क॑ल्पयति वैष्ण॒वो वै दे॒वत॑या॒ यूपः॒ स्वयै॒वैनं॑ दे॒वत॑या कल्पयति॒ द्वाभ्यां᳚ कल्पयति द्वि॒पाद् यज॑मानः॒ प्रति॑ष्ठित्यै॒ यं का॒मये॑त॒ तेज॑सैनं दे॒वता॑भिरिन्द्रि॒येण॒ व्य॑र्द्धयेय॒-मित्य॑ग्नि॒ष्ठां तस्याश्रि॑-माहव॒नीया॑दि॒त्थं ॅवे॒त्थं ॅवाऽति॑ नावये॒त् तेज॑सै॒वैनं॑ दे॒वता॑भिरिन्द्रि॒येण॒ व्य॑र्द्धयति॒ यं का॒मये॑त॒ तेज॑सैनं दे॒वता॑भिरिन्द्रि॒येण॒ सम॑र्द्धयेय॒मित्य॑- [ ]
पदपाठः (Word-by-word)
क॒ल्प॒य॒ति॒ । वै॒ष्ण॒वः । वै । दे॒वत॑या । यूपः॑ । स्वया᳚ । ए॒व । ए॒न॒म् । दे॒वत॑या । क॒ल्प॒य॒ति॒ । द्वाभ्या᳚म् । क॒ल्प॒य॒ति॒ । द्वि॒पादिति॑ द्वि - पात् । यज॑मानः । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । यम् । का॒मये॑त । तेज॑सा । ए॒न॒म् । दे॒वता॑भिः । इ॒न्द्रि॒येण॑ । वीति॑ । अ॒द्र्ध॒ये॒य॒म् । इति॑ । अ॒ग्नि॒ष्ठामित्य॑ग्नि - स्थाम् । तस्य॑ । अश्रि᳚म् । आ॒ह॒व॒नीया॒दित्या᳚-ह॒व॒नीया᳚त् । इ॒त्थम् । वा॒ । इ॒त्थम् । वा॒ । अतीति॑ । ना॒व॒ये॒त् । तेज॑सा । ए॒व । ए॒न॒म् । दे॒वता॑भिः । इ॒न्द्रि॒येण॑ । वीति॑ । अ॒द्र्ध॒य॒ति॒ । यम् । का॒मये॑त । तेज॑सा । ए॒न॒म् । दे॒वता॑भिः । इ॒न्द्रि॒येण॑ । समिति॑ । अ॒द्र्ध॒ये॒य॒म् । इति॑ ।