प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.1.5.5 TS 7.1.5.5
-त्ये॒षां ॅलो॒काना॒मनु॒ सन्त॑त्यै द॒शतं॒ न विच्छि॑न्द्याद्-वि॒राजं॒ नेद्वि॑च्छि॒नदा॒नीत्यथ॒ या स॑हस्रत॒म्यासी॒त् तस्या॒मिन्द्र॑श्च॒ विष्णु॑श्च॒ व्याय॑च्छेताꣳ॒॒ स इन्द्रो॑ऽमन्यता॒नया॒ वा इ॒दं ॅविष्णुः॑ स॒हस्रं॑ ॅवर्क्ष्यत॒ इति॒ तस्या॑मकल्पेतां॒ द्विभा॑ग॒ इन्द्र॒स्तृती॑ये॒ विष्णु॒स्तद्वा ए॒षाऽभ्यनू᳚च्यत उ॒भा जि॑ग्यथु॒रिति॒ तां ॅवा ए॒ताम॑च्छावा॒क - [ ]
▶ पदपाठः (Word-by-word)
ए॒षाम् । लो॒काना᳚म् । अन्विति॑ । सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ । द॒शत᳚म् । न । वीति॑ । छि॒न्द्या॒त् । वि॒राज॒मिति॑ वि - राज᳚म् । न । इत् । वि॒च्छि॒नदा॒नीति॑ वि - छि॒नदा॑नि । इति॑ । अथ॑ । या । स॒ह॒स्र॒त॒मीति॑ सहस्र - त॒मी । आसी᳚त् । तस्या᳚म् । इन्द्रः॑ । च॒ । विष्णुः॑ । च॒ । व्याय॑च्छेता॒मिति॑ वि - आय॑च्छेताम् । सः । इन्द्रः॑ । अ॒म॒न्य॒त॒ । अ॒नया᳚ । वै । इ॒दम् । विष्णुः॑ । स॒हस्र᳚म् । व॒र्क्ष्य॒ते॒ । इति॑ । तस्या᳚म् । अ॒क॒ल्पे॒ता॒म् । द्विभा॑ग॒ इति॒ द्वि - भा॒गे॒ । इन्द्रः॑ । तृती॑ये । विष्णुः॑ । तत् । वै । ए॒षा । अ॒भ्यनू᳚च्यत॒ इत्य॑भि-अनू᳚च्यते । उ॒भा । जि॒ग्य॒थुः॒ । इति॑ । ताम् । वै । ए॒ताम् । अ॒च्छा॒वा॒कः ।
पदसंख्या: 50