तृ॒तीय॑मपच॒द्-भोगा॑य म इ॒दꣳ श्रा॒न्तम॒स्त्विति॒ ते᳚ऽब्रुव॒न् वरं॑ ॅवृणामहै॒ योऽतो॒ जाया॑ता अ॒स्माकꣳ॒॒ स एको॑ऽस॒द्यो᳚ऽस्य प्र॒जाया॒मृद्ध्या॑ता अ॒स्माकं॒ भोगा॑य भवा॒दिति॒ ततो॒ विव॑स्वानादि॒त्यो॑ ऽजायत॒ तस्य॒ वा इ॒यं प्र॒जा यन्म॑नु॒ष्या᳚स्तास्वेक॑ ए॒वर्द्धो यो यज॑ते॒ स दे॒वानां॒ भोगा॑य भवति दे॒वा वै य॒ज्ञा- [ ]
पदपाठः (Word-by-word)
तृ॒तीय᳚म् । अ॒प॒च॒त् । भोगा॑य । मे॒ । इ॒दम् । श्रा॒न्तम् । अ॒स्तु॒ । इति॑ । ते । अ॒ब्रु॒व॒न्न् । वर᳚म् । वृ॒णा॒म॒है॒ । यः । अतः॑ । जाया॑तै । अ॒स्माक᳚म् । सः । एकः॑ । अ॒स॒त् । यः । अ॒स्य॒ । प्र॒जाया॒मिति॑ प्र - जाया᳚म् । ऋद्ध्या॑तै । अ॒स्माक᳚म् । भोगा॑य । भ॒वा॒त् । इति॑ । ततः॑ । विव॑स्वान् । आ॒दि॒त्यः । अ॒जा॒य॒त॒ । तस्य॑ । वै । इ॒यम् । प्र॒जेति॑ प्र - जा । यत् । म॒नु॒ष्याः᳚ । तासु॑ । एकः॑ । ए॒व । ऋ॒द्धः । यः । यज॑ते । सः । दे॒वाना᳚म् । भोगा॑य । भ॒व॒ति॒ । दे॒वाः । वै । य॒ज्ञात् ।