-द्यत् क॑र्णगृही॒ता वार्त्र॑घ्नी स्या॒थ् स वा॒ऽन्यं जि॑नी॒यात् तं ॅवा॒ऽन्यो जि॑नीयान्मि॒त्रस्त्वा॑ प॒दि ब॑द्ध्ना॒त्वित्या॑ह मि॒त्रो वै शि॒वो दे॒वानां॒ तेनै॒वैनां᳚ प॒दि ब॑द्ध्नाति पू॒षाऽद्ध्व॑नः पा॒त्वित्या॑हे॒यं ॅवै पू॒षेमामे॒वास्या॑ अधि॒पाम॑कः॒ सम॑ष्ट्या॒ इन्द्रा॒या-द्ध्य॑क्षा॒येत्या॒हेन्द्र॑मे॒वास्या॒ अद्ध्य॑क्षं करो॒ - [ ]
पदपाठः (Word-by-word)
यत् । क॒र्ण॒गृ॒ही॒तेति॑ कर्ण-गृ॒ही॒ता । वार्त्र॒घ्नीति॒ वार्त्र॑ - घ्नी॒ । स्या॒त् । सः । वा॒ । अ॒न्यम् । जि॒नी॒यात् । तम् । वा॒ । अ॒न्यः । जि॒नी॒या॒त् । मि॒त्रः । त्वा॒ । प॒दि । ब॒द्ध्ना॒तु॒ । इति॑ । आ॒ह॒ । मि॒त्रः । वै । शि॒वः । दे॒वाना᳚म् । तेन॑ । ए॒व । ए॒ना॒म् । प॒दि । ब॒द्ध्ना॒ति॒ । पू॒षा । अद्ध्व॑नः । पा॒तु॒ । इति॑ । आ॒ह॒ । इ॒यम् । वै । पू॒षा । इ॒माम् । ए॒व । अ॒स्याः॒ । अ॒धि॒पामित्य॑धि - पाम् । अ॒कः॒ । सम॑ष्ट्या॒ इति॒ सं - अ॒ष्ट्यै॒ । इन्द्रा॑य । अद्ध्य॑क्षा॒येत्यधि॑ - अ॒क्षा॒य॒ । इति॑ । आ॒ह॒ । इन्द्र᳚म् । ए॒व । अ॒स्याः॒ । अद्ध्य॑क्ष॒मित्यधि॑ - अ॒क्ष॒म् । क॒रो॒ति॒ ।