पदपाठः (Word-by-word)
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
'यतोऽनावः' इत्याद्युदात्तत्वम् । नरोसि कर्मणां नेताऽसि । नृ नये, पूर्ववदच्, स्वरश्च । अर्वा अरणकुशलोसि । अर्तेर्वनिप्, साप्तिः सर्वत्र समवेतोसि । षप समवाये, क्तिन् । वाजी वेगवानसि । वृषा वर्षिता सेक्ता वाऽसि । 'कनिन्युवृषि' इत्यादिना कनिन् । नृमणाः नृषु मना यस्य, नॄन् मन्यते उपकरोति, नृभिर्वा मन्यसे उपकुर्विति । 'गतिकारकयोरपि' इत्यसुन् 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम्, 'पूर्वपदात्संज्ञयामगः' इति णत्वम् । ययुः यानशलिः । 'यो द्वे च' इत्युप्रत्ययः । ययुरित्यश्वमेधयोग्योश्व इत्याहुः । ययुर्नाम त्वमसि । ब्राह्मणं च 'एतद्वा अश्वस्य प्रियं नामधेयम्'35 इति ।।