प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.1.8.1 TS 6.1.8.1
षट् प॒दान्यनु॒ नि क्रा॑मति षड॒हं ॅवाङ्नाति॑ वदत्यु॒त सं॑ॅवथ्स॒रस्याय॑ने॒ याव॑त्ये॒व वाक्तामव॑ रुन्धे सप्त॒मे प॒दे जु॑होति स॒प्तप॑दा॒ शक्व॑री प॒शवः॒ शक्व॑री प॒शूने॒वाव॑ रुन्धे स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्ता*ऽऽर॒ण्याः स॒प्त छन्दाꣳ॑-स्यु॒भय॒स्या-व॑रुद्ध्यै॒ वस्व्य॑सि रु॒द्राऽसीत्या॑ह रू॒पमे॒वास्या॑ ए॒तन् म॑हि॒मानं॒ - [ ]
▶ पदपाठः (Word-by-word)
षट् । प॒दानि॑ । अनु॑ । नीति॑ । क्रा॒म॒ति॒ । ष॒ड॒हमिति॑ षट् - अ॒हम् । वाक् । न । अतीति॑ । व॒द॒ति॒ । उ॒त । सं॒ॅव॒थ्स॒रस्येति॑ सं-व॒थ्स॒रस्य॑ । अय॑ने । याव॑ती । ए॒व । वाक् । ताम् । अवेति॑ । रु॒न्धे॒ । स॒प्त॒मे । प॒दे । जु॒हो॒ति॒ । स॒प्तप॒देति॑ स॒प्त - प॒दा॒ । शक्व॑री । प॒शवः॑ । शक्व॑री । प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । स॒प्त । ग्रा॒म्याः । प॒शवः॑ । स॒प्त । आ॒र॒ण्याः । स॒प्त । छन्दाꣳ॑सि । उ॒भय॑स्य । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । वस्वी᳚ । अ॒सि॒ । रु॒द्रा । अ॒सि॒ । इति॑ । आ॒ह॒ । रू॒पम् । ए॒व । अ॒स्याः॒ । ए॒तत् । म॒हि॒मान᳚म् ।
पदसंख्या: 50
▶ सायणभाष्यम् (Sayana Commentary)

मन्त्रान्व्याख्यातुमादावनुष्ठानं विधत्ते —

‘षट्पदान्यनु नि क्रामति षडहं वाङ्नाति वदत्युत संवत्सरस्यायने यावत्येव वाक्तामवरुन्धे’ (सं. का. ६ प्र. १ अ. ८) इति।

आस्ति कश्चित्पृष्ठ्यः षडहाख्यो यागः। तत्र षड्विधानि स्तोत्राणि बृहद्रथंतरवैरूपवैराजशक्वररैवतनामकैः सामभिः साध्यानि। तानि च क्रमेण षट्सु दिनेषु गीयन्ते। न तु सप्तमं पृष्ठ्यस्तोत्रं किंचिदप्यस्ति। ततः प्रधानभूतपृष्ठ्यस्तोत्ररूपा वाग्देवता षडहगतां संख्यामतीत्य न क्वापि वदति। अपि च संवत्सरकालसंबन्धिनि गवामयनेऽपि नाधिकं पृष्ठ्यस्तोत्रं वदति। तस्माद्वाग्रूपायाः सोमक्रयण्याः षट्पदानामनुक्रमणं युक्तम्। तस्माद्वाग्रूपत्वादेव सर्वं वाचमवरुन्धे।

विधत्ते —

“सप्तमे पदे जुहोति सप्तपदा शक्वरी पशवः शक्वरी पशूनेवाव रुन्धे सप्त ग्राम्याः पशवः सप्ताऽऽरण्याः सप्त छन्दास्युभयस्यावरुद्ध्यै” (सं. का. ६ प्र. १ अ. ८) इति।

गवादयो ग्राम्याः। कृष्णमृगादय आरण्याः। तथा च बौधायनः – “सप्त ग्राम्याः पशवोऽजाश्वो गौर्महिषी वराहो हस्त्यश्वतरी चेत्यथ सप्ताऽऽरण्या द्विखुराश्चैकखुराश्च पक्षिणश्च सरीसृपाश्च श्वापदश्च शरभाश्च मर्कटाश्च” इति। गायत्री त्रिष्टुबित्यीदीनि सप्त छन्दांसि। पशुजातीयं छन्दोजातीयं चेत्युभयमपि सप्तसंख्ययाऽवरुध्यते।

प्रथममन्त्रगतशब्दस्वरूपेणैव सोमक्रयण्या महिमाऽऽख्यायत इत्याह —

“वस्व्यसि रुद्राऽसीत्याह रूपमेवास्या एतन्महिमानं व्याचष्टे” (सं. का. ६ प्र. १ अ. ८) इति।

