।।
8 'अथाप्सु स्नानं विधास्यन् तासां गुणविशेषमाह - अङ्गिरस इति ।। दीक्षा मौण्ड्यादिलक्षणा, तपः उपसदाख्यं, तस्य चेह प्रासङ्गिकं ग्रहणं, दीक्षाधिकारात् । यथा वक्ष्यति 'तीर्थे हि ते ताम्' इति । 'ऊडिदम्' इत्यद्भ्यो विभक्तेरुदात्तत्वम् । अप्सु स्नातीति विधिः । फलमाह - साक्षादिति । अक्ष्णा सह साक्षात् । 'बहुव्रीहौ सक्थ्यक्ष्णोः' इति षच् । अप्सु स्नानेन प्रत्यक्षमेव ते अवरुन्धे गृह्णाति, न पुनर्वपनादिवत् स्नानादृष्टद्बारको दीक्षालाभः । तीर्थे स्नातीति विधिः । तीर्थमवतारः । हेतुमाह - हि यस्मात्ते अङ्गिरसः तां दीक्षा तीर्थे प्रावेशयन्, तस्मात्तीर्थे स्नातव्यमिति । 'हि च' इति निघाताभावः । तीर्थे स्नातीति द्वितीयं विधानं फलविधित्सया । फलं चाह - तीर्थमेवेति । समानानां सजातानां तीर्थमेव भवति यजमानः । यथा तत् स्नानपानावगाहादिना लोकस्योपकारकं भवति, एवमसौ समानानां बहुप्रकारमुपजीव्यो भवति ।।
9 अपोश्नातीति विधिः ।। 'ऊडिदम्' इति शस उदात्तत्वम्, 'स्वरितोवानुदात्ते' इत्येकादेशस्य स्वरितत्वम् । फलमाह - अन्तरत एव मेध्यो भवतीति । मेध्यः मेधार्हः भवति । पूर्ववद्यत्प्रत्यये वृषादित्वादाद्युदात्तत्वम् । मेधे साधुरिति वा यत् । यद्वा - मेध्यध्शुद्धः, मेधे भवः इति दिगादित्वाद्यत्, 'यतो नावः' इत्याद्युदात्तत्वम् ।।
10 वाससा दीक्षयतीति विधिः ।। वासः क्षौमं, अर्थवादे त्वात् । फलमाह - सौम्यमिति । सोमो देवता अस्य 'सोमाट्ट्याण्' । देवतया देवतासंबन्धेन । किं देवत्यमिति निरूप्यमाणे सौम्यं क्षौममिति यावत् । तस्माद्यो वाससा सोमदेवत्येन दीक्षते एषः सोमं वक्ष्यमाणं देवतां उपैतीति सोमावाप्तिः फलम् । यद्वा - यो दीक्षते एषः सोमदेवतामुपैति उपसंप्राप्तुं यतते; वासश्च सोमदेवत्यं, तस्मात् तदुपेतव्यप्राप्तिसाधनमिति ।।
11 अधुना अमुमेवार्थं मन्त्रार्थेऽपि प्रकाशयति - सोमस्येति ।। वक्ष्यमाणाया मदीयाया देवतायास्सोमस्य तनूस्त्वमसीति यस्मादाह मन्त्रः, तस्मात्स्वामेव देवतामुपैति, अनेन मन्त्रेण अनेन च वाससा दीक्षणेन । किमेतावदेव प्रतिपाद्यं मन्त्रस्य? नेत्याह - अथो इति । अपि चेत्यर्थः । तनुवं मे पाहीत्येतामप्याशिषमनेन मन्त्रेणाशास्ते । तदेवं वाससा दीक्षायाः फलद्वयमभीष्टदेवताप्राप्तिरात्मरक्षा चेति ब्राह्मणाभिप्रायः । 'आङश्शासु इच्छायां' इत्यस्य 'क्वौ च' इतीत्वम्, 'शासिवसिघसीनां च' इति षत्वम् ।।
