प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.1.9.6 TS 6.1.9.6
-दश॒ सं प॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑ ॅवि॒राड् वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे॒ यद् यजु॑षा॒ मिमी॑ते भू॒तमे॒वाव॑ रुन्धे॒ यत् तू॒ष्णीं भ॑वि॒ष्यद्-यद्-वै तावा॑ने॒व सोमः॒ स्याद् याव॑न्तं॒ मिमी॑ते॒ यज॑मानस्यै॒व स्या॒न्नापि॑ सद॒स्या॑नां प्र॒जाभ्य॒स्त्वेत्युप॒ समू॑हति सद॒स्या॑ने॒वान्वा भ॑जति॒ वास॒सोप॑ नह्यति सर्वदे॒वत्यं॑ ॅवै - [ ]
▶ पदपाठः (Word-by-word)
दश॑ । समिति॑ । प॒द्य॒न्ते॒ । दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । अन्न᳚म् । वि॒राडिति॑ वि - राट् । वि॒राजेति॑ वि - राजा᳚ । ए॒व । अ॒न्नाद्य॒मित्य॑न्न -अद्य᳚म् । अवेति॑ । रु॒न्धे॒ । यत् । यजु॑षा । मिमी॑ते । भू॒तम् । ए॒व । अवेति॑ । रु॒न्धे॒ । यत् । तू॒ष्णीम् । भ॒वि॒ष्यत् । यत् । वै । तावान्॑ । ए॒व । सोमः॑ । स्यात् । याव॑न्तम् । मिमी॑ते । यज॑मानस्य । ए॒व । स्या॒त् । न । अपीति॑ । स॒द॒स्या॑नाम् । प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । त्वा॒ । इति॑ । उप॑ । समिति॑ । ऊ॒ह॒ति॒ । स॒द॒स्यान्॑ । ए॒व । अ॒न्वाभ॑ज॒तीत्य॑नु-आभ॑जति । वास॑सा । उपेति॑ । न॒ह्य॒ति॒ । स॒र्व॒दे॒व॒त्य॑मिति॑ सर्व - दे॒व॒त्य᳚म् । वै ।
पदसंख्या: 50