द्वितीयमन्त्रे बृहस्पतिशब्दमा चिकेत्विति शब्दं व्याचष्टे —

“बृहस्पतिस्त्वा सुम्ने रण्वत्वित्याह ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैवास्मै पशूनव रुन्धे रुद्रो वसुभिरा चिकेत्वित्याहाऽऽवृत्त्यै” (सं. का. ६ प्र. १ अ. ८) इति।

तृतीयमन्त्रार्थस्य प्रसिद्धिं दर्शयति-

“पृथिव्यास्त्वा मूर्धन्ना जिघर्मि देवयजन इत्याह पृथिव्या ह्येष मूर्धा यद्देवयजनमिडायाः पद इत्याहेडायै ह्येतत्पदं यत्सोमक्रयण्यै घृतवति स्वाहेत्याह यदेवास्यै पदाद्घृतमपीड्यत तस्मादेवमाह” (सं. का. ६ प्र. १ अ. ८) इति।

सोमक्रयणीपदे हिरण्यप्रक्षेपं विधत्ते —

“यदध्वर्युरनग्नावाहुतिं जुहुयादन्धोऽध्वर्युः स्याद्रक्षासि यज्ञ हन्युर्हिरण्यमुपास्य जुहोत्यग्निवत्येव जुहोति नान्धोऽध्वर्युर्भवति न यज्ञ रक्षासि घ्नन्ति” (सं. का. ६ प्र. १ अ. ८) इति।

रक्षसः प्रसक्तिं पूर्वोक्तां स्मारयन्मन्त्रं व्याचष्टे –

“काण्डेकाण्डे वै क्रियमाणे यज्ञ रक्षासि जिघासन्ति परिलिखित रक्षः परिलिखिता अरातय इत्याह रक्षसामपहत्या इदमह रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश्चैनं द्वेष्टि तयोरेवानन्तरायं ग्रीवाः कृन्तति” (सं. का. ६ प्र. १ अ. ८) इति।

अनन्तरायं द्वयोर्मध्य एकतरस्याप्यन्तरायो यथा न भवति तथेत्यर्थः।

अनुष्ठानविधिपुरःसरं मन्त्रान्व्याचष्टे —

“पशवो वै सोमक्रयण्यै पदं यावत्त्मूत सं वपति पशूनेवाव रुन्धेऽस्मे राय इति सं वपत्यात्मानमेवाध्वर्युः पशुभ्यो नान्तरेति त्वे राय इति यजमानाय प्र यच्छति यजमान एव रयिं दधाति तोते राय इति पत्निया अर्थो वा एष आत्मनो यत्पत्नी यथा गृहेषु निधत्ते तादृगेव तत्” (सं. का. ६ प्र. १ अ. ८) इति।

“त्वष्टीमती ते सपेयेत्याह त्वष्टा वै पशूनां मिथुनाना रूपकृद्रूपमेव पशुषु दधाति” (सं. का. ६ प्र. १ अ. ८) इति।

एतस्य सोमक्रयणीपदरजसस्तृतीयं भागं गार्हपत्ये प्रक्षिपेत्, भागान्तरमाहवनीय इति विधत्ते —

“अस्मै वै लोकाय गार्हपत्य आ धीयतेऽमुष्मा आहवनीयो यद्गार्हपत्य उपवपेदस्मिँल्लोके पशुमान्त्स्याद्यदाहवनीयेऽमुष्मिँल्लोके पशुमान्त्स्यादुभयोरुप वपत्युभयोरेवैनं लोकयोः पशुमन्तं करोति” (सं. का. ६ प्र. १ अ. ८) इति।

▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 षट्पदान्यनु नि क्रामतीति विधिः ।। सोमक्रयणी गच्छन्तीमनुनिक्रामति अनुक्रमेण गच्छति 'वस्व्यसि' इत्यादिभिष्षड्भिर्मन्त्रैः । यस्मादेवं तस्मात् षडहं प्रष्ठ्यं वाङ्नातिवदति स्तुतशस्त्रव्यतिरेकेण न प्रवर्तते; अपि च संवत्सरस्यायने सांवत्सरिके यस्मात् एकहायनीवाग्रूपां षट्पदानि यजमानो न विसृजति तस्मात्षडहं वाङ्न विसृज्यते इति । तस्मात् षट्पदानुगमनेन यावत्येव वाक्तां सर्वामवरुन्धे ।।
2 सप्तमे पदे जुहोतीति विधिः ।। सप्तसंरव्यान्वयेन पशुसाधनभूतसप्तपदशक्वरीलाभात् पशूनवरुन्धे । सप्त पादा अस्या इति बहुव्रीहौ 'संख्यासुपूर्वस्य' इति लोपे 'टाबृचि' इति टापि 'पादः पत्' इति पद्भावः । सप्तसंख्याकानां ग्राम्याणामारण्यानां च पशूनां छन्दसां च गायत्र्यादिजगत्यन्तानां प्रधानानां लाभाय भवति । गवादयो ग्राम्याः । 'ग्रामाद्यखञौ' इति यः । कष्णादय आरण्याः । उभयस्येति । ग्राम्यारण्यानेकीकृत्य । छन्दोभिरुभयं भवति पशूनां छन्दसां चावरुद्ध्यै इति । उभाववयवावस्य 'उभादुदात्तो नित्यम्' इत्ययजाद्युदात्तः, 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ।।
3 इदानीं निष्क्रमणमन्त्रप्रभृति व्याचष्टे - वस्व्यसीत्यादि ।। वस्वादिमतो यज्ञस्य साधनभावलक्षणमस्य महिमानमेतन्मन्त्रस्वरूपमेव व्याचष्टे । न किंचिद्व्याख्येयम् ।।
4 'बृहस्पतिस्त्वा' इति सप्तपदाभिग्रहागमन्त्रं व्याचष्टे ।। बृहस्पतिशब्दो वनस्पत्यादिः, पारस्करादिश्च । ब्रह्मणैवास्मै यजमानाय पशूनवरुन्धे । अस्मा इत्यन्वादेशेऽशनुदात्तः । आवृत्त्या इति । आवृत्तिरविनाशः । पराचीयागान्मावर्ततामित्येतदर्थं रुद्रो वसुभिस्सह क्रियमाणं सप्तमं पदमाचिकेतु अनुजानातु यः पशूनां पतिरिति मन्त्रोणाशास्यते, तेन तदनुज्ञालाभादावर्तते अविनाशा वर्तते । अन्यथा रुद्रोभिमन्येत तत् पराच्येव गच्छेदिति । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ।।
5 अथ 'पृथिव्यास्त्वा' इति पदे जुहोति, तद्व्याचष्टेपृथिव्या ह्येष इति ।। यद्देवयजनं यत्र देवा इज्यन्ते एष हि पृथिव्या मूर्धा शिरस्थानीयं स्थानं प्रधानभूतमिति पृथिव्या मूर्धस्थानीयदेवतायजनरूपोण सप्तमं पदं स्तूयते । यद्वा - पृथिव्या ह्येष मुर्धा मूर्धस्थानीयं सप्तमं पदम् । कोस्य विशेष इत्याह - यद्देवयजनमिति । 'उदात्तयणः' इति पृथिव्या विभक्तेरुदात्तत्वम् । इडायै ह्येतदिति । इडा सोमक्रयागी । 'पशवो वा इडा' इति तस्मादेतदिडायाः पदं यत्सोमक्रयण्याः पदम् । षष्ठ्यर्थे चतुर्थी । यदेवास्या इति । सा यत्रयत्र न्यक्रामत् ततो घृतमपीड्यतेति । यस्मादस्याः पदाहतमपीड्यत तस्मादेवमाह 'इडायाः पदे घृतवति' इति ।।
6 'हिरण्यमुपास्य जुहेति' इति विधास्यन् आह - यदध्वर्युरित्यादि ।। अनग्नौ अग्निरहिते देशे । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । आहुतिशब्दे 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । अध्वर्योरान्ध्ये सति निर्वाधानि रक्षांसि यज्ञं हन्युः, तस्माद्धिरण्यमुपास्योपधाय जुहोतीति विधिः । एवं सति अग्निवत्येव पदे जुहोति । ततश्चोक्तदोषद्वयाप्रसंगः ।।
7 काण्डेकाण्ड इति ।। व्याख्यातम् । पदपरिलेखनेन रक्षःप्रभृतेः परितो नाशितत्वात् एतद्वचनं रक्षसामपहत्यै भवति । पूर्ववद्गतेः प्रकृतिस्वरत्वम् ।।