12 अधुना सर्वदेवत्यत्वेन वासस्स्तौति - अग्नेरिति ।। शलाकोपधानरज्जवः तूषाः । तत्र तन्तूनामाधानं पूरणं तूषाधानं, तदग्नेः तदग्निदैवत्यम् । सेचनानि पाययित्वा वातेन पानं शोषणं वातपानम् । पै ओ वै शोषणे, उभयत्रापि कृदुत्तरपदप्रकृतिस्वरत्वम् । व्यत्ययेन 'अनो भावकर्मवचनः' इति न क्रियते । नीविः नहनविशेषः, तन्तूनां तत्र तत्र प्रतिष्ठापनम् । प्रघातः वेमाख्येन दण्डेन प्रहारः । प्राचीनानां द्राघीयसां तन्तूनां तानः तननं प्राचीनतानः । उभयत्र थाथादिनोत्तरपदान्तोदात्तत्वम् । ओतुः तिरश्चीनतानः, तेन हि प्राचीनतानो रक्ष्यते । वयतेरौणादिके तुनि 'छ्वोश्शूट्' इति वकारस्य ऊडादेशः । अतीकाशाश्छिद्राणि प्राचीनतिरश्चीनान्तरवकाशाः, पूर्ववत्स्वरदीर्धत्वे । एवं यद्वा - सो नाम तदेतत्खलु सर्वदेवत्यं सर्वदेवताभ्य इदं सर्वदेवत्यं, देवतान्तात्तादर्थ्ये यत् । तस्माद्वाससा दीक्षितः सर्वाभिर्देवताभिर्दीक्षितो भवति । एनादेशोनुदात्तः ।।
13 अशनं विधास्यन् अशनीयं स्तौति - बहिःपाण इति ।। बहिर्भूता अन्नादयः प्राणहेतवो यस्य । बहिर्भूतैर्वा अन्नादिभिः प्राणनं यस्येति व्यधिकरणो बहुव्रीहिः । यस्मादेवं तस्मात् तस्य मनुष्यस्याशनं प्राणहेतुः । यद्वा - तस्य बहिर्भतूस्यान्नादेरशनं स्वयं प्राणः । प्राणयति जिवयतीति प्राणः, पचाद्यच्, थाथादिनोत्तरपदान्तोदात्तत्वम् । अश्नातीति विधिः । तस्मादश्नीयात्प्राणवत्त्वाय । पदात्परत्वाभावान्न निहन्यते । 'स्वरितो वाऽनुदात्ते पदादौ' इति संहितायामाकारस्स्वर्यते । फलमाह - सप्राण इति । अभ्यन्तरीकृतप्राण एवेत्यर्थः । 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । फलान्तरं चाह - आशितो भवतीति । 'आशितो भुवः' इति निपातनाद्दीर्धत्वम्, कर्तरि निष्ठा च । ण्यन्तात्कर्मणि निष्ठा । आशितो हि सुहितो भवतीति सुहितत्वं लक्ष्यते । सर्वथा ष्टषोदरादित्वादाद्युदात्तत्वं द्रष्टव्यम् । अशनेन ह्ययमाशितो भवति । तस्मादाशितंभवमन्नादिकमश्नीयादिति । तदपि किमर्थमित्याह - यावानिति । अस्याशितस्य यावान्प्राणः तेन सर्वेण मेधं यज्ञमुपैति ।।
14 अथ नवनीतेनाम्यञ्जनं विधास्यन् तत्सर्वदेवत्यतया स्तौति - घृतमिति ।। तिस्रोवस्थाः, नवनीतस्यैताः उद्धृतानुद्धृतविलीनस्वभावतया केचिदाहुः । धृतं अग्नौ विलीनम् । मस्तु स्वयं विलीनम् । निष्पक्वमौषधैः पक्वमिति नवनीतस्यैवावस्थास्तिस्रः इति । निष्पक्वमिति 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । तद्वा इति । तदेतत्सर्वदेवत्यम् । पूर्ववद्यत् । तस्मान्नवनीताभ्यञ्जनं सर्वासां देवतानां प्रीणनम् । अभ्यङ्क्ते इति । 'तिङि चोदात्तवति' इति गतेः अनुदात्तत्वम् । किं चेत्याह - प्रच्युत इति । प्रच्युतः व्यावृत्तोभवत् अप्राप्तश्च देवलोकमसमाप्तकर्मत्वात् । अन्तरा वर्तते । कः? यो दीक्षितः नवनीतं चान्तरेव मध्यमायामिव अवस्थायां वर्तते । तस्मादनुलोमं यजुषेति विधिः । प्रच्युत इति प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अस्मादिति 'ऊडिदम्' इति विभक्तेरुदात्तत्वम् । अनुलोममिति 'अच्प्रत्यन्ववपूर्वात्' इत्यच् । यजुषा 'महीनां पयोसि' इत्यादिना । एवं क्रियमाणमस्य मनुष्येभ्यो व्यावृत्यै भवति । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ।।
