-ह॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒ र्ब्रह्म॑णै॒वास्मै॑ प॒शूनव॑ रुन्धे ह॒व्या ते᳚ स्वदन्ता॒मित्या॑ह स्व॒दय॑त्ये॒वैना॒न् देव॑ त्वष्ट॒र्वसु॑ र॒ण्वेत्या॑ह॒ त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नानाꣳ॑ रूप॒कृद् रू॒पमे॒व प॒शुषु॑ दधाति॒ रेव॑ती॒ रम॑द्ध्व॒मित्या॑ह प॒शवो॒ वै रे॒वतीः᳚ प॒शूने॒वास्मै॑ रमयति दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑- [ ]
पदपाठः (Word-by-word)
आ॒ह॒ । ब्रह्म॑ । वै । दे॒वाना᳚म् । बृह॒स्पतिः॑ । ब्रह्म॑णा । ए॒व । अ॒स्मै॒ । प॒शून् । अवेति॑ । रु॒न्धे॒ । ह॒व्या । ते॒ । स्व॒द॒न्ता॒म् । इति॑ । आ॒ह॒ । स्व॒दय॑ति । ए॒व । ए॒ना॒न् । देव॑ । त्व॒ष्टः॒ । वसु॑ । र॒ण्व॒ । इति॑ । आ॒ह॒ । त्वष्टा᳚ । वै । प॒शू॒नाम् । मि॒थु॒नाना᳚म् । रू॒प॒कृदिति॑ रूप - कृत् । रू॒पम् । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ । रेव॑तीः । रम॑द्ध्वम् । इति॑ । आ॒ह॒ । प॒शवः॑ । वै । रे॒वतीः᳚ । प॒शून् । ए॒व । अ॒स्मै॒ । र॒म॒य॒ति॒ । दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प॒स॒व इति॑ प्र - स॒वे । इति॑ ।