8 द्वौ वावेति ।। द्वावेतौ पुरुषौ यं च यजमानो द्वेष्टि, यश्चैनं यजमानं द्वेष्टि; एवं यजमानसंबन्धिनौ द्वेष्यद्वेष्टारौ यस्मिन्नित्यात्मसंबन्धितया अध्वर्युराहेति मन्त्राभिप्रायतया ब्राह्मणमाह । अत्रात्मनो द्वेष्टा प्रथमं मन्त्रे निर्दिष्टः, ब्राह्मणे तु द्वेष्यः । तत्र मृग्यो हेतुः । तयोरिति । तयोः द्वेष्यद्वेष्ट्रोः एतेन मन्त्रेणास्येति प्रत्येकविवक्षया एकवचनं प्रयुक्तमिति दर्शयति अस्य द्वेष्टुः द्वेष्यस्य चेति । अनन्तरायमिति । अव्यधानेन द्वयोरपि ग्रीवाः कृन्तति, अप्रत्यूहं वा । एतेन च 'अपि कृन्तामि' इत्यपिशब्दस्यार्थो दर्शित. । अनेन हि कर्तनविषयः कामचार उच्यते । तृतीयार्थे द्वितीया, अव्ययपूर्वपदप्रकृतिस्वरत्वम् । बहुव्रीहौ वा व्यत्ययेन 'नञ्सुभ्याम्' इति न प्रवर्तते । ग्रीवाशब्दो धमनिवचनः; तासां बहुत्वात् बहुवचनम् । यथा 'ग्रीवाभ्यस्ते' इति । कृन्तति छिनत्ति । कृती छेदने, 'शे मुचादीनाम्' इति नुम् ।।
9 पशवो वा इति ।। यागद्वारेण पशुहेतुत्वात्, सप्तत्वस्य वा शाक्वरस्य शाक्वरपशुसाधनत्वात् । यावत्त्मूतं संवपतीति विधिः । यावत्प्रदेशः स्मृतः आज्येन सिक्तः तावत्संवपति गृहीत्वा मृत् धरण्यां क्षिपति, पशूनवरुन्धे । मव बन्धने, निष्ठायां 'ज्वरत्वर' इत्यादिना ऊठादेशः, जस्त्वाभावश्छान्दसः, अनुनासिकाभावश्च । अस्मे राय इति संवपतीति मन्त्रविधिस्स्तुत्यर्थः । आत्मानमेवेति । नान्तरेति न व्यवदधाति आत्मानमेव पशुमन्तं करोति । तस्मादस्मे रायः पशुलक्षणानि धनानि सन्त्वित्यात्मार्थमेवाऽध्वर्युः प्रार्थयते; न यजमानार्थं, तस्य 'त्वे रायः' इति प्रार्थयिष्यमाणत्वात् । त्वे राय इत्यादिविधिः । यजमान एव रयिं पशुलक्षणं दधाति स्थापयति । तोते राय इति पत्निया इति विधिः । प्रयच्छतीत्येव । त्वया ऊतं तोतमिति गृहमुच्यते । तत्र रायो धनानि सन्त्विति पत्न्यै प्रयच्छति । तत्सा गृहेषु निदधाति । अर्धो वा इति । आत्मन एवैकदेशः पत्री; नेदृशं विस्रंभपात्रमस्ति । तस्माद्यथा गृहेष्वात्मीयेषु निधत्ते भूमावप्रकाशं स्थापयति तादृगेव तत् पत्न्यै प्रत्तं धनम्, अविनाशि च भवति, काले चोपयुज्यते ।।
10 'त्वष्टीमती' इत्यादिना पत्नी यजमानमीक्षते, तद्व्याचष्टेत्वष्टा वा इति ।। त्वष्टुर्व्यापारः विविधप्रजारूपनिमार्णशक्तयः, तद्वत्यहं त्वया सपेय मिथुनीभवेयमिति यस्मादनेन मन्त्रेणाशास्ते त्वष्टा च पशूनां मिथुनानां रूपकृत् तस्मादनेन वचनेन पशुषु रूपं यथाऽनुरूपं दधाति पत्नी ।।
11 अस्मा इत्यादि ।। अस्मै लोकाय अस्मिन् लोके यदीप्सितं तत्सिद्धये हेतुः गार्हपत्य आधीयते उत्पाद्यते । 'गृहपतिना संयुक्ते ञः' इति ञः । अमुष्मै आमुष्मिकफलसिद्धये आहवनीयः आधीयते । आहूयतेऽस्मिन्नित्याहवनीयः, 'कृत्यल्युटो बहुलम्' इत्यधिकरणे अनीयर्, 'उपोत्तमं रिति' इत्युपोत्तमस्योदात्त- त्वम् । यदित्यादि । यदि गार्हपत्य एवेपवपेत्पदपांसून्, अस्मिन्नेव लोके पशुमांत्स्याद्यजमानः । 'ह्रस्वनुड्भ्यां मतुप्', इति मतुप उदात्तत्वम् । यद्याहवनीय एव, अमुष्मिन्नेव पशुमांत्स्यात् । तस्मादुभयोरुपवपतीति विधिः । उभयोर्लोकयोरेन यजमानं पशुमन्तं करोतीति ।।
इति षष्ठे प्रथमे अष्टमोनुवाकः ॥