15 इन्द्रो वृत्रमहन्नित्यादि ।। कनीनिका अक्षिस्थं कृष्णमण्डलं पराऽपतत् गळिता अभवत्, तदाञ्जनं द्रव्यमभवत् । तस्मादक्ष्णोरञ्जनेन यजमानः भ्रातृव्यस्य शत्रोश्चक्षुर्वृङ्क्ते वर्जयति । वृजि वर्जने । 'व्यन् सपत्ने' इति भ्रातृव्यशव्दाद्व्यन् । तस्मादाञ्जीतेति विधिरनुमीयते ।।
16 अथाञ्जने गुणविधयः - दक्षिणं पूर्वमित्यादि ।। गतम् । न निधावते न भ्रमयति यस्मान्मनुष्या एव निधावन्तः अञ्जने । सर्वत्र 'हि च' इति निघाताभावः । पञ्चकृत्वः एकैकस्य द्वयोर्वा पञ्चकृत्वः । कृत्व इति शब्दान्तरमेवेदमभ्यावृत्तिमाचष्टे । पच्छा क्षरा पङ्क्तिः देवानां पङ्क्तेः पञ्चाक्षरत्वात् । पदानां वा पञ्चाक्षरत्वात् पङ्क्तिः पञ्चाक्षरेत्युच्यते । पङ्क्तेरागतः पाङ्क्तः । उत्सादित्वात् । धानाः, करम्भः, परिवापः, पुरोडाशः, पयस्या, तेन पङ्क्तिराप्यते । तत् यज्ञस्य पाङ्क्तत्वमिति । यज्ञः पाङ्क्त इति । एवमत्रापि पञ्चत्वसङ्ख्यासंपादनात् पाङ्को यज्ञः परिगृहीतो भवतीति । परिमितं पञ्चैवेति परिच्छिन्नम् । 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । अपरिमितं अपरिछिन्नं यथाऽभिप्रेतमावर्तयन्ति मनुष्याः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । सतूलया साग्रेषीकया । अपतूलया शलाकया । पूर्ववत्स्वरः । व्यावृत्यै अमानुषीभूतत्वादस्य मनुष्येभ्यो व्यावृत्तिप्रकटनार्थम् । दक्षिणं पूर्वमित्यादिष्वपि व्यावृत्या इति संबध्यते । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । अपतलूयाऽञ्जनं वज्र इव सर्वस्योपद्रवहेतुस्स्यात् । सतूलया तु सर्वस्य मित्रत्वाय भवति मित्रवदुपद्रवशान्त्यै भवति ।।
17 दर्भपुञ्जीत्यैः पवनं विधास्यन् दर्भांस्तावत्स्तौति - इन्द्र इति ।। इन्द्रेण हतो वृत्रः सोपोभि यत्रापस्तत्राम्रियत मृतो बभूव अपामुपरीत्यर्थः । 'अभिरभागे' इत्यभेः कर्मप्रवचनीयत्वम्, 'कर्मप्रवचनीययुक्ते द्वितीया' इत्यप्शब्दात् द्वितीया, तस्याः 'ऊडिदम्' इत्याद्युदात्तत्वम्, 'स्वरितो वाऽनुदात्ते पदादौ' इत्योकारस्स्वर्यते, 'उदात्तस्वरितयोर्यणः' इत्यट्स्वरितत्वम् । तासामपां यन्मेध्यं शुद्धं रूपम् । पूर्ववद्यत् । यज्ञियं यज्ञार्हम् । पूर्ववद्धः । सदेवं देवसहितं देवयोग्यमित्यर्थः । यदीदृशं रूपमासीत्, तदपोदक्रामत् अपोपहायोर्ध्वमगच्छत् । ते दर्भा अभवन् तद्दर्भभावं प्रत्यपद्यत । दर्भापेक्षया बहुवचनम् । तस्माद्दर्भपुञ्जीलैः पावनेन मेध्यत्वादिगुणादिभिरद्भिर्यजमानः पावितो भवति । तेन 'दर्भपुञ्जीलैः पावयेत्' इति विधिर्गम्यते । 'प्वादीनां ह्रस्वः' इति व्यत्ययेन णिच्यपि प्रवर्तते । 'संज्ञापूर्वको विधिरनित्यः' इति वा वृद्धिर्न क्रियते ।।
