तप॑सा॒ चाऽग॑च्छ॒त् तस्मा᳚त् त्रि॒ष्टुभो॑ लो॒के माद्ध्य॑न्दिने॒ सव॑ने॒ दक्षि॑णा नीयन्त ए॒तत् खलु॒ वाव तप॒ इत्या॑हु॒र्यः स्वं ददा॒तीति॑ गाय॒त्र्युद॑पत॒च्चतु॑रक्षरा स॒त्य॑जया॒ ज्योति॑षा॒ तम॑स्या अ॒जाऽभ्य॑रुन्ध॒ तद॒जाया॑ अज॒त्वꣳ सा सोमं॒ चाऽऽह॑रच्च॒त्वारि॑ चा॒क्षरा॑णि॒ साऽष्टाक्ष॑रा॒ सम॑पद्यत ब्रह्मवा॒दिनो॑ वदन्ति॒ - [ ]
पदपाठः (Word-by-word)
तप॑सा । च॒ । एति॑ । अ॒ग॒च्छ॒त् । तस्मा᳚त् । त्रि॒ष्टुभः॑ । लो॒के । माद्ध्य॑न्दिने । सव॑ने । दक्षि॑णाः । नी॒य॒न्ते॒ । ए॒तत् । खलु॑ । वाव । तपः॑ । इति॑ । आ॒हुः॒ । यः । स्वम् । ददा॑ति । इति॑ । गा॒य॒त्री । उदिति॑ । अ॒प॒त॒त् । चतु॑रक्ष॒रेति॒ चतुः॑ - अ॒क्ष॒रा॒ । स॒ती । अ॒जया᳚ । ज्योति॑षा । तम् । अ॒स्यै॒ । अ॒जा । अ॒भीति॑ । अ॒रु॒न्ध॒ । तत् । अ॒जायाः᳚ । अ॒ज॒त्वमित्य॑ज-त्वम् । सा । सोम᳚म् । च॒ । एति॑ । अह॑रत् । च॒त्वारि॑ । च॒ । अ॒क्षरा॑णि । सा । अ॒ष्टाक्ष॒रेत्य॒ष्टा - अ॒क्ष॒रा॒ । समिति॑ । अ॒प॒द्य॒त॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ ।