-मि॑थु॒नं प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ऊर्ग्दधि॑ द॒द्ध्ना म॑द्ध्य॒तः श्री॑णा॒त्यूर्ज॑मे॒व प॑शू॒नां म॑द्ध्य॒तो द॑धाति शृतात॒ङ्क्ये॑न मेद्ध्य॒त्वाय॒ तस्मा॑दा॒मा प॒क्वं दु॑हे प॒शवो॒ वा ए॒ते यदा॑दि॒त्यः प॑रि॒श्रित्य॑ गृह्णाति प्रति॒रुद्ध्यै॒वास्मै॑ प॒शून् गृ॑ह्णाति प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ए॒ष रु॒द्रो यद॒ग्निः प॑रि॒श्रित्य॑ गृह्णाति रु॒द्रादे॒व प॒शून॒न्तर्द॑धा- [ ]
पदपाठः (Word-by-word)
मि॒थु॒नम् । प॒शवः॑ । वै । ए॒ते । यत् । आ॒दि॒त्यः । ऊर्क् । दधि॑ । द॒द्ध्ना । म॒द्ध्य॒तः । श्री॒णा॒ति॒ । ऊर्ज᳚म् । ए॒व । प॒शू॒नाम् । म॒द्ध्य॒तः । द॒धा॒ति॒ । शृ॒ता॒त॒ङ्क्ये॑नेति॑ शृत - आ॒त॒ङ्क्ये॑न । मे॒द्ध्य॒त्वायेति॑ मेद्ध्य - त्वाय॑ । तस्मा᳚त् । आ॒मा । प॒क्वम् । दु॒हे॒ । प॒शवः॑ । वै । ए॒ते । यत् । आ॒दि॒त्यः । प॒रि॒श्रित्येति॑ परि - श्रित्य॑ । गृ॒ह्णा॒ति॒ । प्र॒ति॒रुद्ध्येति॑ प्रति - रुद्ध्य॑ । ए॒व । अ॒स्मै॒ । प॒शून् । गृ॒ह्णा॒ति॒ । प॒शवः॑ । वै । ए॒ते । यत् । आ॒दि॒त्यः । ए॒षः । रु॒द्रः । यत् । अ॒ग्निः । प॒रि॒श्रित्येति॑ परि - श्रित्य॑ । गृ॒ह्णा॒ति॒ । रु॒द्रात् । ए॒व । प॒शून् । अ॒न्तः । द॒धा॒ति॒ ।