18 द्वाभ्यामित्यादयो गुणविधयः । एकस्मिन्पवने अवयुत्य वादा एते इति केचित् । नानासंख्याविधीनामेकवाक्यत्वासंभवाद्विकल्प इत्यन्ये । अत्र संख्याविशेषाः संख्येयविशेषं सन्निधाप्य तेन स्तू- यन्ते । त्रिभिः । 'षट्चतुर्भ्यो हलादिः' इति भिस उदात्तत्वम् । पञ्चभिः । झल्युपोत्तमस्योदात्तत्वम् । पञ्चाक्षरेत्यादि । व्याख्यातम् । यज्ञाय । ननु सर्वेऽपि विधयः यज्ञायैव निर्वर्त्यन्ते, तत्कोस्य विशेषः? अयमस्ति विशेषः - यज्ञायैवेति यज्ञाविच्छेदः प्रतिपाद्यते; यथा यज्ञसंपादनैकरुचिः सर्वकालं भवति तथा पवयति । एवं नाम प्रशस्तं पञ्चभिः पवनमिति । षद्भिः । पूर्ववद्भिस उदात्तत्वम् । सप्तभिः । पूर्ववदुपोत्तमस्योदात्तत्वम् । सप्त छन्दांसि गायत्र्यादीनि प्रधानानि । 'विश्वजनादीनां छन्दसि वेति वक्तव्यम्' इति तुगभावः । नवभिः । पर्वूवत्स्वरः । नव प्राणाः नवरन्ध्राधिष्ठानाः । सप्राणम् । शोधकगतं नवत्वं शोध्येऽपि पुरुषे नवत्वं प्रत्याययति । यद्वा - क्रियाविशेषणम्, सप्राणं यथा पवयति प्राणैरेनं पवयतीत्यर्थः । एकविंशत्या । महासङ्ख्यैषा, एका च विंशतिश्चैकविंशतिः । 'संख्या' इति पूर्वपदप्रकृतिस्वरत्वम् । हस्त्याः हस्ते भवाः । 'शरीरावयवाच्च' इति यत्, 'यतो नावः' इत्याद्युदात्तत्वम् । पद्याः पादे भवाः। पर्वूवत्प्रत्ययः, स्वरश्च, 'पद्यत्यतदर्थे' इति पद्भावः । आत्मा शरीरमेकविंशः एकविंशतेः पूरणः, 'तिविंशतेर्डिति' इति तिलोपः । एवं यावान्पुरुषः तमपरिवर्गं किंचिदप्यपरिहाप्य समस्तमेव पवयति । छान्दसो वञ् । यद्वा - परिवर्जनीयं परिवर्गः, कर्मणि घञ्, 'चजोः कु घिण्यतोः' इति कुत्वम् । नास्य परिवर्जनीयमस्तीति । व्यत्ययेन 'नञ्सुभ्याम्' इति न क्रियते ।।
10 इदानीं मन्त्रार्थमनुसन्धत्ते - चित्पतिस्त्वा पुनात्वित्याहेति ।। चित्पतिः त्वा पुनातु इति यस्मादाह, तस्मात् मनसैव एनं पवयति । कुतः? मनो वै चित्पतिः चेतनस्येन्द्रियाणां वा पातृत्वात् चित्पतिः । 'पत्यावैश्वर्ये' इत्यस्मिन् 'न भूवाक्चिद्दिधिषु' इति प्रतिषिद्धे 'परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । वाक्पतिः वागिन्द्रियस्याधिष्ठाता । वाचा । 'सावेकाचः' इति विभक्तेरुदात्तत्वम् । सवितृप्रसूत एव सवित्रा प्रेरित एव पवयति । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । षू प्रेरणे । अनुज्ञाकर्मणस्तु सौतेः सविता सूतः, इति पदद्वयस्यासम्भवः; अनुदात्तत्वात् ह्रस्वान्तत्वाच्च । तस्य त इति । तच्छकेयमित्यन्तं यस्मादाह तस्मात् एतां तस्य ते इत्यादिस्वरूपामाशिषमात्मन आशास्ते यजमानः । यजमानत्वादस्य । यथोक्तं 'यजमानं वाचयति' इति ।।
इति षष्ठे काण्डे प्रथमप्रश्रे प्रथमोनुवाकः ॥